परिशिष्टं - प्रतिपदविधाना षष्ठी

Revision as of 01:04, 14 May 2022 by Vidhya (talk | contribs)

प्रतिपदविधाना षष्ठी


कैश्चित् सूत्रैः प्रतिपदम् उच्चार्य या षष्ठीविभक्तिः विधीयते सा प्रतिपदविधाना षष्ठी इत्युच्यते | अष्टाध्याय्यां ज्ञोऽविदर्थस्य करणे ( २.३.५१) इत्यस्मात् सूत्रात् आरभ्य व्यवहृपणोः समर्थयोः ( २.३.५७) इति सूत्रपर्यन्तम्, अपि च कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ( २.३.६४) इत्येतैः सूत्रैः या षष्ठीविभक्तिः विहिता भवति सा प्रतिपदविधाना षष्ठी इत्युच्यते यतोहि सूत्रे एव उच्यते कैः पदैः सह षष्ठी विधीयते इति | कृद्योगे या षष्ठीतत्पुरुषसमासः भवितुम् अर्हति, तं निषेधयितुमेव एतानि अष्टसूत्राणि कृतानि, न तु षष्ठीविभक्तेः विधानार्थम् | अतः एतानि अष्टसूत्राणि समासनिषेधार्थं कृतानि न तु षष्ठीविभक्तेः विधानार्थम् |


यद्यपि शेषत्वेन विवक्षा अस्ति चेत् षष्ठी शेषे ( २.३.५०) इत्यनेनैव सूत्रेण षष्ठी सम्भवति तथापि प्रतिपदविधाना षष्ठी न समस्यते इति वार्तिकस्य अनुरोधेन षष्ठ्यन्तेन सह समासस्य निषेधार्थमेव प्रतिपदविधाना षष्ठी इत्यस्य विधानं क्रियते | अतः एतैः सूत्रैः या षष्ठी उच्यते तैः सह समासः न सम्भवति |


१) ज्ञोऽविदर्थस्य करणे (२.३.५१) = जानातेः ( अर्थात् ज्ञा धातोः) अज्ञानार्थस्य करणे कारके शेषत्वेन विवक्षिते षष्ठी स्यात् | विद् अर्थः यस्य सः विदर्थः, न विदर्थः अविदर्थः तस्य, अविदर्थस्य | ज्ञः षष्ठ्यन्तम्, अविदर्थस्य षष्ठ्यन्तं, करणे सप्तम्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— ज्ञः अविदर्थस्य करणे शेषे षष्ठी |

यथा - सर्पिषः ज्ञानम् | अर्थात् करणीभूतं यत्सर्पिः तत्संबन्धिनी प्रवृत्तिः इति अर्थः |


२) अधीगर्थदयेशां कर्मणि ( २.३.५२) = अधीगर्थाः स्मरणर्थाः, दय दानगतिरक्षनेषु, ईश एश्वर्ये, एतेषां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | इक् समरणे इति धातुः सर्वदा अधिपूर्वकः अस्ति इति कृत्वा सूत्रे अधीक् इति उक्तम् अस्ति | अधीग् अर्थः येषां ते अधीगर्थाः, अथवा अधीकः अर्थः इव अर्थः येषां ते अधीगर्थाः | अधीगर्थाश्च दयश्च ईश् च तेषामितरेतरयोगद्वन्द्वः अधीगर्थदयेशः तेषाम् अधीगर्थदयेशां, बहुव्रीहिगर्भद्वन्द्वः | अधीगर्थदयेशां षष्ठ्यन्तं, कर्मणि सप्तम्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— अधीगर्थदयेशां कर्मणि शेषे षष्ठी |


यथा - १) मातुः स्मरणम् | अर्थात् कर्मीभूतमातृसंबन्धि स्मरणमित्यर्थः | २) सर्पिषो दयनम् | दयनं नाम रक्षणम् अथवा दानमिति अर्थः | अर्थात् कर्मीभूतसर्पिःसंबन्धि दयनमित्यर्थः | ३) सर्पिषः ईशनम् | ईशनं नाम स्वामित्वम् इत्यर्थः | कर्मीभूतसर्पिःसंबन्धी यथेष्टविनियोगः इत्यर्थः |


३) कृञः प्रतियत्ने ( २.३.५३) = कृञः कर्मणि शेषे षष्ठी स्यात् गुणाधाने | सतः गुणान्तराधानं प्रतियत्नः | कृञः षष्ठ्यन्तं, प्रतियत्ने सप्तम्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अधीगर्थदयेशां कर्मणि ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— कृञः प्रतियत्ने कर्मणि शेषे षष्ठी |


यथा - एधोदकस्य उपस्करणम् | एधश्शब्दः सकारान्तो नपुंसकलिङ्गः | दकशब्द उदकवाची | एधश्च दकं चेति द्वन्द्वः | यद्वा एधशब्दोऽकारान्तः पुंलिङ्गः | एधश्च उदकं चेति द्वन्द्व इत्यनुपदमेवोक्तम् | वस्तुतः कर्मीभूतैधोदकसंबन्धि परिष्करणमित्यर्थः |


४) रुजार्थानां भाववचनानामज्वरेः ( २.३.५४) = रुजार्थानां धातूनां भाववचनानां भावकर्तृकाणां ज्वरिवर्जितानां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अधीगर्थदयेशां कर्मणि ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— रुजार्थानां भाववचनानामज्वरेः कर्मणि शेषे षष्ठी |

यथा चौरस्य रोगस्य रुजा | रोगकर्तृका वस्तुतः कर्मीभूतचौरगता सन्तापादिपीडेत्यर्थः | अस्मिन् सूत्रे अज्वरे इत्युक्तत्वात् रोगस्य चौरज्वरः, रोगस्य चौरसन्तापः इति तु सम्भवति |


५) आशिषि नाथः (२.३.५५) = आशीः इत्यर्थस्य नाथ् इति धातोः कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | अशिषि सप्तम्यन्तं, नाथः, षष्ठ्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अधीगर्थदयेशां कर्मणि ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— आशिषि नाथः कर्मणि शेषे षष्ठी |

यथा सर्पिषो नाथनम् | इदं मे भूयाद् इति इच्छा एव आशीः | वस्तुतः कर्मीभूतसर्पिः सम्बन्धि आशासनमित्यर्थः |


६) जासिनिप्रहणनाटक्राथपिषां हिंसायाम् ( २.३.५६) = जासि निप्रहण नाट क्राथ पिषित्येतेषां धातूनां हिंसाक्रियाणां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | जासिश्च निप्रहणश्च नाटश्च क्राथश्च पिष् च तेषामितरेतरद्वन्द्वः जासिनिप्रहणनाटक्राथपिषस्तेषां, जासिनिप्रहणनाटक्राथपिषाम् | जासिनिप्रहणनाटक्राथपिषाम् इति षष्ठ्यन्तं, हिंसायां सप्तम्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अधीगर्थदयेशां कर्मणि ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— जासिनिप्रहणनाटक्राथपिषां हिंसायां कर्मणि शेषे षष्ठी |


यथा - चौरस्योज्जासनम् |

निप्रौ संहतौ विपर्यस्तौ व्यस्तौ वा | चौरस्य निप्रहणनम् | प्रणिहननम् | निहननम् | प्रहणनं वा |

नट अवस्कन्दने चुरादिः | चौरस्योन्नाटनम् |

चौरस्य क्राथनम् |

वृषलस्य पेषणम् |


७) व्यवहृपणोः समर्थयोः ( २.३.५७) = व्यवहृ, पण, इत्येतयोः समर्थयोः समानार्थयोः कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | व्यवहृ पण इत्यनयोः धात्वोः द्यूते क्रयविक्रयव्यवहारे च तुल्यार्थता | विश्च अवश्च तयोरितरेतरयोगद्वन्द्वः व्यवौ तौ पूर्वौ यस्य सः व्यवहाः, व्यवहाः च पण् च तयोरितरेतरयोगद्वन्द्वः व्यवहृपणौ तयोः , व्यवहृपणोः | समोऽर्थः ययोः तौ समर्थौ तयोः समर्थयोः | व्यवहृपणोः षष्ठीद्विवचनान्तं, समर्थयोः षष्ठ्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अधीगर्थदयेशां कर्मणि ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— व्यवहृपणोः समर्थयोः कर्मणि शेषे षष्ठी |


यथा - शतस्य व्यवहरणं पणनं वा |


८) कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ( २.३.६४) = कृत्वोऽर्थानां प्रयोगे कालेऽधिकरणे शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | कृत्वसुच्-प्रत्ययस्य अर्थः इव अर्थः येषां ते कृत्वोऽर्थाः तेषां प्रयोगः कृत्वोऽर्थप्रयोगः तस्मिन् कृत्वोऽर्थप्रयोगे, बहुव्रीहिगर्भतत्पुरुषः | कृत्वोऽर्थप्रयोगे सप्तम्यन्तं, काले सप्तम्यन्तम्, अधिकरणे सप्तम्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— कृत्वोऽर्थप्रयोगे कालेऽधिकरणे शेषे षष्ठी |


यथा - पञ्चकृत्वः ऽह्नः भोजनम् | द्विः अह्नः भोजनम् |