द्विकर्मकधातूनां कर्तरिप्रयोगे कारकव्यवस्था

< 12 - व्यावहारिकी शिक्षिका12---vyAvahArikii-shikShikA/dvikarmakadhAtUnAM-karmaNiprayoge-kArakavyavasthA

विषयः - द्विकर्मकधातूनां कर्मणिप्रयोगे कारकव्यवस्था


प्रश्नः

कर्तरिप्रयोगः - “भिक्षुकः धनिकम् आहारं याचते” / “भिक्षुकः धनिकात् आहारं याचते” इति वाक्यद्वयमपि साधु |

अनयोः वाक्ययोः कर्मणिप्रयोगः कथं भवति ? अधस्तनयोः प्रयोगयोः कः प्रयोगः साधुः ?

"भिक्षुकेण धनिकः आहारं याच्यते" उत "भिक्षुकेण धनिकम् आहारः याच्यते" ?  


उत्तरम्

"भिक्षुकेण धनिकः आहारं याच्यते" इत्येव साधुः प्रयोगः |


- द्विकर्मकधातूनां व्यवस्था एवं यत्‌ कर्तरिप्रयोगे द्वयोः कर्मपदयोर्मध्ये यस्य विकल्पेन अन्यविभक्तिकत्वं भवति, तत्‌ गौणकर्मपदम्‌ इत्युच्यते | अन्यत्‌ कर्मपदं द्वितीयाविभक्तौ एव भवति इति कारणतः तच्च पदं प्रधानकर्मपदम्‌ |

- द्विकर्मकधातूनां व्यवस्था एवं यत्‌ कर्तरिप्रयोगे द्वयोः कर्मपदयोर्मध्ये यस्य विकल्पेन अन्यविभक्तिकत्वं भवति, तत्‌ गौणकर्मपदम्‌ इत्युच्यते | अन्यत्‌ कर्मपदं द्वितीयाविभक्तौ एव भवति इति कारणतः तच्च पदं प्रधानकर्मपदम्‌ |

- अत्र धनिक-शब्दः विकल्पेन धनिकं/धनिकात्‌ इति कृत्वा गौणकर्मपदम्‌; आहार-शब्दः नित्यं द्वितीयाविभक्तौ 'आहारम्‌' इति कृत्वा प्रधानकर्मपदम्‌ |

- अतः “भिक्षुकः धनिकम् आहारं याचते” इत्यस्मिन् “आहारम्” इति प्रधानकर्मपदं च “धनिकम्” इति गौणकर्मपदम् |

- कर्तुरीप्सिततमं कर्म (१.४.४९) इत्यनेन आहार-शब्दस्य कर्मसंज्ञा, अकथितं च (१.४.५१) इत्यनेन धनिक-शब्दस्य कर्मसंज्ञा |

- षोडश औपदेशिकाः द्विकर्मकधातवः सन्ति ये सिद्धान्तकौमुद्याम् अनेन श्लोकेन निर्दिष्टाः |

दुह्-याच्-पच्-दण्ड्-रुधि-प्रच्छि-चि-ब्रू-शासु-जि-मथ्-मुषाम् |

कर्मयुक् स्यादकथितं तथा स्यात् नी-हृ-कृष्-वहाम् ||

- एषां षोडशानां द्विकर्मकधातूनां, तदर्थकानां च प्रयोगे प्रधानकर्मपदं च गौणकर्मपदं भवतः |

- कर्मणिप्रयोगे कर्मपदं प्रथमाविभक्तौ भवति इति अस्माभिर्बुध्यते | बालकः ग्रन्थं पठति → बालकेन ग्रन्थः पठ्यते, इति सामान्यज्ञानम्‌ |

- किन्तु द्विकर्मकधातूनां योगे कर्मद्वये सति कर्मणिप्रयोगे द्वयोर्मध्ये कस्य कर्मणः प्रथमाविभक्त्यन्तत्वेन परिवर्तनं स्यात् इति प्रश्नः उदेति |

- कर्मणिप्रयोगे एषु षोडशसु धातुषु द्वादशानां गौणकर्मणः प्रथमाविभक्तिः; अवशिष्टानां चतुर्णां प्रधानकर्मणः प्रथमाविभक्तिः |

- “गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम्” इत्यनेन सिद्धान्तकौमुदीवचनेन कस्य कर्मणः प्रथमाविभक्तिः स्यात् इति निर्देशः प्राप्यते |

- द्विकर्मकधातूनां कर्मणिप्रयोगे कारकव्यवस्थायाः बोधसौकर्याय एते षोडश द्विकर्मकधातवः समूहद्वये विभक्ताः |

- प्रथमः समूहः दुह्-याच्-पच्-दण्ड्-रुधि-प्रच्छि-चि-ब्रू-शासु-जि-मथ्-मुष् इत्येषां सङ्ग्रहः; दुह्यादिगणः इत्युच्यते |

- दुह धातुः अदादिगणे अस्ति | कर्तरिप्रयोगे अयं गणः "दुहादयः" इत्युच्यते; कर्मणिप्रयोगे रूपम्‌ अस्ति दुह्यते इति कारणतः दुह्यादयः इति उच्यते |

- द्वितीयः समूहः नी-हृ-कृष्-वह् इत्येषां चतुर्णां द्विकर्मकधातूनां सङ्ग्रहः |

- दुह्यादिगणे अन्तर्भूतानां धातूनां कर्मणिप्रयोगे गौणकर्मणः प्रथामाविभक्तिः -- “गौणे कर्मणि दुह्यादेः” |

- नी-हृ-कृष्-वह् इत्येषां कर्मणिप्रयोगे प्रधानकर्मणः प्रथामाविभक्तिः -- “प्रधाने नीहृकृष्वहाम्” |

- अस्य आधारेण दुह्यादिगणे अन्तर्भूतस्य याच्-धातोः कर्मणिप्रयोगे गौणकर्मणः प्रथामाविभक्तिः |

- अतः "भिक्षुकेण धनिकः आहारं याच्यते" इति प्रयोगस्य साधुत्वं सिध्यति यत्र गौणकर्म “धनिकः” प्रथमाविभक्त्यन्तं भवति |

- एवमेव, द्वितीयसमूहे अन्तर्भूतानां नी-हृ-कृष्-वह् इत्येषां धातूनां कर्मणिप्रयोगे प्रधानकर्मणः प्रथमविभक्तिः भवति |

- उदाहरणत्वेन, “बालकेन ग्रामं शुनकः नीयते”, अत्र नी-धातोः कर्मणिप्रयोगे “शुनकः” इति प्रधानकर्मणः प्रथमाविभक्तिः |

- कर्मणिप्रयोगे क्रियापदं कर्मपदेन सह अन्वेति इत्यतः क्रियापदस्य वचनं कर्मपदस्य वचनम् अवलम्ब्य निर्णीयते |

- "भिक्षुकेण धनिकाः आहारं याच्यन्ते” इत्यस्मिन् वाक्ये कर्मण्यर्थे निष्पन्नं क्रियापदं “याच्यन्ते” इति बहुवचने, “धनिकाः” इत्यस्य बहुवचनान्तत्वात् |

- “बालकेन ग्रामं शुनकाः नीयन्ते” इत्यस्मिन् वाक्ये कर्मण्यर्थे निष्पन्नं क्रियापदं “नीयन्ते” इति बहुवचने, “शुनकाः” इत्यस्य बहुवचनान्तत्वात् |

- अन्ततो गत्वा द्विकर्मकधातूनां व्यवस्था एतादृशी अस्ति इति तु सत्यं; परन्तु यद्यपि दुह्यादीनां गौणकर्मणः प्रथमाविभक्तिः, तथापि वाक्ये गौणकर्मपदं नोक्तं चेत्‌, यत्कर्मपदम्‌ उक्तं तस्यैव प्रथमाविभक्तिः | भिक्षुकः आहारं याचते → भिक्षुकेण आहारः याच्यते | एवमेव नी-हृ-कृष्-वह् इत्येभिः घटिते वाक्ये प्रधानकर्मपदं नोक्तं चेत्‌, यत्कर्मपदम्‌ उक्तं तस्यैव प्रथमाविभक्तिः | बालकः ग्रामं नयति → बालकेन ग्रामः नीयते |


परिशिष्टम्

---------


गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् |

बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया  |

प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मता ||


  • सिद्धान्तकौमुद्याः श्लोकेनानेन द्विकर्मकस्थले कस्मिन् कर्मणि प्रथमाविभक्तिः भवति इति सुचना प्राप्यते |


  • गौणे कर्मणि दुह्यादेः” इत्यस्मात् दुह्यादीनां कर्मणिप्रयोगे गौणे कर्मणि प्रथमाविभक्तिः स्यात् इति निर्देशः |

          कर्तरिप्रयोगः -  पाचकः तण्डुलान् ओदनं पचति | पाचकः तण्डुलैः ओदनं पचति |

          कर्मणिप्रयोगः - पाचकेन तण्डुलाः ओदनं पच्यन्ते |


  • प्रधाने नीहृकृष्वहाम्” इत्यस्मात् नीहृकृष्वहां कर्मणिप्रयोगे प्रधाने कर्मणि प्रथमाविभक्तिः स्यात् इति निर्देशः |

         कर्तरिप्रयोगः -  सेवकः प्रकोष्ठं भारं वहति | सेवकः प्रकोष्ठे* भारं वहति | (प्रकोष्ठाय अपि समीचीनम्‌ |)

         कर्मणिप्रयोगः - सेवकेन प्रकोष्ठं भारः उह्यते |


  • बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया” इत्यस्मात् बुद्ध्यर्थकानां, भक्ष्यर्थकाणां, शब्दकर्मकाणां णिजन्तावस्थायां निजेच्छया नाम वक्तुः इच्छया कर्मणिप्रयोगे गौणे कर्मणि अथवा प्रधाने कर्मणि प्रथमाविभक्तिः स्यात् इति निर्देशः |

        कर्तरिप्रयोगः -  शिक्षकः छात्रं विषयं बोधयति | “छात्रम्” इति गौणकर्मपदम् | “विषयम्” इति प्रधानकर्मपदम् |

        कर्मणिप्रयोगः - शिक्षकेण छात्रः विषयं बोध्यते | शिक्षकेण छात्रं विषयः बोध्यते |


  • प्रयोज्यकर्मण्यन्येषां ण्यन्तानां” इत्यस्मात् अन्येषां णिजन्तधातूनां प्रयोगे यत्र कर्मद्वयं युज्यते तत्र प्रयोज्यकर्मणि प्रथमाविभक्तिः भवति | अणौ—अणिजन्तस्थले—यः कर्ता अस्ति, सः प्रयोज्यकर्ता भवति णिजन्तस्थले | णिजन्तावस्थायां प्रयोज्यकर्ता कर्मत्वेन परिवर्तनं प्राप्य प्रयोज्यकर्म भवति |

       कर्तरिप्रयोगः -  पुत्रः विद्यालयं गच्छति → पिता पुत्रं विद्यालयं गमयति | “पुत्रः” प्रयोज्यकर्ता | कर्मत्वेन परिवर्तितं, “पुत्रम्” इति प्रयोज्यकर्म |

       कर्मणिप्रयोगः - पित्रा पुत्रः विद्यालयं गम्यते |