परिशिष्टं - प्रतिपदविधाना षष्ठी: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 9:
 
 
<big>'''१) ज्ञोऽविदर्थस्य करणे''' (२.३.५१) = जानातेः ( अर्थात् ज्ञा धातोः) अज्ञानार्थस्य करणे कारके शेषत्वेन विवक्षिते षष्ठी स्यात् | विद् अर्थः यस्य सः विदर्थः, न विदर्थः अविदर्थः तस्य, अविदर्थस्य | ज्ञः षष्ठ्यन्तम्, अविदर्थस्य षष्ठ्यन्तं, करणे सप्तम्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''ज्ञः अविदर्थस्य करणे शेषे षष्ठी''' '''|'''</big>
 
 
<big>यथा - सर्पिषः ज्ञानम् | अर्थात् करणीभूतं यत्सर्पिः तत्संबन्धिनी प्रवृत्तिः इति अर्थः | सर्पिषः ज्ञानम् इति उदाहरणे ज्ञानम् इति पदम् ज्ञा इति धातुतः निष्पन्नः अस्ति, परन्तु अत्र ज्ञानम् इति अर्थः नास्ति अपि तु प्रवृत्तिः इति अर्थे अस्ति | वस्तुतः सर्पिषा भोजने प्रवृत्तिः इत्यस्मिन् अर्थे सर्पिषा ज्ञानम् इति वाक्यं स्यात् परन्तु वक्त्रा सर्पिषा इति करणत्वेन वक्तुं नेष्यति इत्यतः करणस्य शेषत्वेन विविक्षिते सति, '''ज्ञोऽविदर्थस्य करणे''' (२.३.५१) इति सूत्रेण षष्ठी जायते |</big>
 
 
Line 19 ⟶ 20:
 
<big>यथा - १) मातुः स्मरणम् | अर्थात् कर्मीभूतमातृसंबन्धि स्मरणमित्यर्थः | २) सर्पिषो दयनम् | दयनं नाम रक्षणम् अथवा दानमिति अर्थः | अर्थात् कर्मीभूतसर्पिःसंबन्धि दयनमित्यर्थः | ३) सर्पिषः ईशनम् | ईशनं नाम स्वामित्वम् इत्यर्थः | कर्मीभूतसर्पिःसंबन्धी यथेष्टविनियोगः इत्यर्थः | एतेषु सर्वेषु उदाहरणेषु कर्मणः शेषत्वेन विवक्षायां '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इति सूत्रेण षष्ठी जायते |</big>
 
 
 
Line 25 ⟶ 27:
 
<big>यथा - एधोदकस्य उपस्करणम् ( अर्थात् इन्धनं जलस्य शोधकं( purifier) भवति | एधोदकम् इति शब्दस्य द्वेधा विभागः शक्यते | प्रथमः मार्गः अस्ति - एधस् इति शब्दः सकारान्तः नपुंसकलिङ्गे अस्ति, fuel इन्धनम् इत्यर्थः | दकशब्दः उदकवाची, जलम् इति अर्थः | अतः एधस् + उदकम् = एधोदकम् ( fuel and water )इति शब्दः निष्पन्नः भवति |</big>
 
Line 31 ⟶ 34:
 
<big>वस्तुतः एधोदकस्य उपस्करणम् इत्यस्य कर्मीभूत- एधोदकसंबन्धी परिष्करणमित्यर्थः | कृ इति धातोः कर्म अस्ति एधोदकं, कर्मणः अविवक्षायां शेषत्वेन विवक्षायाम् '''कृञः प्रतियत्ने''' ( २.३.५३) इति सूत्रेण षष्ठी विभक्तिः जायते | परन्तु इयं षष्ठी प्रतिपदविधाना षष्ठी इत्यतः समासः न जायते |</big>
 
 
 
page_and_link_managers, Administrators
5,089

edits