परिशिष्टं - प्रतिपदविधाना षष्ठी

Revision as of 11:45, 7 October 2022 by Vidhya (talk | contribs)

प्रतिपदविधाना षष्ठी


कैश्चित् सूत्रैः प्रतिपदम् उच्चार्य या षष्ठीविभक्तिः विधीयते सा प्रतिपदविधाना षष्ठी इत्युच्यते | अष्टाध्याय्यां ज्ञोऽविदर्थस्य करणे ( २.३.५१) इत्यस्मात् सूत्रात् आरभ्य व्यवहृपणोः समर्थयोः ( २.३.५७) इति सूत्रपर्यन्तम्, अपि च कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ( २.३.६४) इत्येतैः सूत्रैः या षष्ठीविभक्तिः विहिता भवति सा प्रतिपदविधाना षष्ठी इत्युच्यते यतोहि सूत्रे एव उच्यते कैः पदैः सह षष्ठी विधीयते इति | कृद्योगे या षष्ठीतत्पुरुषसमासः भवितुम् अर्हति, तं निषेधयितुमेव एतानि अष्टसूत्राणि कृतानि, न तु षष्ठीविभक्तेः विधानार्थम् | अतः एतानि अष्टसूत्राणि समासनिषेधार्थं कृतानि न तु षष्ठीविभक्तेः विधानार्थम् |


यद्यपि शेषत्वेन विवक्षा अस्ति चेत् षष्ठी शेषे ( २.३.५०) इत्यनेनैव सूत्रेण षष्ठी सम्भवति तथापि प्रतिपदविधाना षष्ठी न समस्यते इति वार्तिकस्य अनुरोधेन षष्ठ्यन्तेन सह समासस्य निषेधार्थमेव प्रतिपदविधाना षष्ठी इत्यस्य विधानं क्रियते | अतः एतैः सूत्रैः या षष्ठी उच्यते तैः सह समासः न सम्भवति |


१) ज्ञोऽविदर्थस्य करणे (२.३.५१) = जानातेः ( अर्थात् ज्ञा धातोः) अज्ञानार्थस्य करणे कारके शेषत्वेन विवक्षिते षष्ठी स्यात् | विद् अर्थः यस्य सः विदर्थः, न विदर्थः अविदर्थः तस्य, अविदर्थस्य | ज्ञः षष्ठ्यन्तम्, अविदर्थस्य षष्ठ्यन्तं, करणे सप्तम्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— ज्ञः अविदर्थस्य करणे शेषे षष्ठी |

यथा - सर्पिषः ज्ञानम् | अर्थात् करणीभूतं यत्सर्पिः तत्संबन्धिनी प्रवृत्तिः इति अर्थः | सर्पिषः ज्ञानम् इति उदाहरणे ज्ञानम् इति पदम् ज्ञा इति धातुतः निष्पन्नः अस्ति, परन्तु अत्र ज्ञानम् इति अर्थः नास्ति अपि तु प्रवृत्तिः इति अर्थे अस्ति | वस्तुतः सर्पिषा भोजने प्रवृत्तिः इत्यस्मिन् अर्थे सर्पिषा ज्ञानम् इति वाक्यं स्यात् परन्तु वक्त्रा सर्पिषा इति करणत्वेन वक्तुं नेष्यति इत्यतः करणस्य शेषत्वेन विविक्षिते सति, ज्ञोऽविदर्थस्य करणे (२.३.५१) इति सूत्रेण षष्ठी जायते |


२) अधीगर्थदयेशां कर्मणि ( २.३.५२) = अधीगर्थाः स्मरणर्थकाः, दय दानगतिरक्षणेषु, ईश एश्वर्ये, एतेषां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | इक् समरणे इति धातुः सर्वदा अधिपूर्वकः अस्ति इति कृत्वा सूत्रे अधीक् इति उक्तम् अस्ति | अधीग् अर्थः येषां ते अधीगर्थाः, अथवा अधीकः अर्थः इव अर्थः येषां ते अधीगर्थाः | अधीगर्थाश्च दयश्च ईश् च तेषामितरेतरयोगद्वन्द्वः अधीगर्थदयेशः तेषाम् अधीगर्थदयेशां, बहुव्रीहिगर्भद्वन्द्वः | अधीगर्थदयेशां षष्ठ्यन्तं, कर्मणि सप्तम्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— अधीगर्थदयेशां कर्मणि शेषे षष्ठी |


यथा - १) मातुः स्मरणम् | अर्थात् कर्मीभूतमातृसंबन्धि स्मरणमित्यर्थः | २) सर्पिषो दयनम् | दयनं नाम रक्षणम् अथवा दानमिति अर्थः | अर्थात् कर्मीभूतसर्पिःसंबन्धि दयनमित्यर्थः | ३) सर्पिषः ईशनम् | ईशनं नाम स्वामित्वम् इत्यर्थः | कर्मीभूतसर्पिःसंबन्धी यथेष्टविनियोगः इत्यर्थः | एतेषु सर्वेषु उदाहरणेषु कर्मणः शेषत्वेन विवक्षायां अधीगर्थदयेशां कर्मणि ( २.३.५२) इति सूत्रेण षष्ठी जायते |



३) कृञः प्रतियत्ने ( २.३.५३) = कृञः धातोः कर्मणि शेषे षष्ठी स्यात् गुणाधाने | सतः गुणान्तराधानं प्रतियत्नः | प्रतियत्नः नाम गुणाधानम्, अर्थात् नूतनगुणस्य उत्पादनम् | कृञः षष्ठ्यन्तं, प्रतियत्ने सप्तम्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अधीगर्थदयेशां कर्मणि ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— कृञः प्रतियत्ने कर्मणि शेषे षष्ठी |


यथा - एधोदकस्य उपस्करणम् ( अर्थात् इन्धनं जलस्य शोधकं( purifier) भवति | एधोदकम् इति शब्दस्य द्वेधा विभागः शक्यते | प्रथमः मार्गः अस्ति - एधस् इति शब्दः सकारान्तः नपुंसकलिङ्गे अस्ति, fuel इन्धनम् इत्यर्थः | दकशब्दः उदकवाची, जलम् इति अर्थः | अतः एधस् + उदकम् = एधोदकम् ( fuel and water )इति शब्दः निष्पन्नः भवति |

द्वितीयः मार्गः अस्ति - एधः इति शब्दः अकारान्तः पुंलिङ्गे अस्ति, fuel, इन्धनम् इत्येव अर्थः | उदकं तु जलम् इति एव अर्थः अस्ति | एधश्च उदकं चेति द्वन्द्वसमासः | एध + उदकम् = एधोदकम् |

वस्तुतः एधोदकस्य उपस्करणम् इत्यस्य कर्मीभूत- एधोदकसंबन्धी परिष्करणमित्यर्थः | कृ इति धातोः कर्म अस्ति एधोदकं, कर्मणः अविवक्षायां शेषत्वेन विवक्षायाम् कृञः प्रतियत्ने ( २.३.५३) इति सूत्रेण षष्ठी विभक्तिः जायते | परन्तु इयं षष्ठी प्रतिपदविधाना षष्ठी इत्यतः समासः न जायते |


४) रुजार्थानां भाववचनानामज्वरेः ( २.३.५४) = रुजार्थानां धातूनां भाववचनानां भावकर्तृकाणां ज्वरिवर्जितानां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | सूत्रे भाववचनं नाम भावकर्तृकः इत्यर्थः | यदि धातोः अर्थः पीडा इति अस्ति अपि च कर्ता भावप्रत्ययान्तः अस्ति , तर्हि तादृशधातोः यः कर्मकारकः अस्ति, तस्य शेषत्वेन विवक्षायां षष्ठी विभक्तिः जायते ज्वरशब्दं वर्जयित्वा | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अधीगर्थदयेशां कर्मणि ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— रुजार्थानां भाववचनानाम् अज्वरेः कर्मणि शेषे षष्ठी |

यथा - चौरस्य रोगस्य रुजा | अर्थात् रोगस्य द्वारा चौरस्य पीडा | रुजा इत्यस्य अर्थः पीडा इति | पीडायाः कर्ता अस्ति रोगः | रोगः इति शब्दः रुज् इति धातुतः भावार्थे घञ्प्रत्ययं योजयित्वा निष्पन्नः , अतः रुजा इति शब्दः भावकर्तृकः | अर्थात् भावः कर्ता यस्य सः भावकर्तृकः |


भावकर्तृकः रुजार्थकधातोः प्रयोगे तस्य कर्म अस्ति चौरः | तादृशः कर्मणः शेषत्वेन विवक्षायां षष्ठी भवति रुजार्थानां भाववचनानामज्वरेः ( २.३.५४) इति सूत्रेण | रुज्धातोः कर्ता अस्ति रोगः, तस्य कर्तृकर्मणोः कृतिः ( २.३.६५) इति सूत्रेण षष्ठी जाता | रोगस्य चौरस्य रुजा इत्यस्य अर्थः अस्ति रोगकर्तृकः कर्मीभूतचौरगता सन्तापादिपीडा इत्यर्थः | अर्थात् रोगस्य द्वारा चौरस्य पीडा इत्यर्थः |


अज्वरिसन्ताप्योरिति वाच्यम् इति वार्तिकम् - ज्वर्, सन्तापि इति धातुभ्यां भावार्थे कृत्प्रत्ययं योजयित्वा ज्वरः सन्तापः इति द्वौ शब्दौ निष्पन्नौ भवतः | चौरस्य ज्वरः, चौरस्य सन्तापः इति वाक्यं चेत् ज्वरः, तथा सन्तापः इति अनयोः शब्दयोः योगे शेषत्वविवक्षायां षष्ठिविभक्तेः निषेधः क्रियते अनेन वार्तिकेन इत्यतः चौरः इत्यस्य षष्ठीविभक्तिः जायते कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण | अतः अत्र कृद्योगे षष्ठी जाता इत्यतः समासः अपि जायते | अतः चौरस्य ज्वरः = चौरज्वरः, चौरस्य सन्तापः = चौरसन्तापः इति समासौ सिद्धौ भवतः |



५) आशिषि नाथः (२.३.५५) = आशीः इत्यर्थस्य नाथ् इति धातोः कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | इयं प्रतिपदविधानां षष्ठी इत्यतः षष्ठी ( २.२.८) इति सूत्रेण समासः न भवति | अशिषि सप्तम्यन्तं, नाथः, षष्ठ्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अधीगर्थदयेशां कर्मणि ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— आशिषि नाथः कर्मणि शेषे षष्ठी |

यथा सर्पिषो नाथनम् | इदं मे भूयाद् इति इच्छा एव आशीः | वस्तुतः कर्मीभूतसर्पिः सम्बन्धि आशासनमित्यर्थः |


६) जासिनिप्रहणनाटक्राथपिषां हिंसायाम् ( २.३.५६) = ण्यन्तः जासि -धातुः, नि,प्र, च उपसर्गपूर्वकः हन्-धातुः, चुरादिगणीयौ ण्यन्तौ नाटि, क्राथि च धातू , पिष् -धातुः इत्येतेषां धातूनां हिंसाक्रियाणां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | जासिश्च निप्रहणश्च नाटश्च क्राथश्च पिष् च तेषामितरेतरद्वन्द्वः, जासिनिप्रहणनाटक्राथपिषस्तेषां, जासिनिप्रहणनाटक्राथपिषाम् | जासिनिप्रहणनाटक्राथपिषाम् इति षष्ठ्यन्तं, हिंसायां सप्तम्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अधीगर्थदयेशां कर्मणि ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— जासिनिप्रहणनाटक्राथपिषां हिंसायां कर्मणि शेषे षष्ठी |


यथा -

अ) ण्यन्तः जासिधातुः - चौरस्य उज्जासनम् |

आ) नि,प्र, च उपसर्गपूर्वकः हन्-धातुः = निप्रौ संहतौ विपर्यस्तौ व्यस्तौ वा | एतेषाम् उपसर्गाणां क्रमः नास्ति, यः कोपि पूर्वं भवितुम् अर्हति अपि च यः कोपि व्यस्तः अपि भवितुम् अर्हति | चौरस्य निप्रहणनम् | प्रणिहननम् | निहननम् | प्रहणनं वा |

इ) चुरादिगणीयः ण्यन्तः धातुः नाटि = नट अवस्कन्दने चुरादिः | चौरस्योन्नाटनम् |

ई) चुरादिगणीयः ण्यन्तः धातुः क्राथि = चौरस्य क्राथनम् |

उ) पिष् - धातुः = वृषलस्य पेषणम् |

एतेषु सर्वेषु उदाहरणेषु प्रतिपदविधाना षष्ठी इत्यतः समासः न जायते | जासिनिप्रहणनाटक्राथपिषां हिंसायाम् ( २.३.५६) इति सूत्रे हिंसायाम् इति उक्तत्वात् यत्र हिंसा नास्ति तत्र तु समासः भवति एव | यथा धानानां पेषणम् इत्यत्र तु हिंसा नास्ति अतः धानापेषणम् इति समासः भवति एव |

७) व्यवहृपणोः समर्थयोः ( २.३.५७) = व्यवहृ, पण, इत्येतयोः समर्थयोः समानार्थयोः कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | व्यवहृ, पण, इत्यनयोः धात्वोः द्यूते क्रयविक्रयव्यवहारे च तुल्यार्थता | विश्च अवश्च तयोरितरेतरयोगद्वन्द्वः व्यवौ तौ पूर्वौ यस्य सः व्यवहा, व्यवहा च पण् च तयोरितरेतरयोगद्वन्द्वः व्यवहृपणौ, तयोः , व्यवहृपणोः | समोऽर्थः ययोः तौ समर्थौ तयोः समर्थयोः | व्यवहृपणोः षष्ठीद्विवचनान्तं, समर्थयोः षष्ठ्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अधीगर्थदयेशां कर्मणि ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— व्यवहृपणोः समर्थयोः कर्मणि शेषे षष्ठी |



यथा - शतस्य व्यवहरणं पणनं वा | अर्थात् शतं क्रयविक्रयरूपेण विनियुङ्क्ते, दीव्यति वेत्यर्थः।

सहस्रस्य व्यवहरणम् =अर्थात् सहस्रं क्रयविक्रयरूपेण विनियुङ्क्ते, दीव्यति वेत्यर्थः।

एवमेव शतस्य पणनं, सहस्रस्य पणनम् | एतेषु उदाहरणेषु प्रतिपदविधाना षष्ठी इत्यतः समासः न जायते |

व्यवहृपणोः समर्थयोः ( २.३.५७) इति सूत्रे समर्थयोः इति उक्तत्वात् यत्र क्रयविक्रयव्यवहार्थः नास्ति तत्र समासनिषेधः नास्ति यथा शलाकानां व्यवहारः = शलाकाव्यवहारः ( counting of pencils) , ब्राह्मणस्य पणनम् = ब्राह्मणपणनम् ( ब्राह्मणस्य स्तुतिः) | अनयोः उदाहरणयोः क्रयविक्रयव्यवहार्थः नास्ति अतः कृद्योगे षष्ठी भूत्वा समासः अपि जातः |

८) कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ( २.३.६४) = कृत्वोऽर्थानां प्रयोगे कालेऽधिकरणे शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | कृत्वसुच्-प्रत्ययस्य अर्थः इव अर्थः येषां ते कृत्वोऽर्थाः तेषां प्रयोगः कृत्वोऽर्थप्रयोगः तस्मिन् कृत्वोऽर्थप्रयोगे, बहुव्रीहिगर्भतत्पुरुषः | कृत्वोऽर्थप्रयोगे सप्तम्यन्तं, काले सप्तम्यन्तम्, अधिकरणे सप्तम्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— कृत्वोऽर्थप्रयोगे कालेऽधिकरणे शेषे षष्ठी |


यथा - पञ्चकृत्वः अह्नः भोजनम् | अर्थात् पञ्चवारं दिने भोजनम् |

द्विः अह्नः भोजनम् | अर्थात् द्विवारं दिने भोजनम् |


अत्र प्रतिपदविधाना षष्ठी इत्यतः समासः न भवति |


संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् ( ५.४. १७) = सङ्ख्यावाचकशब्दात् 'कृत्वसुच्' प्रत्ययः भवति क्रियायाः पौनःपुन्यस्य गणनार्थम्। कृत्वसुच्' प्रत्यये चकारस्य इत्संज्ञा भूत्वा, तस्य लोपः भवति | सकारोत्तरवर्ती उकारः उच्चारणार्थः अस्ति | 'कृत्वस्' इति अवशिष्यते |

पञ्चवारान् = पञ्चन् + कृत्वसुच् → पञ्चकृत्वः । रामः पञ्चकृत्वः भुङ्क्ते' इति उदाहरणम् |


द्वित्रिचतुर्भ्यः सुच्