05---sArvadhAtukaprakaraNam-adantam-aGgam/10---curAdigaNaH: Difference between revisions

From Samskrita Vyakaranam
Jump to navigation Jump to search
No edit summary
m (Protected "10 - चुरादिगणः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(No difference)

Latest revision as of 19:35, 12 July 2021

ध्वनिमुद्रणानि
2017 वर्गः
१) curAdigaNaH---paricayaH_+_sAmAnya-dhAtavaH_2017-03-01
२) curAdigaNaH---sAmAnya-halanta-dhAtavaH_2017-03-08
2015 वर्गः
१) curAdigaNaH--1_paricayaH_+_AkArAntadhAtavaH_2015-08-25
२) curAdigaNaH--2_sAmAnya-dhAtavaH_2015-09-01


एतावता सार्वधातुकलकाराणां (लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ इत्येषां) तिङन्तरूपाणि साधितानि अस्माभिः भ्वादिगणे, दिवादिगणे, तुदादिगणे च | अनेन क्रमेण पाठः प्रवर्तते यतः एषु गणेषु अङ्गम्‌ अदन्तं भवति, अतः प्रक्रियायां साम्यं वर्तते | आहत्य एतादृशाः चत्वारः गणाः सन्ति | चतुर्थः गणः यस्मिन्‌ अङ्गम् अदन्तं भवति— चुरादिगणः | केचन चिन्तयन्ति यत्‌ चुरादिगणः कष्टकरः, किन्तु एवं किमपि नास्ति | वस्तुतः अत्र आधिक्येन सामान्यमेव; नियमितरूपेण सूत्राणि उपयुज्य तर्कम्‌ अनुसृत्य तिङन्तरूपाणि साध्यन्ते | प्रक्रिया का इति एकवारं ज्ञायेत; तदा सर्वं सुलभम्‌ | केचन विशेषधातवः अपि सन्ति; तेषां प्रसङ्गे अग्रिमे करपत्रे चर्चयाम |



चुरादिगणे तिङन्तरूपस्य साधनार्थं सोपानत्रयम्‌—



१. धातुः + णिच्‌-प्रत्ययः → णिजन्तधातुः

२. णिजन्तधातुः + शप्‌-विकरणप्रत्यः → अङ्गम्‌ (तिङ्‌-प्रत्ययं निमित्तं मत्वा)

३. अङ्गम्‌ + तिङ्‌-प्रत्ययः → तिङन्तरूपम्‌



यथा उक्तं, चुरादिगणे अङ्गम्‌ अदन्तम्‌ | अतः अङ्गे सिद्धे अस्माकं नूतनकार्यं समाप्तम्‌ | तिङ्‌-प्रत्ययस्य योजनविधिः यथा भ्वादिगणे प्रदर्शितः, तथैव भवति दिवादिगणे, तुदादिगणे, चुरादिगणे च—न कोऽपि भेदः | दृष्टान्ते चुर् धातोः अङ्गं चोरय | लटि चोरय + ति → चोरयति, चोरय + तः → चोरयतः, चोरय + अन्ति → अतो गुणे → चोरयन्ति | यथा भ्वादिगणे, तथैव चुरादिगणेऽपि | अतः अस्मिन्‌ पाठे अस्माकम्‌ अवधानं प्रथमे सोपानद्वये एव |



सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच् (..२५) = एभ्यः द्वादशभ्यः प्रातिपदिकेभ्यः, सर्वेभ्यः चुरादिगणीयधातुभ्यः च णिच्‌-प्रत्ययः विधीयते | एभ्यः प्रातिपदिकेभ्यः णिच्‌-प्रत्ययस्य संयोजनेन नामधातवः भवन्ति | चुर्‍ आदिर्येषां ते चुरादयः | सत्यापश्च, पाशश्च, रूपञ्च, वीणा च, तूलञ्च, श्लोकश्च, सेना च, लोम च, त्वचश्च, वर्म च, वर्णञ्च, चूर्णञ्च, चुरादयश्च तेषामितरेतरद्वन्द्वः, सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादयः तेभ्यः, बहुव्रीहिगर्भो द्वन्द्वः | सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यः पञ्चम्यन्तं, णिच्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | प्रत्ययः (..) परश्च (..) इत्यनयोः अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (..२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ धातुभ्यः | अनुवृत्ति-सहितसूत्रम्— सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यः धातुभ्यः णिच्‌ प्रत्ययः परश्च |



सनाद्यन्ता धातवः (..३२) = द्वादश प्रत्ययाः सन्ति येषां संयोजनेन नूतनाः धातवः सृष्टाः भवन्ति— सन्‌, क्यच्‌, काम्यच्‌, क्यष्‌, क्यङ्‌, क्विप्‌, णिङ्‌, ईयङ्‌, णिच्‌, यक्‌, आय, यङ्‌ इति | एषां प्रकृतिः (अङ्गम्‌) क्वचित्‌ धातुः, क्वचित्‌ प्रातिपदिकम्‌ | सन्‌ आदौ येषां ते सनादयः, सनादयः अन्ते येषां ते सनाद्यन्ताः | सनाद्यन्ताः प्रथमान्तं, धातवः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— सनाद्यन्ता धातवः |



एषु द्वादशसु प्रत्ययेषु अन्यतमः णिच्‌ एव, अतः णिच्‌-प्रत्ययस्य संयोजनेन चोरि, पाठि, लेखि इत्यादयः यावन्तः धातवः सृष्टाः, ते सर्वे सनाद्यन्ता धातवः (..३२) इति सूत्रेण धातुसंज्ञकाः | एते च आतिदेशिकधातवः | औपदेशिकधातवः उपद्विसहस्रं, ते भूवादयो धातवः इति सूत्रेण धातुसंज्ञकाः भवन्ति |



औपदेशिकधातवः— पाणिनीयधातुपाठे १९४३ धातवः उपदिष्टाः सन्ति | उपदिष्टाः धातवः, अतः एते औपदेशिकधातवः | एषां धातूनां धातु-संज्ञा भवति भूवादयो धातवः (..) इति सूत्रेण |



आतिदेशिकधातवः— उपरितनान्‌ पाणिनीयधातुपाठे पठितान्‌ धातून्‌ वर्जयित्वा इतोऽपि, असङ्ख्याः धातवः सन्ति | एते धातवः धातुपाठे न सन्ति, अपि तु अस्माभिः निर्मिताः | यथा गन्तुम्‌ इच्छति 'जिगमिषति' इति सनन्तरूपं प्रायः श्रुतम्‌ | अत्र 'जिगमिष' इति धातुः अस्ति; स च जिगमिष-धातुः पाणिनीयधातुपाठे नास्ति | गम्‌-धातुः धातुपाठे अस्ति | अयं गम्‌-धातुः भूवादयो धातवः (..) इति सूत्रेण धातुसंज्ञकः | तदा सन्‌-प्रत्ययं योजयामः चेत्‌, नूतनधातुः 'जिगमिष' सृष्टः अस्माभिः | अयं धातुः सनाद्यन्ता धातवः (..३२) इति सूत्रेण धातुसंज्ञकः | एवमेव द्वादश प्रत्ययाः सन्ति येषां योजनेन नूतनाः धातवः सृष्टाः भवन्ति |



चुरादिगणे णिच्‌-प्रत्ययः स्वार्थे अस्ति, इत्युक्ते धातोः एव अर्थपोषणं करोति | अत्र णिच्‌-प्रत्ययस्य पृथक्तया कोऽपि अर्थः नास्ति | प्रेरणार्थे णिच्‌‍ इति भिन्नविषयः, चुरादिगणे तादृशार्थः नास्त्येव | चुरादिगणे, धातुतः यं कमपि प्रत्ययं संयोजयितुम्‌ इच्छति विकरणं भवतु वा आर्धधातुककृत्‌ भवतु, तस्मात्‌ पूर्वं णिच्‌ विधीयते एव | णिच्‌-प्रत्यये चुटू इत्यनेन णकारस्य इत्‌-संज्ञा, हलन्त्यम्‌ इत्यनेन चकारस्य इत्‌-संज्ञा, तस्य लोपः इत्यनेन तयोः लोपश्च | इ इति अवशिष्यते | णिच्‌-प्रत्ययः धातुभ्यः विहितः, अपि च तिङ्‌-शित्‌-भिन्नः, अतः आर्धधातुकं शेषः (..११४) इत्यनेन अयं णिच्‌-प्रत्ययः आर्धधातुकम् (न तु सार्वधातुकम्) | इत्थं च णिच्‌-प्रत्ययः कीदृशः इति चेत्‌, णित्‌ च आर्धधातुकं च | यत्‌ किमपि कार्यं क्रियते णिच्‌-प्रत्ययं निमित्तीकृत्य, अस्य एव लक्षणस्य बलात्‌ क्रियते— णित्‌ आर्धधातुकम्‌ |



णिच्‌-प्रत्ययस्य कारणतः धातुरूपि-अङ्गे प्रमुखकार्यत्रयं सम्भवति‌—


. अचो ञ्णिति (..११५) = अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | येन विधिस्तदन्तस्य (..७२) इत्यनेन अचः अङ्गस्य नाम न केवलम्‌ अच्‌ इत्यङ्गस्य, अपि तु अजन्तस्य अङ्गस्य | अलोऽन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः | ञ्‌ च ण्‌ च ञ्णौ, ञ्णौ इतौ यस्य तत्‌ ञ्णित्‌, तस्मिन्‌ ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | मृजेर्वृद्धिः (..११४) इत्यस्मात्‌ वृद्धिः इत्यस्य अनुवृत्तिः | अङ्गस्य (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अचः अङ्गस्य वृद्धिः ञ्णिति |



चि + इ → चै + इ → → चायि → → चाययति


अत्र प्रश्नः उदेति यत्‌ 'चि + ' इत्येतादृशेषु प्रसङ्गेषु सार्वधातुकार्धधातुकयोः (..८४) इत्यस्य प्रसक्तिः नास्ति किम्‌ ? अस्त्येव, किन्तु अचो ञ्णिति (..११५) तु तस्य बाधकसूत्रं यतोहि सार्वधातुकार्धधातुकयोः (..८४) अत्र कार्यं करोति चेत्‌, अचो ञ्णिति (..११५) इत्यस्य अन्यत्र लब्धावकाशो न स्यात्‌ | धेयं यत्‌ यत्र यत्र अकारान्तधातुतः आर्धधातुकप्रत्ययः भवति, यथा 'कथ + णिच्‌', तत्र तत्र अतो लोपः (..४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति, येन अचो ञ्णिति (..११५) इत्यस्य प्रसक्तिर्नास्ति | अतः अचो ञ्णिति (..११५) इति अत्र अपवादभूतसूत्रम्‌ |



. अत उपधायाः (..११६) = उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे | अतः षष्ठ्यन्तम्‌, उपधायाः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | मृजेर्वृद्धिः (..११४) इत्यस्मात्‌ वृद्धिः इत्यस्य अनुवृत्तिः; अचो ञ्णिति (..११५) इत्यस्मात्‌ ञ्णिति इत्यस्य अनुवृत्तिः | अङ्गस्य (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति |



चल् + इ → चालि → → चालयति



. पुगन्तलघूपधस्य च (..८६) = सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति | पुक्‌ अन्ते यस्य तत्‌ पुगन्तम्‌, लघ्वी उपधा यस्य तत्‌ लघूपधम्‌ | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्‌, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | मिदेर्गुणः (..८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (..८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (..) इत्यस्य अधिकारः | इको गुणवृद्धी (..) इत्यस्मात्‌ परिभाषा-सूत्रात्‌ इकः आयाति यत्र स्थानी नोक्तम्‌ | अनुवृत्ति-सहितसूत्रम्‌— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |



चुर्‍ + इ → चोरि → → चोरयति



यथा—

चुर्              भूवादयो धातवः (१.३.१) इत्यनेन चुर्‍ इत्यस्य धातु-संज्ञा

चुर्‍ + णिच्‌      चुटू, हलन्त्यम्‌, 'तस्य लोपः (अनुबन्धलोपः)

चुर्‍ + इ         पुगन्तलघूपधस्य च (७.३.८६) = उपधायां लघु-इकः गुणः आर्धधातुकप्रत्यये परे

चोरि             सनाद्यन्ता धातवः इति सूत्रेण चोरि इत्यस्य धातु-संज्ञा




एकवारं णिच्‌-सहितधातुः निष्पन्नः, तदा कर्त्रर्थक-सार्वधातुकप्रत्यये परे कर्तरि शप्‌ इत्यनेन शप्‌-विकरणप्रत्ययः विधीयते |




चोरि + शप्‌ → चोरि + अ → सार्वधातुकार्धधातुकयोः इत्यनेन इकः गुणः → चोरे + अ → एचोऽयवायावः इत्यनेन अचि परे ए-स्थाने अय्‌-आदेशः → चोर्‍ + अय्‌ + अ → 'चोरय' इति अदन्तम्‌ अङ्गम निष्पन्नम्‌ |




कर्तरि शप्‌ (..६८) = धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | कर्तरि सप्तम्यन्तं, शप्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सार्वधातुके यक्‌ (..६७) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (..), परश्च (..) इत्यनयोः अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (..२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— धातोः शप्‌ प्रत्ययः परश्च कर्तरि सार्वधातुके |



इतः अग्रे सिद्धतिङ्‌प्रत्ययानां संयोजनं भवति यथा भ्वादिगणे, दिवादिगणे, तुदादिगणे च |



चोरय + ति → चोरयति इत्यादिकम्‌ |



पदव्यवस्था | णिचश्च इति सूत्रं वक्ति यत्‌ क्रियाफलं कर्तृगामि चेत्‌, णिजन्तधातुभ्यः आत्मनेपदिनः तिङ्‌-प्रत्ययाः विहिताः | क्रियाफलं परगामि चेत्‌, णिजन्तधातुभ्यः परस्मैपदिनः तिङ्‌-प्रत्ययाः विहिताः | अतः सामान्यतया णिजन्तधातवः उभयपदिनः | चोरयति, चोरयते |



णिचश्च (..७४) = क्रियाफलं कर्तारम्‌ अभिप्रैति चेत्‌ णिजन्तेभ्यः धातुभ्यः आत्मनेपदं भवति | अत्र प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति; अनेन यस्य धातोः अन्ते णिच्‌-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः निष्पन्नः | णिचः पञ्चम्यन्तं‌, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | अनुदात्तङित आत्मनेपदम्‌ (..१२) इत्यस्मात्‌ आत्मनेपदम्‌ इत्यस्य अनुवृत्तिः | स्वरितञितः कर्त्रभिप्राये क्रियाफले (..७२) इत्यस्मात्‌ कर्त्रभिप्राये क्रियाफले इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— णिचः च आत्मनेपदम्‌ कर्त्रभिप्राये क्रियाफले |



क्रियाफलं कर्तारं न अभिप्रैति चेत्‌, परस्मैपदं भवति | शेषात्कर्तरि परस्मैपदम्‌ (..७८) इत्यनेन यत्र धातोः आत्मनेपदस्य कारणं नास्ति, तत्र कर्त्रर्थे परस्मैपदं भवति |



यथासामान्यं धातुविधिः धातोः अन्तिमवर्णस्य आधारेण अस्माभिः विभाजितः भवति | अजन्तः धातवः सन्ति अपि च हलन्तधातवः सन्ति | प्रथमम्‌ अजन्तधातून्‌ अवलोकयाम, तदा हलन्तधातून्‌ |



चुरादिगणे 410 धातवः सन्ति | एषु केचन धातवः नित्यणिजन्ताः, केचन च अनित्यणिजन्ताः | पुनः सामान्यतया उभयपदिनः, किन्तु केचन केवलम्‌ आत्मनेपदिनः | ये धातवः नित्यणिजन्ताः उभयपदिनः च सन्ति, ते अस्मिन्‌ पाठे उपस्थाप्यन्ते सामान्यधातु-रूपेण | तदा ये अनित्यणिजन्ताः अथवा आत्मनेपदिनः, ते अग्रिमे पाठे दीयन्ते |



A. अजन्तधातवः



. आकारान्तधातवः (1 धातुः)



णिच्‌-प्रत्यये परे आकारान्तधातूनां पुगागमो भवति | चुरादिगणे एक एव आकारान्तधातुः अस्ति, ज्ञा नियोगे | आज्ञां ददाति इत्यर्थः | अयं ज्ञा-धातुः क्र्यादिगणस्य अवबोधने ज्ञा-धातुतः भिन्नः |



अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (..३६) = , ह्री, व्ली, री, क्नूयी, क्ष्मायी, एभ्यः धातुभ्यः अपि च आकारान्तधातुभ्यः पुक्‌-आगमः भवति, णिच्‌-प्रत्यये परे | एषां धातूनां पुक्‌-आगमः णौ (णि इत्यस्य सप्तम्यन्तम्‌), णि इत्युक्ते णिच्‌ इत्यतः णिच्‌-प्रत्यये परे इत्यर्थः | आद्यन्तौ टकितौ (१.१.४६) इत्यनेन धातोः परम्‌ आयाति अयं पुगागमः | पुक्‌ इत्यस्मिन क्‌, उ इत्यनयोः इत्‌-संज्ञा लोपश्च; प्‌ अवशिष्यते | अर्तिश्च ह्रीश्च व्लीश्च रीश्च क्नूयीश्च क्ष्मायीश्च आच्च तेषामितरेतर्द्वन्द्वः, अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातः तेषाम्‌ |अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां षष्ठ्यन्तं, पुक्‌ प्रथमान्तं, णौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अर्तिह्रीव्लीरीक्नूयीक्ष्माय्याताम्‌ अङ्गानां पुक्‌ णौ |



अस्मिन्‌ सूत्रे ये धातवः सूचिताः, ते (आकारान्त-ज्ञा-धातुं वर्जयित्वा) चुरादिगणे न सन्ति | धातुभ्यः णिच्‌-प्रत्ययः द्वयोः अर्थयोः भवति— स्वार्थे (चुरादिगणे), प्रेरणार्थे च | चुरादिगणीयं ज्ञा-धातुं विहाय, अनेन सूत्रेण सूचितेभ्यः सर्वेभ्यः धातुभ्यः णिच्‌-प्रत्ययः प्रेरणार्थे एव | यथा व्ली-धातुः क्र्यादिगणे व्लिनाति (नोदयति), प्रेरणार्थे णिचि पुगागमो भवति व्लेपयति, पातयति इत्यर्थः | एते अवशिष्टाः सर्वे धातवः परिशीलयिष्यन्ते आर्धधातुकप्रकरणे यत्र णिच्‌-प्रत्ययः प्रेरणार्थे अस्ति | सम्प्रति चुरादौ ज्ञा-धातोः प्रक्रिया कथम्‌ इति पश्येम


ज्ञा + णिच्‌                      अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ इत्यनेन पुगागमः

ज्ञा + पुक्‌ + णिच्‌              अनुबन्धलोपे (हलन्त्यम्‌, उपदेशेऽजनुनासिक इत्, 'चुटू)

ज्ञा + प्‌ +                   वर्णमेलने

ज्ञापि                            सनाद्यन्ता धातवः इत्यनेन धातु-संज्ञा | अतः ज्ञापि इति धातुः (ज्ञा अपि धातुः, ज्ञापि अपि पृथक्तया धातुः) |

ज्ञापि                          कर्तरि शप् (कर्त्रर्थे सार्वधातुक-तिङ्-प्रत्यये‌ च शित्‌-कृत्-प्रत्यये च शप्‌ विहितः भवति)

ज्ञापि + शप्‌                    अनुबन्धलोपे (लशक्वतद्धिते, हलन्त्यम्‌)

ज्ञापि +                     सार्वधातुकार्धधातुकयोः (शप्‌ शित्‌‍ अस्ति, पित्‌ अपि अस्ति अतः धातोः अन्त्यस्य इकः गुणः)

ज्ञापे +                      एचोऽयवायावः इत्यनेन अचि परे ए-स्थाने अय्‌ आदेशः

ज्ञाप्‌ + अय्‌ + अ → ज्ञापय इति अङ्गम्‌

ज्ञापय + ति → ज्ञापयति/ते  लट्‌-विवक्षायां, प्रथमपुरुषैकवचने तिप्‌-प्रत्ययः विहितः



अत्र ज्ञापय इति अङ्गम्‌ | ज्ञापय इति अङ्गम्‌ अदन्तम्‌ इति अवधेयम्‌ | अतः पञ्चमे करपत्रे यः विधिः प्रदर्शितः ("अङ्गस्य सिद्ध-तिङ्‌प्रत्ययानां च संयोजनविधिः" इत्यस्मिन्‌), स एव विधिः अत्रापि प्रयुक्तः भवति अस्माभिः | नाम अस्मात्‌ ज्ञापय इति अदन्ताङ्गात्‌ लट्‌, लोट्‌, लङ्, विधिलिङ्‌ इत्येषां सिद्धतिङ्‌-प्रत्ययाः विहिताः भवन्ति | ज्ञापयति, ज्ञापयतु, अज्ञापयत्‌, ज्ञापयेत्‌ इत्यादीनि रूपाणि निष्पन्नानि | चुरादिगणे एक एव आकारान्तधातुः अस्ति, ज्ञा | किन्तु प्रेरणार्थकणिचि बहवः एवं सन्ति; तेभ्योऽपि प्रक्रिया तथा |



. इगन्तधातवः (4 धातवः)



चत्वारः धातवः सन्ति— चिञ्‌ चयने, च्यु सहने हसने च, भू अवकल्कने (मिश्रीकरणे) चिन्तने च, घृ प्रस्रवणे |



धातुः इकारान्तः, उकारान्तः, ऋकारान्तः इति चेत्‌, अचो ञ्णिति इति सूत्रस्य प्रसक्तिः |



अचो ञ्णिति(..११५) = अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे |



यथा—

चि + णिच्‌                      अचो ञ्णिति इत्यनेन अङ्गान्तस्य अचः वृद्धिः

चै +                             एचोऽयवायावः इत्यनेन अचि परे ऐ-स्थाने आय्‌ आदेशः

चाय्‌ +                          वर्णमेलनं, सनाद्यन्ता धातवः इत्यनेन धातु-संज्ञा

चायि                               कर्तरि शप् (कर्त्रर्थे सार्वधातुक-तिङ्-प्रत्यये‌ च शित्‌-कृत्-प्रत्यये च शप्‌ विहितः भवति)

चायि + शप्‌                       अनुबन्धलोपे (लशक्वतद्धिते, हलन्त्यम्‌)

चायि + अ                        सार्वधातुकार्धधातुकयोः (शप्‌ शित्‌‍ अस्ति, पित्‌ अपि अस्ति अतः धातोः अन्त्यस्य इकः गुणः)

चयि  + अ                        मितां ह्रस्वः (६.४.९२) इत्यनेन मित्‌-धातूनाम्‌ उपधायाः स्वरः ह्रस्वः भवति, णिच्‌-प्रत्यये परे

चये + अ                         एचोऽयवायावः इत्यनेन अचि परे ए-स्थाने अय्‌ आदेशः

चय्‌ + अय्‌ + अ → चयय इति अङ्गम्‌

चयय + ति → चययति/ते      लट्‌-विवक्षायां, प्रथमपुरुषैकवचने तिप्‌-प्रत्ययः विहितः


मितां ह्रस्वः (६.४.९२) इत्यनेन ये धातवः मितः, तेषाम्‌ उपधायां स्वरः ह्रस्वः भवति णिचि प्रत्यये परे |

मितां ह्रस्वः (६.४.९२) = मित्‌-धातूनाम्‌ उपधायाः स्वरः ह्रस्वः भवति, णिच्‌-प्रत्यये परे | मित्‌ कश्चन अन्तर्गणः | भ्वादिगणे घटादयः उपगणः मित्‌-अन्तर्गणे सन्ति, अपि च चुरादिगणे ज्ञपादयः षट् धातवः मित्-अन्तर्गणे‌ सन्ति | मितां षष्ठ्यन्तं, ह्रस्वः प्रथमान्तं, द्विपमिदं सूत्रम्‌ | ऊदुपधाया गोहः (६.४.८९)इत्यस्मात्‌ उपधायाः इत्यस्य अनुवृत्तिः | दोशो णौ (६.४.९०) इत्यस्मात्‌ णौ इत्यस्य अनुवृत्तिः | अङ्गस्य(६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— मिताम्‌ अङ्गानाम्‌ उपधायाः ह्रस्वः णौ |


तथैव—

च्यु + णिच्‌ → च्यु+ इ → च्यौ + इ → च्याव्‌ + इ → च्यावि इति धातुः → च्यावि + शप्‌ → च्यावि + अ → च्यावे + अ → च्यावय इति अङ्गम्‌ → च्यावय + ति → च्यावयति/ते

भू + णिच्‌ → भू + इ → भौ + इ → भाव्‌ + इ → भावि इति धातुः → भावि + शप्‌ → भावि + अ → भावे + अ → भावय इति अङ्गम्‌ → भावय + ति → भावयति/ते

घृ + णिच्‌ → घृ + इ → घार्‍ + इ → घारि → घारि इति धातुः → घारि + अ → घारे + अ → घारय इति अङ्गम्‌ → घारय + ति → घारयति/ते



B. हलन्तधातवः



. अदुपधधातवः (31 धातवः)



अत उपधायाः (..११६) = उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे |



यथा—

चल्‌ + णिच्‌                          अनुबन्धलोपे

चल् +                          अत उपधायाः (अदुपधधातूनां ह्रस्व-अकारस्य वृद्धिः ञिति णिति प्रत्यये परे |)

चाल्‌ +                            वर्णमेलनं, सनाद्यन्ता धातवः इत्यनेन धातु-संज्ञा

चालि                              कर्तरि शप् (कर्त्रर्थे सार्वधातुक-तिङ्-प्रत्यये‌ च शित्‌-कृत्-प्रत्यये च शप्‌ विहितः भवति)

चालि + शप्‌                         अनुबन्धलोपे (लशक्वतद्धिते, हलन्त्यम्‌)

चालि +                          सार्वधातुकार्धधातुकयोः (शप्‌ शित्‌‍ अस्ति, पित्‌ अपि अस्ति अतः धातोः अन्त्यस्य इकः गुणः)

चाले +                           एचोऽयवायावः इत्यनेन अचि परे ए-स्थाने अय्‌ आदेशः

चाल्‌ + अय्‌ + चालय इति अङ्गम्‌

चालय + ति → चालयति/ते       लट्‌-विवक्षायां, प्रथमपुरुषैकवचने तिप्‌-प्रत्ययः विहितः



लड्‌ + णिच्‌ → लाड्‌ + इ → लाडि → लाडयति/ते

बध्‌ + णिच्‌ → बाध्‌ + इ → बाधि → बाधयति/ते

नट्‌ + णिच्‌ → नाट्‌ + इ → नाटि → नाटयति/ते



. लघु-इगुपधधातवः (26 धातवः)



येषाम्‌ उपधायां ह्रस्व-इकारः, ह्रस्व-उकारः, ह्रस्व-ऋकारः च | इदुपधधातवः दश (10), उदुपधधातवः पञ्चदश (15), ऋदुपधधातवः एकः (1) | अत्र पुगन्तलघूपधस्य च इत्यनेन गुणकार्यम्‌ | एते सप्तविंशतिः सामान्य-चुरादिगणीयाः धातवः, नाम नित्यणिजन्ताः उभयपदिनः च | अग्रिमे पाठे इतोऽपि लघु-इगुपधधातवः सन्ति ये अनित्यणिजन्ताः अथवा आत्मनेपदिनः |



पुगन्तलघूपधस्य च (..८६) = सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति |



यथा—



मुच्‌ + णिच्‌                             अनुबन्धलोपे

मुच् +                                पुगन्तलघूपधस्य च इत्यनेन उपधायां लघु-इकः गुणः

मोच् +                               वर्णमेलनं, सनाद्यन्ता धातवः इत्यनेन धातु-संज्ञा

मोचि                                    कर्तरि शप् (कर्त्रर्थे सार्वधातुक-तिङ्-प्रत्यये‌ च शित्‌-कृत्-प्रत्यये च शप्‌ विहितः भवति)

मोचि + शप्‌                            अनुबन्धलोपे (लशक्वतद्धिते, हलन्त्यम्‌)

मोचि +                              सार्वधातुकार्धधातुकयोः (शप्‌ शित्‌‍ अस्ति, पित्‌ अपि अस्ति अतः धातोः अन्त्यस्य इकः गुणः)

मोचे +                              एचोऽयवायावः इत्यनेन अचि परे ए-स्थाने अय्‌ आदेशः

मोच्‌ + अय्‌ + अ → मोचय इति अङ्गम्‌

मोचय + ति → मोचयति/ते           लट्‌-विवक्षायां, प्रथमपुरुषैकवचने तिप्‌-प्रत्ययः विहितः



तिज्‌ → तिज्‌ + इ → तेज्‌ + इ → तेजि इति धातुः → तेजि + अ → तेजय इति अङ्गम् → तेजय + ति → तेजयति/ते

पृथ्‌ → पृथ्‌ + इ → पर्थ्‌ + इ → पर्थि इति धातुः → पर्थि + अ → पर्थय इति अङ्गम् → पर्थय + ति → पर्थयति/ते



. शेषधातवः (65 धातवः)



चुरादिगणे तिङन्तरूपस्य साधनार्थं सोपानत्रयम् अस्तीत्युक्तम्‌ आरम्भे | अस्माकं प्रमुखकार्यं प्रथमे सोपाने एव, णिजन्तधातोः व्युत्पत्तौ | शेषधातुषु अस्मिन्‌ किमपि कार्यं न भवति | धातोः अन्तिमवर्णः अच्‌ नास्ति अतः वृद्धिः नार्हः; उपधायां अत्‌ (ह्रस्व-अकारः) नास्ति अतः तत्रापि वृद्धिः नार्हः; उपधायां लघु-इक्‌ नास्ति अतः गुणः नार्हः—एभिः कारणैः न किमपि कार्यम्‌ अर्हम्‌ |



यथा पाल इति धातुः | पाल → पाल्‌ + णिच्‌ → पाल्‌ + इ → "पालि" इति णिजन्तधातुः



द्वितीयसोपाने णिजन्तधातुः + शप्‌-विकरणप्रत्यः → अङ्गम्‌ इत्युक्तम्‌ | शेषधातुषु पालि इव णिजन्तधातुः निष्पन्नः, तदा यथासामान्यं शप्‌ (पालि + शप्‌), सार्वधातुकार्धधातुकयोः इत्यनेन गुणः (पाले + ), एचोऽयवायावः इत्यनेन अचि परे ए-स्थाने अय्‌ आदेशः (पालय्‌ + ), वर्णमेलने अङ्गं निष्पन्नं (पालय) | तृतीयसोपाने अङ्गम्‌ + तिङ्‌-प्रत्ययः → तिङन्तरूपम्‌ इत्युक्तम्‌ | पालय + ति/ते → वर्णमेलने तिङन्तरूपं निष्पन्नम्‌ (पालयति/ते) |



अर्क → अर्क्‌ + णिच्‌ → अर्क्‌ + इ → अर्कि → अर्कयति/ते

अर्ज → अर्ज्‌ + णिच्‌ → अर्ज्‌ + इ → अर्जि → अर्जयति/ते

पीड → पीड्‌ + णिच्‌ → पीड्‌ + इ → पीडि → पीडयति/ते

पाल → पाल्‌ + णिच्‌ → पाल्‌ + इ → पालि → पालयति/ते



इति चुरादिगणे सामान्यं तिङ्‌-सम्बद्धं सार्वधातुकप्रकरण-चिन्तनं समाप्तम्‌ |



Swarup – May 2013 (Updated August 2015)


१० - चुरादिगणः.pdf (67k)Swarup Bhai, Mar 31, 2019, 6:40 AM