विद्याशङ्कर-महोदयस्य व्याख्यानम्‌

< न्यायशास्त्रम्‌‎ | 19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/vidyasankara-mahodayasyavyakhyanam

भेद: एव पृथक्त्वम् इति आक्षेपस्य निरासः

विद्याशङ्करः कौशिकः


चतुर्विंशति-गुणेषु अपरः गुणः पृथक्त्वम् इति अस्माभिः आरम्भे विद्याधर्यां ग्रन्थे पठितम्। तेषु गुणेषु संयोगः, विभागः च अपि पठितौ । इदानीम् प्रश्नः आगतः यत् पृथक्त्वस्य गुणार्हः अस्ति वा इति ।


"घटः पटात् पृथक्" अथवा "घटः पटात् भिन्नः" इति वचनानि समानार्थम् अवगाहते इति उक्त्वा, "भेदः एव पृथक्त्वम्" इति आक्षेपः नवीन-नैय्यायिकैः क्रियते ।


प्रथम-स्थले किञ्चित् भेद-पृथक्त्वयोः विषये परिशीलयामः । "घटः पटात् पृथक्" इति प्रतीतौ पटः अवधिः, घटे विद्यमानं पृथक्त्वम् पटावधिकम् इति उच्यते । "घटः पटात् भिन्नः" इति प्रतीतौ घटे पटावधिक-भेदः, पटः अवधिः च । "घटः पटः न" अनेन इत्यपि भेदः प्रकटीक्रियते । अत्र घटे पटाभावः, इत्युक्ते अन्योन्याभावः इति ज्ञायते । अस्य अभावस्य पटः एव प्रतियोगी ।


पृथक्त्वम् इति गुणः द्रव्येषु एव वर्तते । परन्तु भेदः तु सर्वपदार्थवृत्तिः । इत्युक्ते, रूपः रसात् भिन्नः इति वदनेन ज्ञानजनकत्वम् अस्ति किन्तु रूपः रसात् पृथक् इति व्यवहारः न भवति ।


अन्यः विशयः अस्ति यत् पृथक्त्वं यतोहि द्रव्यस्य विशेषणम् अस्ति, ततः द्रव्ये समवाय-सम्बन्धेन तिष्ठति । पृथक्त्वं द्रव्यस्य जातस्य द्वितीये क्षणे जायते यथा सर्वे गुणाः जायन्ते । परन्तु भेदः तु नित्यः ।


इदानीम् मुल विषयः । भेदः एव पृथक्त्वम् इत्यस्य आक्षेपस्य निरासः ग्रन्थकारेण संयोगस्य आधारेण क्रियते । संयोगः इति सम्बन्धः मूर्तद्रव्यस्य क्रियया अन्येन मूर्तद्रव्येन वा विभुद्रव्येन वा सह भवति । प्रत्येकः विषयः यः सावयवः अस्ति, स च विषयः स्व-आश्रये इत्युक्ते स्व-अवयवेषु तिष्ठति । ययोः मूर्तद्रव्ययोः आश्रयौ पृथक् तिष्ठतः, तयोः प्रूथगाश्रय-आश्रितत्वम् इति उच्यते । यत्र द्वयोः विषययोः पृथगाश्रय-आश्रितत्वम् अस्ति, तत्र तयोः युतसिद्धत्वम् इत्यपि उच्यते । यत्र युतसिद्धत्वम्, तत्र एव संयोगः सम्भवति । अस्मिन् स्थितौ एकम् मूर्तद्रव्यम् अपरस्य आश्रयः न भवेत् इति नियमः अस्ति - साक्षात् अवयव-वशात् वा परम्परागतत्वात् । अस्य नियमस्य स्पष्टीकरणार्थम् उदाहरणं दीयते ।


यथा घटः इति मूर्तद्रव्यं स्वाश्रये कपाले तिष्ठति, पटः अपि स्वाश्रयेषु तन्तुषु तिष्ठति । अत्र घट-पटयोः आश्रयौ पृथक् । अतः तयोः संयोगः सम्भवति । परन्तु घट-कपाल-विषये तु कपालः घटस्य आश्रयः अस्ति। अतः घट-कपालयोः संयोगः न सम्भवति यतो हि घट-कपालयोः प्रूथगाश्रय-आश्रितत्वम् नास्ति। तथैव घट-कपालिकयोः अपि संयोगः न भवति यतः घट-कपाल-कपालिकानाम् परम्परागत-आश्रितत्वम् अस्ति।


अत्र अन्येन मार्गेण चिन्तनं कुर्मः। "पृथक्त्वम् इति स्थाने "भेदः" इति उपयुज्य पश्यामः। घटस्य आश्रयः पटस्य आश्रयात् भिन्नः इति तु सत्यम्। किमर्थम् इत्युक्ते घटस्य आश्रयः कपालः, पटस्य आश्रयात् तन्तुभ्यः भिन्नः एव। ततः "भिन्न-आश्रय-आश्रितत्वात्" घट-पटयोः संयोगः भवति।


घट-कपाल-विषये, घटस्य आश्रयः कपालः यत् अस्ति, स च कपालः कपालस्य आश्रयात् कपालिकयाः भिन्नः तु अस्ति। तथापि घट-कपालयोः "भिन्न-आश्रय-आश्रितत्वात्" संयोगः न भवति इति आक्षेपकारेणापि अङीक्रियते। एतस्मात् चिन्तनात् सिद्धः भवति यत् भेदः एव पृथक्त्वम् इति वदनेन दोषपूर्ण स्थितिः आपतति। भेदः विहाय अन्यं द्रव्यस्य विशेषणम् अथवा गुणः अपेक्षितम् अस्ति । ततः पृथक्त्वम् इति गुणः स्वीकर्तव्यं भवति, नो चेत् अनुभव-विरोध-विषयः भवति।


अन्यः विषयः अपि अस्ति । घट-पटयोः दिगुपाधित्वम् अस्ति, अपि च तयोः समानदेश-व्यापकत्वं नास्ति । यस्मिन् देशे घटः अस्ति, तस्मिन् एव देशे पटः न भवितुम् अर्हति । किन्तु घट-कपालयोः समान-देश-व्यापकत्वं तु अस्ति । इत्युक्ते यस्मिन् देशे घटः अस्ति, तस्मिन् एव देशे कपालः अपि अस्ति, तस्मिन् एव देशे कपालिका अपि अस्ति । तस्मात् तयोः संयोगः नैव सम्भवति । मूर्तद्रव्यानाम् असामान-देश-व्यापकत्वम् एव पृथक्त्वम् इति अपि वक्तुं शक्नुमः ।