Bhavatah nAma mama nAma 2020-01-17

उत्तरपदम् अनदन्तं चेत्
अलौकिकविग्रहवाक्यम् -
हरि + ङि + अधि समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण |

अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति |

अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-

यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)  इति सूत्रेण अधि इति अव्ययं समर्थेन हरि इति सुबन्तेन सह समस्यते |

एतेन सूत्रेण अव्ययीभावसमासः विधीयते |

हरि + ङि + अधि समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |
हरि + ङि + अधि इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन |

अतः हरि + ङि + अधि इत्यस्मिन्‌ ङि इत्यस्य लुक्‌ भवति हरि + अधि |

हरि + अधि सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति |

अत्र च 'अधि' इत्यस्य अन्ते सुप्‌  न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति |

उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव |

अव्ययात् परस्य सुप्-प्रत्ययानां च लुक् अभवत् अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण |

अतः अधि इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण |

यद्यपि प्रत्ययस्य लोपः जातः तथापि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव |

हरि + अधि अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमाविभक्त्या यत्  पदं निर्दिश्यते समासविधायकसूत्रे तत् उपसर्जनसंज्ञकं भवति |

अत्र अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-

यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति  समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण |

अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति |

अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति |

अत्र अधि इति अव्ययम् अस्ति, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |

अधिहरि अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | अधिहरि इति शब्दः अव्ययसंज्ञकः भवति |
अधिहरि इदानीं लिङ्गस्य निर्णयः क्रियते | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् |

अतः अधिहरि इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |

अधिहरि ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य हस्वः भवति | अतः अधिहरि इति भवति |
अधिहरि + सु अधिहरि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः ङ्याप्प्रातिपदिकात्‌ ( ४.१.१),

स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ (४.१.२) इत्याभ्यां सूत्राभ्याम् |

अधिहरि + सु अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण अव्ययात् परस्य सु प्रत्ययस्य लोपः भवति |

अव्ययीभावश्च (१.१.४१) इत्यनेन सूत्रेण अधिहरि इति अव्ययम् अस्ति इत्यतः सु प्रत्ययस्य लोपः भवति अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण |

अधिहरि इति समस्तपदं निष्पन्नम् |

अत्र अधिहरि इत्यस्य अदन्तम् अङ्गं नास्ति अतः नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३), तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) च,

अनयोः सूत्रयोः प्रसक्तिः नास्ति | एतस्मिन् विषये अग्रे वक्ष्यते |

वयं सर्वे अधिहरि वसामः | अधिहरि जगतः सृष्टिः भवति |
सर्वासु विभक्तिषु अधिहरि इत्येव रूपं भवति |