सन्ध्या-भगिन्याः व्याख्यानम्‌

< न्यायशास्त्रम्‌‎ | 19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/sandhya-bhaginyahvyakhyanam

भेद-पृथक्त्वयोः वैलकक्षण्यम्


भेदः – भेदः, नाम अन्योन्याभावः, सर्वेषु पदार्थेषु वर्तते । उदाहरणार्थम् – घटः पटः न, रूपं घटः न, गमनं रूपं न, समवायः संयोगात् भिन्नः, घटत्वं पटत्वात् अन्यत्, तद्विशेषः एतद्विशेषः न इत्यत्र सर्वत्र भेदस्य अवगमनं भवति ।


पृथक्त्वम् – पृथक्त्वम् इति गुणः सर्वेषु द्रव्येषु एव वर्तते न तु द्रव्यान्तर-पदार्थेषु । कथं ज्ञायते पृथक्त्वस्य केवलं द्रव्यवृत्तित्वम् एव न तु सर्वपदार्थवृत्तित्वम् इति ? उत्तरम् – द्रव्यम् इति पदार्थः यदा जायते तदा जननात् परं प्रथमे क्षणे निर्गुणः, निश्क्रियः च भवति । द्वितीये क्षणे कारणीभूते द्रव्ये गुणः इति कार्यं जायते – यथा रूपम् इत्यादि । अतः द्रव्यं गुणस्य समवायिकारणम् इति उच्यते । द्रव्ये कारणता, गुणे कार्यता च । गुणः अकारणः यतो हि गुणः कार्यम् । एतादृशे अकारणे गुणे पुनः पृथक्त्वम् इति अपरः गुणः न उत्पद्यते ।


यद्यपि रूपं घटात् पृथक् इति व्यवहरेम तथापि अत्र भेदस्य एव अवगमनं भवति न तु पृथक्त्वस्य । भेदस्थले प्रतियोगी-अनुयोगी-भावः, केन सामान्येन केन च सम्बधेन अवच्छिद्यते इत्येषां विषयाणां जिज्ञासा भवति । पृथक्त्वस्थले पृथक्त्वस्य आश्रयः कः, अवधित्वं कस्मिन् च इति विषयः अस्ति । एतेन सर्वपदार्थवृत्तिः भेदः, सर्वद्रव्यवृत्ति पृथक्त्वम् इति द्वयोः वैलकक्षण्यं सिध्यति ।


पूर्वपक्षः – नवीननैयायिकानां मतानुसारं यदि सर्वत्र भेदेन कार्यं सिध्यति तर्हि पृथक्त्वम् इति भिन्नगुणस्य आवश्यकता एव नास्ति । यत्र यत्र पृथक्त्वम् इति पदम् उपयुज्यते तत्र तत्र भेदः एव प्रतीयते । गुणे गुणः न जायते इति पूर्वपक्षिभिः सिद्धान्तिभिः च उभाभ्यां पक्षाभ्याम् अङ्गीक्रियते । रूपे रसः न इत्यनेन भेदः एव निर्दिश्यते । अत्र द्वयोः विषययोः – भेदः पृथक्त्वं च – मध्ये एकस्य विषस्य चयनं न आवश्यकम् । यतः तौ द्वौ अपि भिन्नौ पदार्थौ न अपि तु भेदः एव पृथक्त्वम् अस्ति ।


यत्र यत्र भेदस्थले प्रथमाविभक्तिः उपयुज्यते प्रतियोगी-अनुयोगी-सूचनार्थम् अपि च पृथक्त्वस्थले अवधिवाचकपदस्य पञ्चमी, आश्रयवाचकपदस्य च प्रथमा विभक्त्यौ भवतः, तत्र तत्र विभक्तिभेदस्य साहाय्येन सिद्धान्तिभिः भेदपृथक्त्वयोः वैलक्षण्यं दर्श्यते । किन्तु विभक्तिप्रयोगभेदः तु व्याकरणदृष्ट्या वाक्यसिद्ध्यर्थम् एव उपयुज्यते । एतेन भिन्नविभक्तिप्रयोगेन वाक्ये तु अर्थभेदः न भवती ।


सिद्धान्तः – पूर्वपक्षिणां ‘भेदः एव पृथक्त्वम्’ इति मतस्य निराकरणं कुर्वन्तः सिद्धान्तिनः संयोगस्य आधारेण पृथक्त्वम् अतिरिक्तं गुणम् इति प्रतिपादयन्ति । हस्ते या क्रिया जायते तया हस्तस्य कर्मजः संयोगः पुस्तकेन सह भवति । हस्तः शरीरस्य अवयवः इत्यस्मात् हस्तगतक्रियया यः कर्मजः संयोगः हस्तपुस्तकयोः भवति तेन संयोगेन शरीरस्य संयोगजः संयोगः पुस्तकेन सह भवति । एतेन सिध्यति यत् मूर्तद्रव्यगतक्रियया तस्य मूर्तद्रव्स्य अपि च तस्य अवयविनः संयोगः अन्यमूर्तद्रव्येण सह वा विभुद्रव्येण सह वा भवति । अत्र अवयव-अवयवीभावः । किन्तु यः संयोगः अवयवे भवति तेन अवयविनि संयोगः न भवति इति स्वीकरणीयम् । नो चेत् अवयवे क्रियया अवयविनि संयोगः तु अनुभवविरुद्धं अस्ति यतो हि अवयव-अवयविनोः मध्ये समवायः न तु संयोगः ।


तर्हि यथा हस्तगतक्रियया हस्तपुस्तकयोः कर्मजः संयोगः जायते, यथा तेन संयोगेन शरीरपुस्तकयोः संयोगजः संयोगः जायते, तथा किमर्थं हस्तशरीरसंयोगः न जायते ? कयोः द्रव्ययोः संयोगः भवति, कयोः च न भवति ? उत्तरम् – युतसिद्धे द्रव्ये भवतः चेदेव तयोः कर्मजः वा संयोगजः वा संयोगः जायते । युतसिद्धौ पदार्थौ इत्युक्ते पृथगाश्रयाश्रितौ पदार्थौ । उदा – शरीरस्य आश्रयः अवयवभूतः हस्तः, घटस्य कपालः, पुस्तकस्य पुटानि इत्यादयः । शरीरस्य संयोगः घटेन शक्यः न तु हस्तेन । शरीरहस्तयोः तु अवयवावयवीभावात् समवायः ।


अतः यद्यपि शरीरं भिन्नं, हस्तः च भिन्नः, हस्तः शरीरं न इत्यनेन हस्तशरीरयोः भेदः वर्तते तथापि अवयवावयवीभावेन तयोः पृथगाश्रयाश्रितत्वं नास्ति इत्यस्मात् द्वयोः संयोगः न भवति । एतेन प्रकारेण ‘युतसिद्धत्वम्’, ‘पृथगाश्रयाश्रितत्वम्’ च इत्यनयोः साहाय्येन पृथक्त्वम् इति अपरः गुणः अस्ति इति सिद्धान्तिभिः उच्यते ।


पूर्वपक्षः – इदानीं पूर्वपक्षिणः आपादनद्वयम् आक्षिपन्ति । प्रथमं ते वदन्ति यद् यदि पृथक्त्वम् इति गुणः स्यात्, तर्हि तस्य तु नियतावधिकत्वम् अस्ति । एतावत्पर्यन्तं कस्यचिदपि गुणस्य नियतावधिकत्वं न दृष्टम् । केवलं भेदः इति पदार्थस्य नियतावधिकत्वं दृष्टम् । अतः पृथक्त्वम् इति भेदः एव अस्ति । द्वितीयं ते वदन्ति यद् यदि पृथक्त्वस्य नियतावधिकत्वे अपि गुणरूपं स्वीक्रियते तर्हि तस्य निखिलावधिकत्वम् अपि स्यात् । इत्युक्ते यथा घटे भूतलावधिकत्वम् अस्ति तथा कपालवधिकत्वम् अपि स्यात् ।


सिद्धान्तः – प्रथमापादनस्य उत्तरत्वेन सिद्धान्तिनः वदन्ति यद् यदि पूर्वपक्षीमतेन पृथकत्वस्य नियतावधिकत्वात् गुणेषु अङ्गीकारः नास्ति तर्हि अन्ये अपि गुणाः ये नियतावधिकाः सन्ति तेषाम् अपि गुणेषु निराकरणं भवेत् । यथा – परत्वम्, अपरत्वम् इत्यादयः । तेषाम् अपि भेदरूपता एव भवेत् । यदि घटकपालयोः मध्ये भेदः एव अस्ति, पृथक्त्वं नास्ति इति स्वीकुर्मः, तर्हि तयोः द्वयोः परस्पारावधिकत्वम् आयाति येन द्वयोः मध्ये युतसिद्धत्वं भूत्वा संयोगस्य सम्भावना उत्पद्यते यद् दोषाय अस्ति ।


द्वितीयापादनेन यदि पृथक्त्वस्य निखिलावधिकत्वं स्वीकुर्मः तर्हि यथा घटभूतलयोः परस्परावधिकत्वम् अनुभूयते तथैव घटकपालयोः अपि परस्परावधिकपृथक्त्वं स्वीकरणीयं भवति । एतेन पुनः घटकपालयोः मध्ये युतसिद्धत्वम् अस्ति वा इति शङ्का उदेति । तेन पुनः द्वयोः अनुभवविरुद्धः संयोगदोषः आपद्यते । अयुतसिद्धयोः घटकपालयोः मध्ये संयोगः न जायते इति तु उभाभ्यां पक्षाभ्याम् अपि अङ्गीक्रियते ।


अग्रे द्वीतीयापदने कृते पृथक्त्वस्य निखिलावधिकत्वस्य निवारणाय सिद्धान्तिभिः विभागः इति गुणस्य आधारः स्वीक्रियते । तैः उच्यते यद् विभागस्य अपि निखिलावधिकत्वं नास्ति अपि तु द्विनिष्ठत्वम् । कुत्र विभागस्य अवधिकत्वम् अस्ति ? स्वेन (विभागेन) नाश्यः यः संयोगः इति गुणः, तस्य गुणस्य आश्रये एव विभागस्य अवधिकत्वम् अस्ति । यद्यपि विभागः द्विनिष्ठः तथापि एकस्मिन् समये विभागस्य अवधिः एकम् एव द्रव्यं भवति । यथा हस्तपुस्तकयोः विभागे हस्तावधिकः विभागः पुस्तके एव अस्ति न तु समानसमये हस्ते अपि । तथैव पुस्तकावधिकः विभागः हस्ते न तु पुस्तके अपि । तथैव पृथक्त्वस्थले अपि घटे विद्यमानस्य पृथक्त्वस्य अवधिकत्वं स्वं घटं विहाय अपि च तस्य आश्रयसमवायिकारणपरम्परायां विद्यमानानि मूर्तद्रव्याणि च विहाय (इत्युक्ते घटस्य अवयवपरम्परायां विद्यमानानि सर्वाणि मूर्तद्रव्याणि विहाय) अन्यत्र सर्वत्र भवति । नाम पृथक्त्वस्य अनेकावधिकत्वं न तु निखिलावधिकत्वम् । यथा विभागस्थले कुत्रचित् अवधिकत्वं निवर्त्य प्रतीतिवशात् एकावधिकत्वं स्वीक्रियते तथैव पृथक्त्वस्थले अपि कुत्रचित् अवधिकत्वं निवर्त्य अनेकावधिकत्वं स्वीक्रियते ।


परमाण्वोः संयोगः – परमाण्वोः संयोगः कथं जायेत यतोहि परमाणोः अवयवाभावे आश्रितत्वं नास्ति इति प्रश्ने कृते सिद्धान्तिभिः उच्यते यद् परमाणोः स्वतन्त्रक्रियावत्त्वम् अस्ति अतः तेन कारणेन परमाण्वोः संयोगः सम्भवति ।


मूर्तविभ्वोः संयोगः – यदा प्रश्नः भवति यद् विभुद्रव्यस्य अवयवाभावे कथं वा तस्य संयोगः मूर्तद्रव्येण सह भवति, तदा समाधानम् अस्ति – मूर्तद्रव्यस्य पृथगाश्रयाश्रितत्वं तु अस्ति । संयोगः, विभागः, पृथक्त्वम्, सङ्ख्या, परिमाणं च गुणाः सर्वेषु द्रव्येषु वर्तन्ते । विभुद्रव्येषु संयोगः, पृथक्त्वम्, विभागः इत्यादयः उपाधिभेदेन स्वीक्रियन्ते ।


आहत्य सिद्धान्तिनः वाक्यरचना (विभक्तिभेदः), संयोगः, अवयवावयीभावः, युतसिद्धत्वम्, पृथगाश्रयाश्रितत्वम्, विभागः च इत्येतेषां विषयाणां साहाय्येन प्रतिपादयन्ति यद् भेदः एव पृथक्त्वं नास्ति अपि तु पृथक्त्वम् इति भेदात् विलक्षणः गुणः यः सर्वद्रव्येषु वर्तते ।