10---nyAyashAstram/10---prashnAH-uttarANi-ca/5-murtadravyamvibhudravyambhutadravyamca: Difference between revisions

From Samskrita Vyakaranam
< न्यायशास्त्रम्‌‎ | 10---prashnAH-uttarANi-ca10---nyAyashAstram/10---prashnAH-uttarANi-ca/5-murtadravyamvibhudravyambhutadravyamca
Jump to navigation Jump to search
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
m (Protected "5 - मूर्तद्रव्यं, विभुद्रव्यं, भूतद्रव्यं च" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(4 intermediate revisions by 2 users not shown)
Line 1: Line 1:
  +
{{DISPLAYTITLE: 5 - मूर्तद्रव्यं, विभुद्रव्यं, भूतद्रव्यं च }}
<please replace this with content from corresponding Google Sites page>
 
  +
<big><u>मूर्तद्रव्यं, विभुद्रव्यं, भूतद्रव्यं च</u></big>
  +
  +
  +
<big><u>प्रश्नः</u>— मूर्तद्रव्यं नाम किम्‌ ? विभुद्रव्यं नाम किम्‌ ? भूतद्रव्यं नाम किम्‌ ?</big>
  +
  +
  +
<big><u>उत्तरम्—</u> प्रथमतया क्रिया नाम का इति वक्तव्यम्‌ | न्याये क्रिया कर्म च समानार्थकशब्दौ; तर्कसङ्ग्रहवाक्ये पञ्च कर्माणि निदर्शनार्थं दीयन्ते— '''उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि''' |</big>
  +
  +
  +
<big>एतदाधारेण '''मूर्तद्रव्यं''' नाम किम्‌ इति वदेम | न्यायशास्त्रे मूर्तः इत्युक्ते ''क्रियाश्रयः'' | पुस्तकम्‌ इतः तत्र स्थाप्यते चेत्‌, काचन गमनक्रिया साधिता; पुस्तकं च गमनक्रियायाः आश्रयः | यत्‌ किमपि पार्थिवद्रव्यं भवति, तस्मिन्‌ पार्थिवद्रव्ये क्रिया (यथा उत्क्षेपणक्रिया, अपक्षेपणक्रिया, आकुञ्चनक्रिया, प्रसारणक्रिया, गमनक्रिया च) सम्भवति इति कृत्वा तच्च पार्थिवद्रव्यं क्रियायाः आश्रयः | एवमेव जलं, तेजः, वायुः च एषां त्रयाणां गमनादिकं सम्भवति इति कारणेन इमानि त्रीणि अपि क्रियावन्ति द्रव्याणि | तदा मनः अपि तथा; मनः चलति, एकत्र न तिष्ठति, सर्वदा चलत्‌ एव भवति अतः मनसि क्रिया अस्ति | तर्हि आहत्य '''पञ्च''' '''मूर्तद्रव्याणि''' सन्ति— पृथिवी, जलं, तेजः, वायुः, मनः च |</big>
  +
  +
  +
<big>अधुना '''विभुद्रव्यं''' नाम किम्‌ इति वदेम | यत्‌ विभु द्रव्यम्‌ उच्यते, तत्‌ 'सर्वव्यापि' इति सामान्यबोधः | किन्तु ततः अग्रे, न्याये किञ्चित्‌ वक्तव्यं भवति— सर्वमूर्तद्रव्यसंयोगित्वं यस्मिन्‌ अस्ति, तत्‌ विभुद्रव्यम्‌ | घटः इति मूर्तद्रव्यं; स च घटः यत्र कुत्रापि भवतु, तस्य संयोगः आकाशेन सह भवति एव | तथैव किमपि मूर्तद्रव्यं स्वीकुर्मः, तस्य सदा सर्वत्र आकाशेन सह संयोगः भवति इति कृत्वा आकाशः 'सर्वमूर्तद्रव्यसंयोगी' | एवमेव यत्‌ किमपि मूर्तद्रव्यं स्वीकुर्मः— पृथिवी, जलं, तेजः, वायुः, मनः— तस्य सर्वत्र सर्वदा संयोगो भवति न केवलम्‌ आकाशेन अपि तु कालेन सह, दिशा सह, आत्मना सह चेति कृत्वा '''चत्वारि विभुद्रव्याणि''' सन्ति— आकाशः, कालः, दिक्‌, आत्मा च |</big>
  +
  +
  +
<big>अधुना '''भूतद्रव्यं''' नाम किम्‌ इति वदेम | "बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वं भूतस्य लक्षणम्‌" | इत्युक्तौ बहिरिन्द्रियैः ग्राह्यः यः विशेषगुणः, तस्य आश्रयः भूतद्रव्यम्‌ | गन्धः ग्राह्यः घ्राणेन्द्रियेण, तच्च घ्राणेन्द्रियं बहिरिन्द्रियं अस्ति; स च गन्धः इति गुणः पृथिव्याम्‌ आश्रितः अतः गन्धवत्त्वं पृथिव्याम्‌ अस्ति | एवं च— बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वं पृथिव्याम्‌ इत्यनेन पृथिवी भूतद्रव्यम्‌ | तथैव शीतस्पर्शः इति बहिरिन्द्रियग्राह्यः गुणः जले, उष्णस्पर्शः इति बहिरिन्द्रियग्राह्यः गुणः तेजसि, रूपरहितस्पर्शः इति बहिरिन्द्रियग्राह्यः गुणः वायौ, शब्दः इति बहिरिन्द्रियग्राह्यः गुणः आकाशे | अनेन आहत्य '''पञ्च''' '''भूतद्रव्याणि''' सन्ति— पृथिवी, जलं, तेजः, वायुः, आकाशः च |</big>
  +
  +
  +
<big>Swarup – April 2016</big>
  +
  +
[https://static.miraheze.org/samskritavyakaranamwiki/9/9c/05_-_mUrtadravyaM%2C_vibhudravyaM%2C_bhUtadravyaM_ca.pdf 05 - mUrtadravyaM, ... bhUtadravyaM ca.pdf]

Latest revision as of 23:23, 18 July 2021

मूर्तद्रव्यं, विभुद्रव्यं, भूतद्रव्यं च


प्रश्नः— मूर्तद्रव्यं नाम किम्‌ ? विभुद्रव्यं नाम किम्‌ ? भूतद्रव्यं नाम किम्‌ ?


उत्तरम्— प्रथमतया क्रिया नाम का इति वक्तव्यम्‌ | न्याये क्रिया कर्म च समानार्थकशब्दौ; तर्कसङ्ग्रहवाक्ये पञ्च कर्माणि निदर्शनार्थं दीयन्ते— उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि |


एतदाधारेण मूर्तद्रव्यं नाम किम्‌ इति वदेम | न्यायशास्त्रे मूर्तः इत्युक्ते क्रियाश्रयः | पुस्तकम्‌ इतः तत्र स्थाप्यते चेत्‌, काचन गमनक्रिया साधिता; पुस्तकं च गमनक्रियायाः आश्रयः | यत्‌ किमपि पार्थिवद्रव्यं भवति, तस्मिन्‌ पार्थिवद्रव्ये क्रिया (यथा उत्क्षेपणक्रिया, अपक्षेपणक्रिया, आकुञ्चनक्रिया, प्रसारणक्रिया, गमनक्रिया च) सम्भवति इति कृत्वा तच्च पार्थिवद्रव्यं क्रियायाः आश्रयः | एवमेव जलं, तेजः, वायुः च एषां त्रयाणां गमनादिकं सम्भवति इति कारणेन इमानि त्रीणि अपि क्रियावन्ति द्रव्याणि | तदा मनः अपि तथा; मनः चलति, एकत्र न तिष्ठति, सर्वदा चलत्‌ एव भवति अतः मनसि क्रिया अस्ति | तर्हि आहत्य पञ्च मूर्तद्रव्याणि सन्ति— पृथिवी, जलं, तेजः, वायुः, मनः च |


अधुना विभुद्रव्यं नाम किम्‌ इति वदेम | यत्‌ विभु द्रव्यम्‌ उच्यते, तत्‌ 'सर्वव्यापि' इति सामान्यबोधः | किन्तु ततः अग्रे, न्याये किञ्चित्‌ वक्तव्यं भवति— सर्वमूर्तद्रव्यसंयोगित्वं यस्मिन्‌ अस्ति, तत्‌ विभुद्रव्यम्‌ | घटः इति मूर्तद्रव्यं; स च घटः यत्र कुत्रापि भवतु, तस्य संयोगः आकाशेन सह भवति एव | तथैव किमपि मूर्तद्रव्यं स्वीकुर्मः, तस्य सदा सर्वत्र आकाशेन सह संयोगः भवति इति कृत्वा आकाशः 'सर्वमूर्तद्रव्यसंयोगी' | एवमेव यत्‌ किमपि मूर्तद्रव्यं स्वीकुर्मः— पृथिवी, जलं, तेजः, वायुः, मनः— तस्य सर्वत्र सर्वदा संयोगो भवति न केवलम्‌ आकाशेन अपि तु कालेन सह, दिशा सह, आत्मना सह चेति कृत्वा चत्वारि विभुद्रव्याणि सन्ति— आकाशः, कालः, दिक्‌, आत्मा च |


अधुना भूतद्रव्यं नाम किम्‌ इति वदेम | "बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वं भूतस्य लक्षणम्‌" | इत्युक्तौ बहिरिन्द्रियैः ग्राह्यः यः विशेषगुणः, तस्य आश्रयः भूतद्रव्यम्‌ | गन्धः ग्राह्यः घ्राणेन्द्रियेण, तच्च घ्राणेन्द्रियं बहिरिन्द्रियं अस्ति; स च गन्धः इति गुणः पृथिव्याम्‌ आश्रितः अतः गन्धवत्त्वं पृथिव्याम्‌ अस्ति | एवं च— बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वं पृथिव्याम्‌ इत्यनेन पृथिवी भूतद्रव्यम्‌ | तथैव शीतस्पर्शः इति बहिरिन्द्रियग्राह्यः गुणः जले, उष्णस्पर्शः इति बहिरिन्द्रियग्राह्यः गुणः तेजसि, रूपरहितस्पर्शः इति बहिरिन्द्रियग्राह्यः गुणः वायौ, शब्दः इति बहिरिन्द्रियग्राह्यः गुणः आकाशे | अनेन आहत्य पञ्च भूतद्रव्याणि सन्ति— पृथिवी, जलं, तेजः, वायुः, आकाशः च |


Swarup – April 2016

05 - mUrtadravyaM, ... bhUtadravyaM ca.pdf