04 - भ्वादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌

From Samskrita Vyakaranam
< 06A - सार्वधातुकप्रकरणं कृत्सु06A---sArvadhAtukaprakaraNaM-kRutsu/04--bhvAdigaNe-shatrantaprAtipadikanirmANam /
Revision as of 20:02, 12 July 2021 by Bhavyasamskrit (talk | contribs) (Protected "04 - भ्वादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
ध्वनिमुद्रणानि
2019 वर्गः
१) bhvAdigaNe-divAdigaNe-ca-shatrantaprAtipadikanirmANam_2019-12-11
2014 वर्गः
१) bhvAdigaNe--shatranta-prAtipadika-nirmANam_2014-10-15
२) bhvAdigaNe-visheShadhAtUnAM_+_divAdInAM_shatranta-prAtipadika-nirmANam_2014-10-22


शत्रन्तप्रातिपदिकस्य निर्माण-प्रक्रिया


शत्रन्तप्रातिपदिकस्य निर्माणार्थं द्वे सोपाने स्तः—

१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌

२. शतृप्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-शतृप्रत्यययोः मेलनम्‌


मनसि धेयम्‌— सर्वत्र शतृ-प्रत्ययस्य प्रभावेन एव प्रथमसोपानं (शपः विधानम्‌) भवति | अतः वस्तुतः क्रमः एवम्‌ अस्ति—

वद्‌ + लट्‌ → शतृ-विवक्षायाम्‌ → वद्‌ + शतृ → तिङ्‌शित्सार्वधातुकम्‌, कर्तरि शप्‌ → वद्‌ + शप्‌ + शतृ‍ | नाम आरम्भतः एव शतृ-प्रत्ययः उपस्थितः; परन्तु द्वितीयसोपाने एव शतृप्रत्यय-निमित्तकम्‌ अङ्गकार्यम्‌, अतः अग्रे गत्वा सौकर्यार्थं तत्रैव शतृ-प्रत्ययः प्रदर्श्यते |


प्रथमे धातुगणसमूहे (भ्वादौ, दिवादौ, तुदादौ, चुरादौ) धातु-विकरणप्रत्यययोः मेलनेन यत्‌ अङ्गं निष्पन्नं तत्‌ सदा अदन्तम्‌, अतः शतृप्रत्ययं निमित्तीकृत्य किमपि कार्यं नास्ति | अस्य धातुगणसमूहस्य शन्त्रन्तरूपाणि प्रथमम्‌ अवलोकनीयानि | तदा द्वितीयधातुगणसमूहस्य वीक्षामहे, यत्र शतृप्रत्ययं निमित्तीकृत्य अङ्गकार्यम्‌ अर्हम्‌ |


भ्वादिगणः (997 धातवः)

1. सामान्यधातवः

a. येषु धातुषु शपं निमित्तीकृत्य किमपि अङ्गकार्यं नास्ति— केवलं संयोजनम्‌ (754 धातवः)


- इमे सर्वे धातवः न इगन्ताः न वा इगुपधाः अतः किमपि गुणगार्यं नास्ति |

- एषु धातुषु अदुपधधातवः (वद्‌ इव) 237 सन्ति |


वद्‌ + शप्‌ → वद → वद + शतृ → वद + अत्‌ → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → वदत्‌

मील्‌ + शप्‌ → मील → मील + शतृ → मील + अत्‌ → अतो गुणे → मीलत्‌

मूष्‌ + शप्‌ → मूष → मूष + शतृ → मूष + अत्‌ → अतो गुणे → मूषत्‌

ओख्‌ + शप्‌ → ओख → ओख + शतृ → ओख + अत्‌ → अतो गुणे → ओखत्‌

अगि → इदितो नुम्‌ धातोः (७.१.५८) → अन्ग्‌ → अङ्ग् → अङ्ग् + शप्‌ → अङ्ग + शतृ → अङ्ग + अत्‌ → अतो गुणे → अङ्गत्‌

कुञ्च्‌ + शप्‌ → कुञ्च → कुञ्च + शतृ → कुञ्च + अत्‌ → अतो गुणे → कुञ्चत्‌

अर्च्‌ + शप्‌ → अर्च → अर्च + शतृ → अर्च + अत्‌ → अतो गुणे → अर्चत्‌

मेध्‌ + शप्‌ → मेध → मेध + शतृ → मेध + अत्‌ → अतो गुणे → मेधत्‌

वेल्ल्‌ + शप्‌ → वेल्ल → वेल्ल + शतृ → वेल्ल + अत्‌ → अतो गुणे → वेल्लत्‌

धाव्‌ + शप्‌ → धाव → धाव + शतृ → धाव + अत्‌ → अतो गुणे → धावत्‌


b. इगन्तधातवः (39 धातवः)

इक् इति प्रत्याहारः | इ, ई, उ, ऊ, ऋ, ॠ येषां धातूनाम्‌ अन्ते, ते इगन्तधातवः | भ्वादिगणीय-इगन्तधातूनां कृते कार्यं सर्वत्र समानम्‌ |


१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌


सर्वेषाम्‌ इगन्तधातूनां गुणकार्यम्‌—

जि + शप्‌ → सार्वधातुकार्धधातुकयोः → जे + अ

भू + शप्‌ → सार्वधातुकार्धधातुकयोः → भो + अ

हृ + शप्‌ → सार्वधातुकार्धधातुकयोः → हर्‌ + अ


धात्वन्ते इ, ई, उ, ऊ चेत्‌, तदा यान्तवान्तसन्धिः—

जे + अ → एचोऽयवायावः इत्यनेन अय्‌-आदेशः → ज्‌ + अय्‌ + अ → जय

भो + अ → एचोऽयवायावः इत्यनेन अव्‌-आदेशः → भ्‌ + अव्‌ + अ → भव

ऋकारान्तः चेत्‌, केवलं वर्णमेलनम्—

हर्‌ + अ → हर


सार्वधातुकार्धधातुकयोः (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्‌, एकपदमिदं सूत्रम्‌ | मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम्‌ | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन 'इकः अङ्गस्य' इत्युक्ते न केवलम्‌ इक्‌ इति अङ्गं, किन्तु तादृशम्‌ अङ्गं यस्य अन्ते इक्‌; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्‌— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |


एचोऽयवायावः (६.१.७७) = एचः (ए, ओ, ऐ, औ इत्येषां) स्थाने क्रमेण अय्‌, अव्‌, आय्‌, आव्‌ इत्यादेशाः भवन्ति अचि परे | क्रमेण इत्युक्तं यथासंख्यमनुदेशः समानाम्‌ (१.३.१०) इति परिभाषा सूत्रस्य साहाय्येन | अय्‌ च, अव्‌ च, आय्‌ च, आव्‌ च, तेषाम्‌ इतरेतरद्वन्द्वः, अयवायावः | एचः षष्ठ्यन्तम्‌, अयवायावः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इको यणचि (६.१.७६) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः; संहितायाम्‌ (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— एचः अयवायावः अचि संहितायाम्‌ |


२. शतृप्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-शतृप्रत्यययोः मेलनम्‌


भ्वादिगणे अङ्गं सदा अदन्तम्‌, अतः अङ्गकार्यं नास्ति | केवलम्‌ अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः |


जि + शप्‌ → जय → जय + शतृ‌ → जय + अत्‌ → अतो गुणे → जयत्‌

नी + शप्‌ → नय → नय + शतृ‌ → नय + अत्‌ → अतो गुणे → नयत्‌

द्रु + शप्‌ → द्रव → द्रव + शतृ‌ → द्रव + अत्‌ → अतो गुणे → द्रवत्‌

भू + शप्‌ → भव → भव + शतृ‌ → भव + अत्‌ → अतो गुणे → भवत्‌

हृ + शप्‌ → हर → हर + शतृ‌ → हर + अत्‌ → अतो गुणे → हरत्‌


c. एजन्तधातवः (31 धातवः)

एते धातवः इगन्ताः न सन्ति अतः गुणस्य प्रसङ्गः न भवति | केवलं एचोऽयवायावः इत्यनेन यान्तवान्तसन्धिः |


धे + शप्‌ → धे + अ → एचोऽयवायावः → ध्‌ + अय्‌ + अ → धय → धय + अत्‌ → धयत्‌

गै + शप्‌ → गै + अ → एचोऽयवायावः → ग्‌ + आय्‌ + अ → गाय → गाय + अत्‌ → गायत्‌

धौ‌ + शप्‌ → धौ + अ → एचोऽयवायावः → ध्‌ + आव्‌ + अ → धाव → धाव + अत्‌ → धावत्‌


d. लघु-इगुपधधातवः (127 धातवः)

उपधा नाम अन्तिमवर्णात्‌ प्राक्‌ यः वर्णः, सः | यस्य धातोः उपधायां लघु इक्‌ (इ, उ, ऋ) अस्ति, सः लघु-इगुपधधातुः | भ्वादिगणीय-इगुपधधातूनां कृते कार्यं सर्वत्र समानम्‌ |


१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌


चित्‌ + शप्‌ → पुगन्तलघूपधस्य च → चेत्‌ + अ → चेत

घुष्‌ + शप्‌ → पुगन्तलघूपधस्य च → घोष्‌ + अ → घोष

वृष्‌ + शप्‌ → पुगन्तलघूपधस्य च → वर्ष्‌ + अ → वर्ष


२. शतृप्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-शतृप्रत्यययोः मेलनम्‌


भ्वादिगणे अङ्गं सदा अदन्तम्‌, अतः अङ्गकार्यं नास्ति | केवलं अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः |


चित्‌ + शप्‌ → चेत → चेत + शतृ‌ → चेत + अत्‌ → अतो गुणे → चेतत्‌

घुष्‌ + शप्‌ → घोष → चेत + शतृ‌ → घोष + अत्‌ → अतो गुणे → घोषत्‌

वृष्‌ + शप्‌ → वर्ष → वर्ष + शतृ‌ → वर्ष + अत्‌ → अतो गुणे → वर्षत्‌


पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक्‌ अन्ते यस्य तत्‌ पुगन्तम्‌, लघ्वी उपधा यस्य तत्‌ लघूपधम्‌ | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्‌, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम्‌ | अनुवृत्ति-सहितसूत्रम्‌— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |


2. विशेषधातवः (46 धातवः)


भ्वादिगणे केचन धातवः सन्ति येषां विकारः भवति शिति प्रत्यये परे | ते अधः सूचिताः | अयं विकारः धात्वादेशः इत्युच्यते |


a. गम्‌, यम्‌ धात्वोः छकारादेशः


इषुगमियमां छः (७.३.७७) = इष्‌, गम्‌, यम्‌ एषां छकारादेशः भवति शिति परे | अलोन्त्यस्य (१.१.५२) इत्यनेन छ्‌-आदेशः अन्तिमवर्णस्य स्थाने न तु पूर्णधातोः स्थाने | इषुश्च गमिश्च यम्‌ च तेषामितरेतरद्वन्द्वः इषुगमियमः, तेषाम्‌ इषुगमियमाम्‌ | इषुगमियमां षष्ठ्यन्तं, छः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | ष्ठिवुक्लमुचमां शिति (७.३.७५) इत्यस्मात्‌ शिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— इषुगमियमाम्‌ अङ्गस्य छः शिति |


गम्‌ → गच्छ्‌ → गच्छति | यम्‌ → यच्छ्‌ → यच्छति | केवलं शिति परे इति धेयम्‌ | अतः गच्छति परन्तु गमिष्यति, यच्छति परन्तु यमिष्यति इति | इष्‌-धातुः (इच्छति) तुदादिगणे वर्तते अतः तस्य सूचना अत्र न दीयते |


गम्‌ + शप्‌ → इषुगमियमां छः, अलोन्त्यस्य इत्याभ्यं म्‌-स्थाने छ्‌ → गछ्‌ + अ → छे च (६.१.७३) इत्यनेन छकारे परे संहितायां विषये ह्रस्वस्य स्वरस्य तुक्‌-आगमो भवति | आद्यन्तौ टकितौ (१.१.४६) इत्यनेन गकारोत्तरवर्ती-अकारस्य अनन्तरं (न तु पूर्वम्‌) | गछ्‌ + अ → गत्‌छ्‌ + अ → स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन सकारस्य तवर्गीयस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | गछ्‌ → गत्‌छ्‌ → गच्छ्‌ + अ → गच्छ |


गच्छ्‌ + शप्‌ → गच्छ → गच्छ + अत्‌ → अतो गुणे → गच्छत्‌

यच्छ्‌ + शप्‌ → यच्छ → यच्छ + अत्‌ → अतो गुणे → यच्छत्‌


b. पा-आदिधातूनां धात्वादेशः


पा-घ्रा-ध्मा-स्था-म्ना-दाण्‌-दृशि-अर्ति-सर्ति-शद-सदां, पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः (७.३.७८) = पा घ्रा ध्मा इत्यादीनां स्थाने पिब, जिघ्र, धम एते आदेशाः भवन्ति शिति परे | केवलं शिति परे इति धेयम्‌ | अतः पिबति परन्तु पास्यति इति | पाश्च घ्राश्च ध्माश्च ... सद्‌ च तेषामितरेतरद्वन्द्वः पा-घ्रा-ध्मा-स्था-म्ना-दाण्‌-दृशि-अर्ति-सर्ति-शद-सदः, तेषां पा-घ्रा-ध्मा-स्था-स्ना-दाण्‌-दृशि-अर्ति-सर्ति-शद-सदाम्‌ | पिबश्च जिघ्रश्च धमश्च … सीदश्च तेषामितरेतरद्वन्द्वः पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः | पा-घ्रा-ध्मा-स्था-म्ना-दाण्‌-दृशि-अर्ति-सर्ति-शद-सदाम्‌ षष्ठ्यन्तं, पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | ष्ठिवुक्लमुचमां शिति (७.३.७५) इत्यस्मात्‌ शिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— पा-घ्रा-ध्मा-स्था-म्ना-दाण्‌-दृशि-अर्ति-सर्ति-शद-सदां अङ्गस्य पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः शिति |


पा + शप्‌ → पिब + अ → अतो गुणे → पिब → पिब + अत्‌ → अतो गुणे → पिबत्‌

घ्रा + शप्‌ → जिघ्र + अ → अतो गुणे → जिघ्र → जिघ्र + अत्‌ → अतो गुणे → जिघ्रत्‌

ध्मा + शप्‌ → धम + अ → अतो गुणे → धम → धम + अत्‌ → अतो गुणे → धमत्‌

स्था + शप्‌ → तिष्ठ + अ → अतो गुणे → तिष्ठ → तिष्ठ + अत्‌ → अतो गुणे → तिष्ठत्‌

म्ना + शप्‌ → मन + अ → अतो गुणे → मन → मन + अत्‌ → अतो गुणे → मनत्‌

दाण्‌ + शप्‌ → यच्छ + अ → अतो गुणे → यच्छ → यच्छ + अत्‌ → अतो गुणे → यच्छत्‌

दृश्‌ + शप्‌ → पश्य + अ → अतो गुणे → पश्य → पश्य + अत्‌ → अतो गुणे → पश्यत्‌

ऋ + शप्‌ → ऋच्छ + अ → अतो गुणे → ऋच्छ → ऋच्छ + अत्‌ → अतो गुणे → ऋच्छत्‌

सृ + शप्‌ → धौ + अ → धाव → धाव + अत्‌ → अतो गुणे → धावत्‌

शद्‌ + शप्‌ → शीय + अ → अतो गुणे → शीय → शीय + शानच्‌ → शीय + आन → आने मुक्‌ (७.२.८२) इत्यनेन आने परे अदन्ताङ्गस्य मुक्‌-आगमः → शीय + मान → शीयमान |

सद्‌ + शप्‌ → सीद + अ → अतो गुणे → सीद → सीद + अत्‌ → अतो गुणे → सीदत्‌


धेयं यत्‌ सृ-धातोः स्थाने धौ-आदेशः भवति तदा यदा 'to run' इत्यर्थे अस्ति, न तु 'to go, to flow' इत्यर्थे |


c. दंश्‌, सञ्ज्‌, स्वञ्ज्‌, रञ्ज्‌ इत्येषां न-लोपः—


दंशसञ्जस्वञ्जां शपि (६.४.२५) = दंश्‌, सञ्ज्‌, स्वञ्ज्‌, एतेषां नकारस्य लोपः भवति शपि परे |

उदा--

दंश्‌ + शप्‌ → दश → दश + अत्‌ → अतो गुणे → दशत्‌

सञ्ज्‌ + शप्‌ → सज → सज + अत्‌ → अतो गुणे → सजत्‌

स्वञ्ज्‌ आत्मनेपदिधातुः अतः तस्य शानच्‌ भवति |


रञ्जेश्च (६.४.२६) = रञ्ज्‌-धातोः अपि नकारस्य लोपः भवति शपि परे |

रञ्ज्‌ + शप्‌ → रज → रज + अत्‌ → अतो गुणे → रजत्‌


भ्वादिगणे केषाञ्चित्‌ धातूनां विकरणप्रत्यय-विकल्पः— कुत्रचित्‌ विकल्पेन श (तुदादिः), कुत्रचित्‌ विकल्पेन श्नु (स्वादिः), कुत्रचित्‌ विकल्पेन उ (तनादिः), कुत्रचित्‌ द्वित्वं (सनन्तः इव), कुत्रचित्‌ अय (चुरादिः इव), कुत्रचित्‌ विकल्पेन श्यन् (दिवादिः) | सूत्राणि दीक्षितपुष्पायाः धातुपाठपुस्तके pp. १५ -१८ |


इति भ्वादिगणे समग्रं शत्रन्तप्रातिपदिकचिन्तनं समाप्तम्‌ |


Swarup – Oct 2014

---------------------------------

०४ - भ्वादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌.pdf (59k)