परिशिष्टं - प्रतिपदविधाना षष्ठी: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 10:
 
<big>'''१) ज्ञोऽविदर्थस्य करणे''' (२.३.५१) = जानातेः ( अर्थात् ज्ञा धातोः) अज्ञानार्थस्य करणे कारके शेषत्वेन विवक्षिते षष्ठी स्यात् | विद् अर्थः यस्य सः विदर्थः, न विदर्थः अविदर्थः तस्य, अविदर्थस्य | ज्ञः षष्ठ्यन्तम्, अविदर्थस्य षष्ठ्यन्तं, करणे सप्तम्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''ज्ञः अविदर्थस्य करणे शेषे षष्ठी''' '''|'''</big>
 
 
<big>यथा - सर्पिषः ज्ञानम् | अर्थात् करणीभूतं यत्सर्पिः तत्संबन्धिनी प्रवृत्तिः इति अर्थः | सर्पिषः ज्ञानम् इति उदाहरणे ज्ञानम् इति पदम् ज्ञा इति धातुतः निष्पन्नः अस्ति, परन्तु अत्र ज्ञानम् इति अर्थः नास्ति अपि तु प्रवृत्तिः इति अर्थे अस्ति | वस्तुतः सर्पिषा भोजने प्रवृत्तिः इत्यस्मिन् अर्थे सर्पिषा ज्ञानम् इति वाक्यं स्यात् परन्तु वक्त्रा सर्पिषा इति करणत्वेन वक्तुं नेष्यति इत्यतः करणस्य शेषत्वेन विविक्षिते सति, '''ज्ञोऽविदर्थस्य करणे''' (२.३.५१) इति सूत्रेण षष्ठी जायते |</big>
 
 
 
Line 19:
 
<big>यथा - १) मातुः स्मरणम् | अर्थात् कर्मीभूतमातृसंबन्धि स्मरणमित्यर्थः | २) सर्पिषो दयनम् | दयनं नाम रक्षणम् अथवा दानमिति अर्थः | अर्थात् कर्मीभूतसर्पिःसंबन्धि दयनमित्यर्थः | ३) सर्पिषः ईशनम् | ईशनं नाम स्वामित्वम् इत्यर्थः | कर्मीभूतसर्पिःसंबन्धी यथेष्टविनियोगः इत्यर्थः | एतेषु सर्वेषु उदाहरणेषु कर्मणः शेषत्वेन विवक्षायां '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इति सूत्रेण षष्ठी जायते |</big>
 
 
 
 
Line 27 ⟶ 25:
 
<big>यथा - एधोदकस्य उपस्करणम् ( अर्थात् इन्धनं जलस्य शोधकं( purifier) भवति | एधोदकम् इति शब्दस्य द्वेधा विभागः शक्यते | प्रथमः मार्गः अस्ति - एधस् इति शब्दः सकारान्तः नपुंसकलिङ्गे अस्ति, fuel इन्धनम् इत्यर्थः | दकशब्दः उदकवाची, जलम् इति अर्थः | अतः एधस् + उदकम् = एधोदकम् ( fuel and water )इति शब्दः निष्पन्नः भवति |</big>
 
<big>द्वितीयः मार्गः अस्ति - एधः इति शब्दः अकारान्तः पुंलिङ्गे अस्ति, fuel, इन्धनम् इत्येव अर्थः | उदकं तु जलम् इति एव अर्थः अस्ति | एधश्च उदकं चेति द्वन्द्वसमासः | एध + उदकम् = एधोदकम् |</big>
 
 
<big>वस्तुतः एधोदकस्य उपस्करणम् इत्यस्य कर्मीभूत- एधोदकसंबन्धी परिष्करणमित्यर्थः | कृ इति धातोः कर्म अस्ति एधोदकं, कर्मणः अविवक्षायां शेषत्वेन विवक्षायाम् '''कृञः प्रतियत्ने''' ( २.३.५३) इति सूत्रेण षष्ठी विभक्तिः जायते | परन्तु इयं षष्ठी प्रतिपदविधाना षष्ठी इत्यतः समासः न जायते |</big>
Line 34:
 
'''<big>४)</big>''' <big>'''रुजार्थानां भाववचनानामज्वरेः''' ( २.३.५४) = रुजार्थानां धातूनां भाववचनानां भावकर्तृकाणां ज्वरिवर्जितानां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | सूत्रे भाववचनं नाम भावकर्तृकः इत्यर्थः | यदि धातोः अर्थः पीडा इति अस्ति अपि च कर्ता भावप्रत्ययान्तः अस्ति , तर्हि तादृशधातोः यः कर्मकारकः अस्ति, तस्य शेषत्वेन विवक्षायां षष्ठी विभक्तिः जायते ज्वरशब्दं वर्जयित्वा | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''रुजार्थानां भाववचनानाम् अज्वरेः कर्मणि शेषे षष्ठी''' '''|'''</big>
 
 
<big>यथा - चौरस्य रोगस्य रुजा | अर्थात् रोगस्य द्वारा चौरस्य पीडा | रुजा इत्यस्य अर्थः पीडा इति | पीडायाः कर्ता अस्ति रोगः | रोगः इति शब्दः रुज् इति धातुतः भावार्थे घञ्प्रत्ययं योजयित्वा निष्पन्नः , अतः रुजा इति शब्दः भावकर्तृकः | अर्थात् भावः कर्ता यस्य सः भावकर्तृकः |</big>
Line 39 ⟶ 40:
 
<big>भावकर्तृकः रुजार्थकधातोः प्रयोगे तस्य कर्म अस्ति चौरः | तादृशः कर्मणः शेषत्वेन विवक्षायां षष्ठी भवति '''रुजार्थानां भाववचनानामज्वरेः''' ( २.३.५४) इति सूत्रेण | रुज्धातोः कर्ता अस्ति रोगः, तस्य '''कर्तृकर्मणोः कृतिः''' ( २.३.६५) इति सूत्रेण षष्ठी जाता | रोगस्य चौरस्य रुजा इत्यस्य अर्थः अस्ति रोगकर्तृकः कर्मीभूतचौरगता सन्तापादिपीडा इत्यर्थः | अर्थात् रोगस्य द्वारा चौरस्य पीडा इत्यर्थः |</big>
 
 
 
Line 45:
 
<big>५)</big> <big>'''आशिषि नाथः''' (२.३.५५) = आशीः इत्यर्थस्य नाथ् इति धातोः कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | इयं प्रतिपदविधानां षष्ठी इत्यतः '''षष्ठी''' ( २.२.८) इति सूत्रेण समासः न भवति | अशिषि सप्तम्यन्तं, नाथः, षष्ठ्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''आशिषि नाथः कर्मणि शेषे षष्ठी''' '''|'''</big>
 
 
<big>५)</big> <big>'''आशिषि नाथः''' (२.३.५५) = आशीः इत्यर्थस्य नाथ् इति धातोः कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | इयं प्रतिपदविधानां षष्ठी इत्यतः '''षष्ठी''' ( २.२.८) इति सूत्रेण समासः न भवति | अशिषि सप्तम्यन्तं, नाथः, षष्ठ्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''आशिषि नाथः कर्मणि शेषे षष्ठी''' '''|'''</big>
 
<big>यथा सर्पिषो नाथनम् | इदं मे भूयाद् इति इच्छा एव आशीः | वस्तुतः कर्मीभूतसर्पिः सम्बन्धि आशासनमित्यर्थः |</big>
 
 
 
Line 57 ⟶ 55:
 
<big>यथा -</big>
 
 
<big>अ) ण्यन्तः जासिधातुः -</big> <big>चौरस्य उज्जासनम् |</big>
 
 
<big>आ) नि,प्र, च उपसर्गपूर्वकः हन्-धातुः = निप्रौ संहतौ विपर्यस्तौ व्यस्तौ वा | एतेषाम् उपसर्गाणां क्रमः नास्ति, यः कोपि पूर्वं भवितुम् अर्हति अपि च यः कोपि व्यस्तः अपि भवितुम् अर्हति | चौरस्य निप्रहणनम् | प्रणिहननम् | निहननम् | प्रहणनं वा |</big>
 
 
<big>इ) चुरादिगणीयः ण्यन्तः धातुः नाटि = नट अवस्कन्दने चुरादिः | चौरस्योन्नाटनम् |</big>
 
 
<big>ई)</big> <big>चुरादिगणीयः ण्यन्तः धातुः क्राथि =</big> <big>चौरस्य क्राथनम् |</big>
 
<big>उ) पिष् - धातुः = वृषलस्य पेषणम् |</big>
 
 
<big>एतेषु सर्वेषु उदाहरणेषु प्रतिपदविधाना षष्ठी इत्यतः समासः न जायते |</big> <big>'''जासिनिप्रहणनाटक्राथपिषां हिंसायाम्''' ( २.३.५६) इति सूत्रे हिंसायाम् इति उक्तत्वात् यत्र हिंसा नास्ति तत्र तु समासः भवति एव | यथा धानानां पेषणम् इत्यत्र तु हिंसा नास्ति अतः धानापेषणम् इति समासः भवति एव |</big>
 
 
 
<big>'''७)'''</big> <big>'''व्यवहृपणोः समर्थयोः''' ( २.३.५७) = व्यवहृ, पण, इत्येतयोः समर्थयोः समानार्थयोः कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | व्यवहृ, पण, इत्यनयोः धात्वोः द्यूते क्रयविक्रयव्यवहारे च तुल्यार्थता | विश्च अवश्च तयोरितरेतरयोगद्वन्द्वः व्यवौ तौ पूर्वौ यस्य सः व्यवहा, व्यवहा च पण् च तयोरितरेतरयोगद्वन्द्वः व्यवहृपणौ, तयोः , व्यवहृपणोः | समोऽर्थः ययोः तौ समर्थौ तयोः समर्थयोः | व्यवहृपणोः षष्ठीद्विवचनान्तं, समर्थयोः षष्ठ्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''व्यवहृपणोः समर्थयोः कर्मणि शेषे षष्ठी''' '''|'''</big>
 
 
 
 
<big>यथा - शतस्य व्यवहरणं पणनं वा | अर्थात् शतं क्रयविक्रयरूपेण विनियुङ्क्ते, दीव्यति वेत्यर्थः।</big>
 
 
<big>सहस्रस्य व्यवहरणम् =अर्थात् सहस्रं क्रयविक्रयरूपेण विनियुङ्क्ते, दीव्यति वेत्यर्थः।</big>
 
 
<big>एवमेव शतस्य पणनं, सहस्रस्य पणनम् | एतेषु उदाहरणेषु प्रतिपदविधाना षष्ठी इत्यतः समासः न जायते |</big>
 
 
 
<big>'''व्यवहृपणोः समर्थयोः''' ( २.३.५७) इति सूत्रे समर्थयोः इति उक्तत्वात् यत्र क्रयविक्रयव्यवहार्थः नास्ति तत्र समासनिषेधः नास्ति यथा शलाकानां व्यवहारः = शलाकाव्यवहारः ( counting of pencils) , ब्राह्मणस्य पणनम् = ब्राह्मणपणनम् ( ब्राह्मणस्य स्तुतिः) | अनयोः उदाहरणयोः क्रयविक्रयव्यवहार्थः नास्ति अतः कृद्योगे षष्ठी भूत्वा समासः अपि जातः |</big>
 
 
 
<big>'''८)'''</big> <big>'''कृत्वोऽर्थप्रयोगे कालेऽधिकरणे''' ( २.३.६४) = कृत्वोऽर्थानां प्रयोगे कालेऽधिकरणे शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | कृत्वसुच्-प्रत्ययस्य अर्थः इव अर्थः येषां ते कृत्वोऽर्थाः तेषां प्रयोगः कृत्वोऽर्थप्रयोगः तस्मिन् कृत्वोऽर्थप्रयोगे, बहुव्रीहिगर्भतत्पुरुषः | कृत्वोऽर्थप्रयोगे सप्तम्यन्तं, काले सप्तम्यन्तम्, अधिकरणे सप्तम्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''कृत्वोऽर्थप्रयोगे कालेऽधिकरणे''' '''शेषे षष्ठी''' '''|'''</big>
 
 
 
Line 97:
 
<big>एवमेव द्विः अह्नः भोजनम् | अर्थात् द्विवारं दिने भोजनम् |</big>
 
 
<big><br />'''कृत्वसुच् इति प्रत्ययसम्बद्धसूत्राणि अत्र उक्तानि सन्ति''' -</big>
Line 102 ⟶ 103:
 
<big>'''संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्''' ( ५.४. १७) = सङ्ख्यावाचकशब्दात् कृत्वसुच् इति प्रत्ययः भवति</big> <big>क्रियायाः पौनःपुन्यस्य गणनार्थम्।</big> <big>कृत्वसुच् इति प्रत्यये चकारस्य इत्संज्ञा भूत्वा लोपः भवति | सकारोत्तरवर्ती उकारः उच्चारणार्थः | कृत्वस् इति अवशिष्यते |</big>
 
 
<big>पञ्चवारान् = पञ्चन् + कृत्वसुच् → पञ्चकृत्वः । रामः पञ्चकृत्वः भुङ्क्ते' इति उदाहरणम् |</big>
Line 107 ⟶ 109:
 
<big>'''द्वित्रिचतुर्भ्यः सुच्''' ( ५.४.१८) = द्वि, त्रि तथा चतुर् इत्येतेभ्यः शब्देभ्यः सुच् इति प्रत्ययः भवति क्रियायाः पौनः पुन्यस्य गणनार्थम् | सुच् इति प्रत्यये चकारस्य इत्संज्ञा, उकारः उच्चारणार्थः | सकारः एव अवशिष्यते |</big>
 
 
<big>द्वि + सुच् = द्विः | द्विवारं भुङ्क्ते इत्यस्मिन् अर्थे द्विः भुङ्क्ते |</big>
 
 
<big>त्रि + सुच् = द्विः | त्रिवारं भुङ्क्ते इत्यस्मिन् अर्थे त्रिः भुङ्क्ते |</big>
 
 
<big>चतुर् + सुच् = चतुः | चतुर्वारं भुङ्क्ते इत्यस्मिन् अर्थे चतुः भुङ्क्ते |</big>
 
 
<big>'''एकस्य सकृच्च''' ( ५.४.१९) =</big> <big>एक इति शब्दात् सुच् इति प्रत्ययः भवति, तथा च एक इति शब्दस्य स्थाने सकृत् इति आदेशः अपि भवति क्रियायाः गणने कर्तव्ये | सुच् इति प्रत्यये चकारस्य इत्संज्ञा, उकारः उच्चारणार्थः | सकारः एव अवशिष्यते |</big>
 
 
<big>एक + सुच् = सकृत् + स् = सकृत् |</big>
 
 
<big>एकवारं भुङ्क्ते इत्यस्मिन् अर्थे सकृत् भुङ्क्ते इत्युच्यते |</big>
 
 
<big>'''विभाषा बहोर्धाविप्रकृष्टकाले''' ( ५.४.२०) = बहुशब्दात् क्रियाभ्यावृतिगणने वर्तमानात् विभाषा धा प्रत्ययो भवति | कृत्वसुचोऽपवादः इदं सूत्रम् | पक्षे कृत्वसुच् इति प्रत्ययः अपि विधीयते | अविप्रकृष्टग्रहणं क्रियाभ्यावृत्तिविशेषणम् | कस्मिंश्चित् अविप्रकृष्टे काले क्रियायाः पौनःपुन्यम् दर्शयितुम् 'बहु' शब्दात् विकल्पेन धा इति प्रत्ययः भवति | पक्षे कृत्वसुच् इति प्रत्ययः अपि विधीयते | क्रियाणाम् उत्पत्तयः चेत् आसन्नकालाः भवन्ति, न विप्रकृष्टकालाः | अविप्रकृष्टकालः = when the recurring of the action takes place within a short time |</big>
 
 
<big>उदा - बहुधा दिवसस्य भुङ्क्ते |</big>
 
 
<big>अथवा बहुकृत्वः दिवसस्य भुङ्क्ते |</big>
 
 
<big>इति एवं रीत्या कृत्वसुच् इति अधिकारे कतिचन सूत्राणि सन्ति | '''कृत्वोऽर्थप्रयोगे कालेऽधिकरणे''' ( २.३.६४) इति सूत्रे कृत्वसुच् इत्यस्मिन् अर्थे ये ये प्रत्ययाः उक्ताः तेषां सर्वेषाम् अपि ग्रहणं भवति |</big>
page_and_link_managers, Administrators
5,089

edits