13 - अजन्तधातूनाम्‌ इड्व्यवस्था

From Samskrita Vyakaranam
< 07 - आर्धधातुकप्रकरणम्‌7---ArdhadhAtukaprakaraNam/13---ajantadhAtUnAm-iDvyavasthA /
Revision as of 02:53, 25 May 2022 by Swarup (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
ध्वनिमुद्रणानि -
2022 वर्गः
१) iD-vyavasthA---paricayaH-3(dhAtoH-iD-anukUlatA)_+_ajantadhAtUnAm-iDvyavasthA_2022-05-10
२) iD-vyavasthA---ajantadhAtUnAm-iDvyavasthA---abhyAsaH--panca-rUpANi_2022-05-17
३) iD-vyavasthA---ajantadhAtUnAm-iDvyavasthA---abhyAsaH--panca-rUpANi_+_halantadhAtUnAm-iDvyavasthA_2022-05-24
2019 वर्गः
१) iD-vyavasthA---paricayaH-2_+_ajantadhAtUnAm-iDvyavasthA_2019-07-07
२) ajantadhAtUnAm-iDvyavasthA_+_halantadhAtUnAm-iDvyavasthA_2019-07-14
३) ajantadhAtUnAM-ca-halantadhAtUnAm-iDvyavasthA---abhyAsaH_2019-07-28
४) ajantadhAtUnAM-ca-halantadhAtUnAm-iDvyavasthA---abhyAsaH-2_2019-08-04


सेट्‌-अजन्तधातवः


अजन्तधातवः आधिक्येन अनिटः अतः ये सेटः, तेषां ज्ञानेन अजन्तधातूनाम्‌ इड्व्यवस्था सौकर्येण ज्ञेया | केवलं १४ अजन्तधातवः कण्ठस्थीकरणीयाः; अनेन सर्वेषाम्‌ अजन्तधातूनाम्‌ इड्व्यवस्था मनसि सिद्धा | एषु द्वादश धातवः स्वयं सेटः (श्रि, श्वि, शी, डी, यु, रु, नु, स्नु, क्षु, क्ष्णु, वृञ्‌, वृङ्‌), तदा द्वौ धातू यौ ने केवलं स्वयं सेटौ अपि तु वर्गप्रतिनिधी (भू-धातुः सर्वेषाम्‌ ऊकारान्तानां प्रतिनिधिः, तॄ-धातुः सर्वेषाम्‌ ॠकारान्तानां प्रतिनिधिः) |


धेयं यत्‌ अधः धातुः दीयते, तेन सह च पञ्च उदाहरणानि दीयन्ते— तास्‌ (लुट्‌), तुमुन्‌, तव्यत्‌, स्य (लृट्‌), स्य (लृङ्‌) | पूर्वतनपाठे अस्माभिः दृष्टं यत्‌ संस्कृतभाषायाम्‌ आहत्य त्रिंशत्‌ वलाद्यार्धधातुक-प्रत्ययाः इडनुकूलाः | ते च लिट्‌-प्रत्ययान्‌ अतिरिच्य वर्गद्वये विभक्ताः— तकारादयः प्रत्ययाः, सकारादयः प्रत्ययाश्च | तकारादीनां प्रक्रियासाम्यं, पुनः सकारादीनां प्रक्रियासाम्यम्‌ | अतः इडागमपाठानन्तरं प्रक्रियां समूहीकृत्यपठिष्यामः | प्रथमतया तकारादिप्रत्ययाः— तास्‌, तृच्‌, तृन्‌, तुमुन्‌, तव्य-तव्यत्, क्त-क्तवतु, क्त्वा | तकारादिप्रत्ययेषु एक एव तिङ्‌-सम्बद्धः सः तास्‌ इति विकरणं लुट्‌-लकारे | तदा अवशिष्टाः यावन्तः तकारादि-इडनुकूलप्रत्ययाः, ते कृत्‌-प्रत्ययाः | अतः क्रमेण लुट्‌-लकाराननतरं तान्‌ क्रमेण पठिष्यामः—तृच्‌, तृन्‌, तुमुन्‌, तव्य-तव्यत्, क्त-क्तवतु, क्त्वा च | यतोहि वारं वारं समानकार्येण नैपुण्यं जायते | तदा सकारादिप्रत्ययसम्बद्धपाठः भविष्यति | स्य, सन्‌, सिच्‌, सीयुट्‌, क्से, से, से‌न्, सिप् च |


अधः प्रत्येकं धातोः कृते त्रीणि प्रमुखतकारादिप्रत्ययान्तरूपाणि, तदा द्वे प्रमुखसकारादिप्रत्ययान्तरूपे | अनेन धातोः इड्व्यवस्था अपि ज्ञास्यते, तत्तत्सम्बद्धरूपाणि अपि ज्ञास्यन्ते | तास्‌-प्रत्ययान्तरूपं प्रथमतया प्रदर्श्यते यतोहि तस्य इडागमप्रसङ्गे अपवादभूतरूपाणि न्यूनातिन्यूनं सन्ति | अपि च अस्य तास्‌-रूपस्य ज्ञानेन तृ‌च्‌, तृन्‌ अपि ज्ञायेते |


१. एकाच्‌-आकारान्तधातवः - सर्वे एकाच्‌-आकारन्ताः धातवः अनिटः सन्ति | यथा —

धातुः तास् (लुट्‌) तुमुन्‌ तव्यत्‌ स्य (लृट्‌) स्य (लृङ्‌)
पा पाता पातुम्‌ पातव्यम्‌ पास्यति अपास्यत्


२. एकाच्‌-इकारान्तधातवः - अत्र श्रि, श्वि इति द्वौ सेटौ |

श्रि श्रयिता श्रयितुम्‌ श्रयितव्यम्‌ श्रयिष्यति / ते अश्रयिष्यत्‌ / अश्रयिष्यत
श्वि श्वयिता श्वयितुम्‌ श्वयितव्यम्‌ श्वयिष्यति अश्वयिष्यत्‌


श्रिञ् सेवायाम् भ्वा उ० (श्रयति/श्रयते), टुओँश्वि गतिवृद्ध्योः भ्वा प० (श्वयति)


एतत्‌ धातुद्वयं विहाय अन्ये सर्वे एकाच्‌-इकारान्तधातवः अनिटः सन्ति | यथा —

जि जेता जेतुम्‌ जेतव्यम्‌ जेष्यति अजेष्यत्‌


३. एकाच्‌-ईकारान्तधातवः - अत्र शीङ्‌, डीङ्‌ इति द्वौ सेटौ |

शी शयिता शयितुम्‌ शयितव्यम्‌ शयिष्यते अशयिष्यत
डी डयिता डयितुम्‌ डयितव्यम्‌ डयिष्यते अडयिष्यत


शीङ् स्वप्ने अ आ० (शेते), डीङ् विहायसा गतौ भ्वा आ० (डयते), डीङ् विहायसा गतौ दि आ० (डीयते)


एतत्‌ धातुद्वयं विहाय अन्ये सर्वे एकाच्‌-ईकारान्तधातवः अनिटः सन्ति | यथा —

नी नेता नेतुम् नेतव्यम्‌ नेष्यति अनेष्यत्‌


४. एकाच्‌-उकारान्तधातवः - अत्र यु, रु, नु, स्नु, क्षु, क्ष्णु इति षड् धातवः सेटः |

यु यविता यवितुम्‌ यवितव्यम्‌ यविष्यति अयविष्यत्‌
रु रविता रवितुम्‌ रवितव्यम्‌ रविष्यति अरविष्यत्‌
नु नविता नवितुम्‌ नवितव्यम्‌ नविष्यति अनविष्यत्‌
स्नु स्नविता स्नवितुम्‌ स्नवितव्यम्‌ स्नविष्यति अस्नविष्यत्‌
क्षु क्षविता क्षवितुम्‌ क्षवितव्यम्‌ क्षविष्यति अक्षविष्यत्‌
क्ष्णु क्ष्णविता क्ष्णवितुम्‌ क्ष्णवितव्यम्‌ क्ष्णविष्यति अक्ष्णविष्यत्‌


यु मिश्रेणेऽमिश्रणे च, अ प० (यौति), रु शब्दे अ प० (रौति). णु स्तुतौ अ पर० (नौति), ष्णु प्रस्रवणे अ प० (स्नौति), टुक्षु शब्दे अ प० (क्षौति), क्ष्णु तेजने अ प० (क्ष्णौति)

एतत्‌ धातुषट्कं विहाय अन्ये सर्वे एकाच्‌-उकारान्तधातवः अनिटः सन्ति | यथा —

हु होता होतुम्‌ होतव्यम्‌ होष्यति अहोष्यत्‌


५. एकाच ऊकारान्तधातवः - सर्वे एकाच्‌-ऊकारन्ताः धातवः सेटः सन्ति | यथा —

भू


भविता भवितुम्‌ भवितव्यम्‌ भविष्यति अभविष्यत्‌


६. एकाच्‌-ऋकारान्तधातवः - अत्र वृङ्‌, वृञ्‌ इति द्वौ सेटौ |

वृङ्‌ वरिता वरितुम् वरितव्यम्‌ वरिष्यते अवरिष्यत
वृञ्‌ वरिता वरितुम्‌ वरितव्यम्‌ वरिष्यति

वरिष्यते

अवरिष्यत्‌

अवरिष्यत


वृङ् सम्भक्तौ क्र्या आ० (वृणीते), वृञ् वरणे स्वा उ० (वृणोति/वृणुते)


एतत्‌ धातुद्वयं विहाय अन्ये सर्वे एकाच्‌-ऋकारान्तधातवः अनिटः सन्ति | यथा —

कृ कर्ता कर्तुम्‌ कर्तव्यम्‌ करिष्यति अकरिष्यत्‌


अत्र विशेषः -

ऋद्धनोः स्ये (७.२.७०) इत्यनेन ऋकारान्ताः धातवः, हन्‌-धातुः च स्यप्रत्यये सेटः भवन्ति |


७. एकाच्‌-ॠकारान्तधातवः - सर्वे एकाच ॠकारन्ताः धातवः सेटः सन्ति | यथा —

तॄ तरिता तरितुम्‌ तरितव्यम्‌ तरिष्यति अतरिष्यत्‌


८. एकाच्‌-एजन्तधातवः - सर्वे एकाच एजन्ताः धातवः अनिटः सन्ति | यथा —

ध्यै ध्याता ध्यातुम्‌ ध्यातव्यम्‌ ध्यास्यति अध्यास्यत्‌


अत्र विशेषः -

एजन्तधातवः शित्‌-भिन्नेषु आर्धधातुकेषु प्रत्ययेषु आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन आकारान्ताः भवन्ति |


भव्याभगिन्या विरचितं कोष्ठकमपि सुन्दरं— तस्मिन्‌ सर्वा सूचिना मिलित्वा प्राप्यते | येषां कृते भव्या-भगिन्याः कोष्ठके अधिकसौकर्यं, तत्‌ कोष्ठकम्‌ अत्र उपयोक्तुं शक्यते--

अजन्तधातूनाम्‌ इड्व्यवस्था---समग्रं चिन्तनम्‌


Swarup – November 2015 (updated July 2019)

१३ - अजन्तधातूनाम्‌ इड्व्यवस्था.pdf (34k)