12---vyAvahArikii-shikShikA/gamayatigamayati: Difference between revisions

From Samskrita Vyakaranam
< 12 - व्यावहारिकी शिक्षिका12---vyAvahArikii-shikShikA/gamayatigamayati
Jump to navigation Jump to search
No edit summary
No edit summary
Line 7: Line 7:
   
 
<big>"पिता पुत्रं शालां गमयति" उत "पिता पुत्रं शालां गामयति” ? कः प्रयोगः साधुः ?</big>
 
<big>"पिता पुत्रं शालां गमयति" उत "पिता पुत्रं शालां गामयति” ? कः प्रयोगः साधुः ?</big>
  +
  +
   
 
<big>पठ्‌-धातुः इव पठ्‌ -> पाठयति (वद्‌ -> वादयति, पच्‌ -> पाचयति) इति गामयति यदि स्यात्‌ किमर्थम्‌ ? तथा यदि न स्यात्‌ किमर्थम्‌ ?</big>
 
<big>पठ्‌-धातुः इव पठ्‌ -> पाठयति (वद्‌ -> वादयति, पच्‌ -> पाचयति) इति गामयति यदि स्यात्‌ किमर्थम्‌ ? तथा यदि न स्यात्‌ किमर्थम्‌ ?</big>
  +
   
   

Revision as of 14:11, 29 June 2021

विषयः— गमयति, गामयति


प्रश्नः

"पिता पुत्रं शालां गमयति" उत "पिता पुत्रं शालां गामयति” ? कः प्रयोगः साधुः ?


पठ्‌-धातुः इव पठ्‌ -> पाठयति (वद्‌ -> वादयति, पच्‌ -> पाचयति) इति गामयति यदि स्यात्‌ किमर्थम्‌ ? तथा यदि न स्यात्‌ किमर्थम्‌ ?



उत्तरम्

"पिता पुत्रं शालां गमयति" इत्येव साधुः प्रयोगः |


- गम्-धातोः प्रेरणार्थे णिचि परे गम् + णिच् | इत्संज्ञालोपोत्तरम् गम् + इ इति भवति |

- अत उपधायाः (७.२.११६) इत्यनेन वृद्धिः भवति स्म यथासामान्यं णिजन्तप्रकरणे उपधायाम् अत् अस्ति चेत् |

- तदा गम् + इ -> गामि इति अङ्गम् भवति स्म | किन्तु गम्-धातोः तादृशी व्यवस्था नास्ति |

- जनी-जॄष्-क्नसु-रञ्जोऽमन्ताच्च इत्यनेन गणसूत्रेण अमन्त-धातूनाम् मितादेशः |

- गम्-धातुः अमन्तधातुः | तस्य जनी-जॄष्-क्नसु-रञ्जोऽमन्ताच्च इत्यनेन गणसूत्रेण मित् इति अतिदेशः क्रियते |

- गम्-धातोः मित्वात् मितां ह्रस्वः (६.४.९२) इति सूत्रेण णौ परे गम् धातोः उपधायाम् स्तिथः स्वरः ह्रस्वः | गम् + इ -> गमि इत्येव भवति।

- लट्लकारे प्रथमपुरुषैकवचने शप्-विकरणप्रत्यये विहिते गमि + शप् + तिप् -> गमि + अ + ति -> गमे + अ + ति -> गमय + ति -> गमयति |

- अतः "पिता पुत्रं शालां गमयति" इत्येव साधुः प्रयोगः ।