10---nyAyashAstram/10---prashnAH-uttarANi-ca/3-astinastiabhavah: Difference between revisions
(Created page with "<please replace this with content from corresponding Google Sites page> ") |
m (Protected "3 - अस्ति, नास्ति, अभावः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))) |
||
(5 intermediate revisions by 2 users not shown) | |||
Line 1: | Line 1: | ||
+ | {{DISPLAYTITLE: 3 - अस्ति, नास्ति, अभावः }} |
||
− | <please replace this with content from corresponding Google Sites page> |
||
+ | <big>अस्ति, नास्ति, अभावः</big> |
||
+ | |||
+ | |||
+ | <big>प्रश्नः—</big> |
||
+ | |||
+ | <big>- - - - - - - - - - - - - - - - -</big> |
||
+ | |||
+ | <big>३६ तमे पुटे एवं लिखितं -</big> |
||
+ | |||
+ | <big>"'''भूतलं घटाभाववत् इति ज्ञानस्तले दैशिकविशेषणता संसर्गमादाय चिन्त्यम्''' |”</big> |
||
+ | |||
+ | |||
+ | <big>"प्राकृतमनुसरामः | सर्वेऽपि पदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन भवति | '''तेन सम्बन्धेन नास्तीति अभावः एव अन्योन्याभवः''', भेदः | स च चतुर्थः अभावः | तादात्म्यसम्बन्धस्य प्रतियोगितावच्छेदकत्वम् उपरिष्टात् साधयिष्यते इत्यलम् |"</big> |
||
+ | |||
+ | |||
+ | <big>अत्र उक्तं "'''भूतलं घट-अन्योन्यभाववत् इति ज्ञानस्तले तदात्म्यसम्बन्धः वर्तते" | भूतलं घट-अत्यन्ताभाववत् इति ज्ञानस्तले स्वरूपसम्बन्धः इति खलु |'''</big> |
||
+ | |||
+ | |||
+ | <big>कृपया मम संशयं निवारयतु |</big> |
||
+ | |||
+ | <big>- - - - - - - - - - - - - - - - -</big> |
||
+ | |||
+ | |||
+ | <big>उत्तरम्—</big> |
||
+ | |||
+ | <big>"'''भूतलं घट-अन्योन्यभाववत् इति ज्ञानस्तले तदात्म्यसम्बन्धः वर्तते'''" इति तु ग्रन्थकारेण न उक्तम् |</big> |
||
+ | |||
+ | |||
+ | <big>अत्र 'नास्ति', 'अभावः' अनयोः भेदः अवगन्तव्यः |</big> |
||
+ | |||
+ | |||
+ | <big>घटः भूतले अस्ति इति चिन्त्यताम् | केन सम्बन्धेन ? संयोगसम्बन्धेन |</big> |
||
+ | |||
+ | <big>अधुना घटः भूतले नास्ति इति चिन्त्यताम् | केन सम्बन्धेन नास्ति ? संयोगसम्बन्धेन एव |</big> |
||
+ | |||
+ | |||
+ | <big>किमपि वस्तु अपरस्मिन् अस्ति चेत्, येन सम्बन्धेन ''अस्ति'', तेन एव सम्बन्धेन अपि भवति यदा ''नास्ति'' |</big> |
||
+ | |||
+ | |||
+ | <big>किन्तु तस्य एव अभावः यदा अस्ति, तदा स च अभावः अन्येन सम्बन्धेन भवति | <u>घटस्य अत्यन्ताभावः</u> भूतले अस्ति चेत्, '''स्वरूपसम्बन्धेन''' भवति | परन्तु तस्मिन् एव समये यदि वदामः यत् <u>घटः भूतले नास्ति,</u> तर्हि तत्र '''संयोगसम्बन्धेन''' नास्ति |</big> |
||
+ | |||
+ | |||
+ | <big>अतः किमपि <u>वस्तु नास्ति</u>, अपि च <u>तस्य अभावः अस्ति,</u> उभयत्र सम्बन्धः भिन्नः |</big> |
||
+ | |||
+ | |||
+ | <big>निष्कर्षत्वेन यदा ग्रन्थकारः लिखति यत् "सर्वेऽपि पदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन भवति | तेन सम्बन्धेन नास्तीति अभावः एव अन्योन्याभवः”—</big> |
||
+ | |||
+ | |||
+ | <big>अत्र "सर्वेऽपि पदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन भवति" इत्युक्ते घटः स्वस्मिन् अस्ति तादात्म्यसम्बन्धेन | तदा "तेन सम्बन्धेन नास्तीति" इत्युक्ते '''घटः पटः न तादात्म्यसम्बन्धेन''', ''न तु'' '''घटस्य अन्योनाभावः पटे अस्ति तादात्म्यसम्बन्धेन''' | अनेन उपवाक्येन भ्रमः भवति | कीदृशभ्रमः ? यत् येन सम्बन्धे वस्तु अधिकरणे नास्ति, तेन एव सम्बन्धेन तस्य अभावः तस्मिन् अधिकरणे अस्ति— इदं नितरां दोषाय |</big> |
||
+ | |||
+ | |||
+ | <big>अतः खलु ३१ इति पृष्ठसङ्ख्यायां लिखितम् अस्ति, “सर्वोऽपि पदार्थः उक्तसम्बन्धेन स्वस्मिन् भवति | तेन सम्बन्धेन <u>घटो नास्ती</u>त्यभावः घटं विहाय जगति सर्वत्र भवति |” अत्र अन्योन्यभावः इति नोक्तम्; घटो नास्ति इत्येव उक्तम् |</big> |
||
+ | |||
+ | |||
+ | <big>यः कोऽपि अभावः भवतु नाम, स च अभावः स्वस्य अधिकरणे तिष्ठति स्वरूपसम्बन्धेन | अत्यन्ताभावः भवतु, अन्योनाभावः भवतु, स्वरूपसम्बन्धेन एव तिष्ठति |</big> |
||
+ | |||
+ | |||
+ | <big>Swarup – November 2015</big> |
||
+ | |||
+ | [https://static.miraheze.org/samskritavyakaranamwiki/f/fa/03_-_asti%2C_nAsti%2C_abhAvaH.pdf 03 - asti, nAsti, abhAvaH.pdf] |
Latest revision as of 23:23, 18 July 2021
अस्ति, नास्ति, अभावः
प्रश्नः—
- - - - - - - - - - - - - - - - -
३६ तमे पुटे एवं लिखितं -
"भूतलं घटाभाववत् इति ज्ञानस्तले दैशिकविशेषणता संसर्गमादाय चिन्त्यम् |”
"प्राकृतमनुसरामः | सर्वेऽपि पदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन भवति | तेन सम्बन्धेन नास्तीति अभावः एव अन्योन्याभवः, भेदः | स च चतुर्थः अभावः | तादात्म्यसम्बन्धस्य प्रतियोगितावच्छेदकत्वम् उपरिष्टात् साधयिष्यते इत्यलम् |"
अत्र उक्तं "भूतलं घट-अन्योन्यभाववत् इति ज्ञानस्तले तदात्म्यसम्बन्धः वर्तते" | भूतलं घट-अत्यन्ताभाववत् इति ज्ञानस्तले स्वरूपसम्बन्धः इति खलु |
कृपया मम संशयं निवारयतु |
- - - - - - - - - - - - - - - - -
उत्तरम्—
"भूतलं घट-अन्योन्यभाववत् इति ज्ञानस्तले तदात्म्यसम्बन्धः वर्तते" इति तु ग्रन्थकारेण न उक्तम् |
अत्र 'नास्ति', 'अभावः' अनयोः भेदः अवगन्तव्यः |
घटः भूतले अस्ति इति चिन्त्यताम् | केन सम्बन्धेन ? संयोगसम्बन्धेन |
अधुना घटः भूतले नास्ति इति चिन्त्यताम् | केन सम्बन्धेन नास्ति ? संयोगसम्बन्धेन एव |
किमपि वस्तु अपरस्मिन् अस्ति चेत्, येन सम्बन्धेन अस्ति, तेन एव सम्बन्धेन अपि भवति यदा नास्ति |
किन्तु तस्य एव अभावः यदा अस्ति, तदा स च अभावः अन्येन सम्बन्धेन भवति | घटस्य अत्यन्ताभावः भूतले अस्ति चेत्, स्वरूपसम्बन्धेन भवति | परन्तु तस्मिन् एव समये यदि वदामः यत् घटः भूतले नास्ति, तर्हि तत्र संयोगसम्बन्धेन नास्ति |
अतः किमपि वस्तु नास्ति, अपि च तस्य अभावः अस्ति, उभयत्र सम्बन्धः भिन्नः |
निष्कर्षत्वेन यदा ग्रन्थकारः लिखति यत् "सर्वेऽपि पदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन भवति | तेन सम्बन्धेन नास्तीति अभावः एव अन्योन्याभवः”—
अत्र "सर्वेऽपि पदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन भवति" इत्युक्ते घटः स्वस्मिन् अस्ति तादात्म्यसम्बन्धेन | तदा "तेन सम्बन्धेन नास्तीति" इत्युक्ते घटः पटः न तादात्म्यसम्बन्धेन, न तु घटस्य अन्योनाभावः पटे अस्ति तादात्म्यसम्बन्धेन | अनेन उपवाक्येन भ्रमः भवति | कीदृशभ्रमः ? यत् येन सम्बन्धे वस्तु अधिकरणे नास्ति, तेन एव सम्बन्धेन तस्य अभावः तस्मिन् अधिकरणे अस्ति— इदं नितरां दोषाय |
अतः खलु ३१ इति पृष्ठसङ्ख्यायां लिखितम् अस्ति, “सर्वोऽपि पदार्थः उक्तसम्बन्धेन स्वस्मिन् भवति | तेन सम्बन्धेन घटो नास्तीत्यभावः घटं विहाय जगति सर्वत्र भवति |” अत्र अन्योन्यभावः इति नोक्तम्; घटो नास्ति इत्येव उक्तम् |
यः कोऽपि अभावः भवतु नाम, स च अभावः स्वस्य अधिकरणे तिष्ठति स्वरूपसम्बन्धेन | अत्यन्ताभावः भवतु, अन्योनाभावः भवतु, स्वरूपसम्बन्धेन एव तिष्ठति |
Swarup – November 2015