परिशिष्टं - प्रतिपदविधाना षष्ठी: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 14:
 
<big>'''२) अधीगर्थदयेशां कर्मणि''' ( २.३.५२) = अधीगर्थाः धातवः स्मरणार्थकाः, दय दानगतिरक्षणेषु, ईश ऐश्वर्ये, इत्येतेषां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | इक् समरणे इति धातुः सर्वदा अधिपूर्वकः अस्ति इति कृत्वा सूत्रे अधीग् इति उक्तम् अस्ति | अधीग् अर्थः येषां ते अधीगर्थाः, अथवा अधीगः अर्थः इव अर्थः येषां ते अधीगर्थाः | अधीगर्थाश्च दयश्च ईश् च तेषामितरेतरयोगद्वन्द्वः अधीगर्थदयेशः तेषाम् अधीगर्थदयेशां, बहुव्रीहिगर्भद्वन्द्वः | अधीगर्थदयेशां षष्ठ्यन्तं, कर्मणि सप्तम्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं—सूत्रं — '''अधीगर्थदयेशां''' '''कर्मणि शेषे षष्ठी''' '''|'''</big>
 
 
Line 20:
 
 
<big>'''३) कृञः प्रतियत्ने''' ( २.३.५३) = कृञः धातोः कर्मणि शेषे षष्ठी स्यात् गुणाधाने | सतः गुणान्तराधानं प्रतियत्नः | प्रतियत्नः नाम गुणाधानम्, अर्थात् नूतनगुणस्य उत्पादनम् | कृञः षष्ठ्यन्तं, प्रतियत्ने सप्तम्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं—सूत्रं — '''कृञः प्रतियत्ने कर्मणि''' '''शेषे षष्ठी |'''</big>
 
 
Line 32:
 
 
'''<big>४)</big>''' <big>'''रुजार्थानां भाववचनानामज्वरेः''' ( २.३.५४) = रुजार्थानां धातूनां भाववचनानां भावकर्तृकाणां ज्वरिवर्जितानां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | सूत्रे भाववचनं नाम भावकर्तृकः इत्यर्थः | यदि धातोः अर्थः पीडा इति अस्ति अपि च कर्ता भावप्रत्ययान्तः अस्ति , तर्हि तादृशधातोः यत् कर्मकारकम् अस्ति, तस्य शेषत्वेन विवक्षायां षष्ठी विभक्तिः जायते ज्वर् -धातुं वर्जयित्वा | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं—सूत्रं — '''रुजार्थानां भाववचनानाम् अज्वरेः कर्मणि शेषे षष्ठी''' '''|'''</big>
 
 
page_and_link_managers, Administrators
5,088

edits