कुर्वती / कुर्वन्ती

From Samskrita Vyakaranam
< 12 - व्यावहारिकी शिक्षिका12---vyAvahArikii-shikShikA/kurvatikurvanti
Jump to navigation Jump to search

विषयः कुर्वती / कुर्वन्ती


प्रश्नः

"सा कार्यं कुर्वती भाषते |" उत "सा कार्यं कुर्वन्ती भाषते |" कः प्रयोगः साधुः ?


उत्तरम्

"सा कार्यं कुर्वती भाषते |" इत्येव साधुः प्रयोगः |


- डुकृृञ् करणे इति धातोः शतृप्रत्यये परे कृ + शतृ -> कुर्वत् इति प्रातिपदिकं निष्पन्नम् |

- स्त्रीलिङ्गस्य विवक्षायाम् उगितश्च (४.१.६) इति सूत्रेण उगित्‌-प्रातिपदिकेभ्यः ङीप्-प्रत्यये विहिते कुर्वत् + ङीप् |

- उक् इत् यस्य तत् प्रातिपदिकम् उगित् | उक् प्रत्याहारे उ, ऋ, लृ एते वर्णाः अन्तर्भूताः | अतः शतृ प्रत्ययेन निर्मितं प्रातिपदिकम् अपि उगित् |

- अग्रे ङीप्-प्रत्ययस्य ङकार-पकारयोः इत्संज्ञा लोपानन्तरं कुर्वत् + ई -> कुर्वती |

- सम्प्रति आच्छीनद्योर्नुम् (७.१.८०) इति सूत्रेण नुमागमं कृत्वा "कुर्वन्ती" इति रूपं साधयन्ति जनाः सामान्यतया परन्तु नुमागमः न कार्यः अस्मिन् प्रसङ्गे |

- यतोहि अवर्णान्तानाम् एव नुमागमो भवति | शतृप्रत्यययोजनात् पूर्वं ये अवर्णान्ता: (अ, आ) भवन्ति तेषामेव नुमागमः आच्छीनद्योर्नुम् (७.१.८०) सूत्रेण |

 यथा - तुद + शतृ , वद + शतृ  इत्यादीनि | अकारान्तानाम्‌ अङ्गे एव नुमागमः कार्यः |

- अत्र शतृप्रत्ययस्य योजनात् पूर्वं 'तुद' व 'वद' अकारान्तमस्तीति कारणेन ङीप्-प्रत्यये परे नुमागमः भवति आच्छीनद्योर्नुम् (७.१.८०) इति सूत्रेण |

- कृ-धातुः तु तनादिगणीयः | 'उ' विकरणप्रत्ययः अस्य गणस्य | कृ + शतृ -> कृ +उ + शतृ -> कुरु + शतृ इति कार्यम् | शतृ-प्रत्ययात् पूर्वं 'कुरु' इति उकारान्तम् अङ्गम् भवति |

- तस्मात् कृ-धातोः ङीप्-प्रत्यये परे नुमागो न भवति | अतः कुर्वती इत्येव तस्य शत्रन्तस्त्रीलिङ्गरूपं न तु कुर्वन्ती इति | शत्रन्तपदनिर्माणे नुमागम-व्यवस्था एवं भवति


शत्रन्तपदनिर्माणे नुमागम-व्यवस्था एवं भवति

- शप्-विकरणप्रत्ययः येषां धातूनां (भ्वादिगणे, चुरादिगणे च) भवति तेषां नित्यः नुमागमः शप्-श्यनोर्नित्यम् (७.१.८१) इति सूत्रेण स्त्रीत्वस्य विवक्षायाम् |

   यथा - भवन्ती, गच्छन्ती, पिबन्ती, चोरयन्ती इत्यादीनि.

- श्यन्-विकरणप्रत्ययः येषां धातूनां (दिवादिगणे) भवति तेषां नित्यः नुमागमः शप्-श्यनोर्नित्यम् (७.१.८१) इति सूत्रेण स्त्रीत्वस्य विवक्षायाम् |

 यथा - दीव्यन्ती, सीव्यन्ती,ष्ठीव्यन्ती इत्यादीनि |

- अन्येषामवर्णान्तानाम् अङ्गानां ङीप्-प्रत्यये परे नुमागमः विकल्पः भवति आच्छीनद्योर्नुम् (७.१.८०) इति सूत्रेण |

   ते च तुदादीयाः अदादीयाः (१४ आकारान्तः धातवः अदादिगणे) च अकारान्ताः धातवः | तेषां वैकल्पिकः नुमागमः | यथा - तुदती/तुदन्ती (तुदादिगणे), याती/यान्ती (अदादिगणे) इत्यादीनि |