लक्ष्यतावच्छेदकसमनियतत्वे सति व्यावर्तकत्वं लक्षणस्य लक्षणम्

< न्यायशास्त्रम्‌‎ | 26---dalasArthakya-cintanam10---nyAyashAstram/26---dalasArthakya-cintanam/laksyatavacchedakasamaniyatatvesativyavartakatvamlaksanasyalaksanam

(१३) लक्ष्यतावच्छेदकसमनियतत्वे सति व्यावर्तकत्वं लक्षणस्य लक्षणम् |


द्वे दले :  १) लक्ष्यतावच्छेदकसमनियतत्वम्   २) व्यावर्तकत्वम्


समनियतत्वम् = अन्यूनातिरिक्तवृत्तित्वम् | व्यापकत्वे सति व्याप्यत्वम् | लक्ष्यतावच्छेदकव्यापकत्वे सति लक्ष्यतावच्छेदकव्याप्यत्वं लक्षणे भवेत् |

सास्नादिमत्त्वम् गोः लक्षणम् | लक्ष्यतावच्छेदकम् अस्ति गोत्वम् | “यत्र यत्र गोत्वं तत्र तत्र सास्नादिमत्त्वम्” इति समव्याप्तिः अथवा समनियतत्वम् |


व्यावर्तकत्वम् = इतरभेद-अनुमापकत्वम् | इदमेव लक्षणस्य विशिष्टप्रयोजनम् | लक्ष्यम् इतरभेदवत् इति अपरेभ्यः लक्ष्यं व्यावर्तयति लक्षणं, व्यावर्तकम् |


गौः गवेतरभिन्ना सास्नादिमत्त्वात् | सास्नादिमत्त्वम् इति गोः असाधारणधर्मः | सास्नादिमत्त्वे लक्ष्यतावच्छेदकेन गोत्वेन सह समनियतत्वम् अस्ति |

सास्नादिमत्त्वे व्यावर्तकत्वम् अपि अस्ति येन तत् गाम् अपरेभ्यः व्यावर्तयति, नाम गौः गवेतरभेदवती इति साधयति | सास्नादिमत्त्वं गोः लक्षणम् |

“गौः गवेतरभिन्ना सास्नादिमत्त्वात्” इत्यस्मिन् अनुमानवाक्ये सास्नादिमत्त्वेन हेतुना गवेतरभेदवत्त्वं साध्यते गवि | गवेतरभेदः गवि इति अनुमितिः |

उपात्तं दलम् दोषः कुत्र ? निवारणम्
लक्ष्यतावच्छेदकसमनियतत्वम् अतिव्याप्तिः व्यावृत्तौ | व्यावृत्तिः = इतरभेदः | व्यावर्तकत्वम् इति विशिष्टं प्रयोजनं व्यावृत्तौ नास्ति इति केचन नैयायिकाः वदन्ति |

यदि व्यावृत्तिः लक्षणम् अभविष्यत् तर्हि “गौः गवेतरभेदवती  गवेतरभेदात्” इति अनुमानवाक्यम् असेत्स्यत् |

हेतुसाध्ययोः, गवेतरभेदः-गवेतरभेदवत्त्वम् इत्यनयोः ऐक्यात् “गौ गवेतरभेदवती” इति अनुमितिः न जायेत |

अतः व्यावृत्तौ इतरभेदानुमापकत्वं, व्यावर्तकत्वं न विद्यते | तन्न लक्षणम् |

अभिधेयत्वे | अभिधेयं = शब्दवाच्यम् | विश्वे सर्वम् अभिधेयम् |

अभिधेयत्वम् इति केवलान्वयी धर्मः यः सर्वेषु पदार्थेषु अवश्यं वर्तते |

अतः अभिधेयत्वे इतरभेदानुमापकत्वं, व्यावर्तकत्वं न विद्यते | तन्न लक्षणम् |

व्यावर्तकत्वम्
व्यावर्तकत्वम् अतिव्याप्तिः विशेषणे, उपलक्षणे च | “कपिलरूपवती गौः” इत्युक्तौ गवि कपिलरूपवत्त्वम् इति विशेषणं यत् इमां गां व्यावर्तयति |

“यत्र यत्र गोत्वं तत्र तत्र कपिलरूपवत्त्वम्” इति गोत्व-समनियतत्वं न विद्यते विशेषणे कपिलरूपवत्त्वे | अतः तन्न लक्षणम् |

लक्ष्यतावच्छेदकसमनियतत्वम्
लक्ष्यतावच्छेदकसमनियतत्त्वे सति व्यावर्तकत्वम् नास्ति नास्ति नास्ति


* “व्यावृत्तिभिन्नत्वे सति अभिधेयत्वभिन्नत्वे सति लक्ष्यतावच्छेदकसमनियतत्वं लक्षणस्य लक्षणम्” इत्यपि नैय्यायिकैकदेशिनः वदन्ति |