10---nyAyashAstram/10---prashnAH-uttarANi-ca/3-astinastiabhavah: Difference between revisions

From Samskrita Vyakaranam
< न्यायशास्त्रम्‌‎ | 10---prashnAH-uttarANi-ca10---nyAyashAstram/10---prashnAH-uttarANi-ca/3-astinastiabhavah
Jump to navigation Jump to search
(underlining done)
m (Protected "3 - अस्ति, नास्ति, अभावः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(2 intermediate revisions by the same user not shown)
Line 1: Line 1:
  +
{{DISPLAYTITLE: 3 - अस्ति, नास्ति, अभावः }}
 
<big>अस्ति, नास्ति, अभावः</big>
 
<big>अस्ति, नास्ति, अभावः</big>
   

Latest revision as of 23:23, 18 July 2021

अस्ति, नास्ति, अभावः


प्रश्नः­—

- - - - - - - - - - - - - - - - -

३६ तमे पुटे एवं लिखितं -

"भूतलं घटाभाववत् इति ज्ञानस्तले दैशिकविशेषणता संसर्गमादाय चिन्त्यम् |”


"प्राकृतमनुसरामः | सर्वेऽपि पदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन भवति | तेन सम्बन्धेन नास्तीति अभावः एव अन्योन्याभवः, भेदः | स च चतुर्थः अभावः | तादात्म्यसम्बन्धस्य प्रतियोगितावच्छेदकत्वम् उपरिष्टात् साधयिष्यते इत्यलम् |"


अत्र उक्तं "भूतलं घट-अन्योन्यभाववत् इति ज्ञानस्तले तदात्म्यसम्बन्धः वर्तते" | भूतलं घट-अत्यन्ताभाववत् इति ज्ञानस्तले स्वरूपसम्बन्धः इति खलु |


कृपया मम संशयं निवारयतु |

- - - - - - - - - - - - - - - - -


उत्तरम्‌—

"भूतलं घट-अन्योन्यभाववत् इति ज्ञानस्तले तदात्म्यसम्बन्धः वर्तते" इति तु ग्रन्थकारेण न उक्तम्‌ |


अत्र 'नास्ति', 'अभावः' अनयोः भेदः अवगन्तव्यः |


घटः भूतले अस्ति इति चिन्त्यताम्‌ | केन सम्बन्धेन ? संयोगसम्बन्धेन |

अधुना घटः भूतले नास्ति इति चिन्त्यताम्‌ | केन सम्बन्धेन नास्ति ? संयोगसम्बन्धेन एव |


किमपि वस्तु अपरस्मिन्‌ अस्ति चेत्‌, येन सम्बन्धेन अस्ति, तेन एव सम्बन्धेन अपि भवति यदा नास्ति |


किन्तु तस्य एव अभावः यदा अस्ति, तदा स च अभावः अन्येन सम्बन्धेन भवति | घटस्य अत्यन्ताभावः भूतले अस्ति चेत्‌, स्वरूपसम्बन्धेन भवति | परन्तु तस्मिन्‌ एव समये यदि वदामः यत्‌ घटः भूतले नास्ति, तर्हि तत्र संयोगसम्बन्धेन नास्ति |


अतः किमपि वस्तु नास्ति, अपि च तस्य अभावः अस्ति, उभयत्र सम्बन्धः भिन्नः |


निष्कर्षत्वेन यदा ग्रन्थकारः लिखति यत्‌ "सर्वेऽपि पदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन भवति | तेन सम्बन्धेन नास्तीति अभावः एव अन्योन्याभवः”—


अत्र "सर्वेऽपि पदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन भवति" इत्युक्ते घटः स्वस्मिन्‌ अस्ति तादात्म्यसम्बन्धेन | तदा "तेन सम्बन्धेन नास्तीति" इत्युक्ते घटः पटः न तादात्म्यसम्बन्धेन, न तु घटस्य अन्योनाभावः पटे अस्ति तादात्म्यसम्बन्धेन | अनेन उपवाक्येन भ्रमः भवति | कीदृशभ्रमः ? यत्‌ येन सम्बन्धे वस्तु अधिकरणे नास्ति, तेन एव सम्बन्धेन तस्य अभावः तस्मिन्‌ अधिकरणे अस्ति— इदं नितरां दोषाय |


अतः खलु ३१ इति पृष्ठसङ्ख्यायां लिखितम्‌ अस्ति, “सर्वोऽपि पदार्थः उक्तसम्बन्धेन स्वस्मिन्‌ भवति | तेन सम्बन्धेन घटो नास्तीत्यभावः घटं विहाय जगति सर्वत्र भवति |” अत्र अन्योन्यभावः इति नोक्तम्‌; घटो नास्ति इत्येव उक्तम्‌ |


यः कोऽपि अभावः भवतु नाम, स च अभावः स्वस्य अधिकरणे तिष्ठति स्वरूपसम्बन्धेन | अत्यन्ताभावः भवतु, अन्योनाभावः भवतु, स्वरूपसम्बन्धेन एव तिष्ठति |


Swarup – November 2015

03 - asti, nAsti, abhAvaH.pdf