02---asmAkaM-mUla-yantrANi/2---pANinIyaM-sUtraM-kathaM-paThanIyam: Difference between revisions

no edit summary
No edit summary
No edit summary

(25 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE:2 - पाणिनीयं सूत्रं‌ कथं पठनीयम्}}
{| class="wikitable"

{| class="wikitable mw-collapsible mw-collapsed"
== |'''ध्वनिमुद्रणानि =='''

|'''2015 वर्गः'''
Line 35 ⟶ 36:
'''इको यणचि''' (६.१.७६) = इकः स्थाने यण्‌-आदेशः भवति अचि परे संहितायां विषये | इकः यण्‌ स्यात्‌ असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्‌ | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तम्‌, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इकः यण्‌ अचि संहितायाम्'''‌ |

उपरितने सूत्रे इक्‌, यण्‌, अच्‌ इति त्रयः प्रत्याहाराः सन्ति | प्रत्याहारः नाम वर्णानां समूहः | एषु त्रिषु प्रत्याहारेषु के के वर्णाः अन्तर्भूताः इति ज्ञातुम्‌ '''[[https://worldsanskrit.net/wiki/02---asmAkaM-mUla-yantrANi/1 ---mAheshvarANi-sUtrANi माहेश्वराणि सूत्राणि|'''अत्र]''']] पश्यतु |

Line 101 ⟶ 102:

'''रषाभ्यां नो णः समानपदे''' (८.४.१) = रेफषकाराभ्यामुत्तरस्य नकारस्य णकारादेशो भवति, समानपदस्थौ चेदेव निमित्तनिमित्तिनौ भवतः | रषाभ्यां पञ्चम्यन्तं, नः षष्ठ्यन्तं, णः प्रथमान्तम्‌ |

वर्ण | पूर्ण |
Line 126 ⟶ 128:

यदा सूत्रस्य विवरणं दीयते अस्माकं 'संस्कृतव्याकरणम्‌विश्वसंस्कृतगवाक्षः' इति जालस्थाने, तदा व्याख्याने कश्चन क्रमो वर्तते | स च क्रमः सदा समानो भवति—

१. सूत्रस्य अर्थः = एकस्मिन्‌ वाक्ये वाक्यद्वये वा सूत्रस्य अर्थः कः इति उक्तम्‌ |

२. समासानां विग्रहवाक्यम्‌ = बहुषु सूत्रेषु समासाः सन्ति | सन्ति चेत्‌, तेषां विवरणं दीयते |

३. सूत्रे पदानां विभक्तयः = सूत्रे प्रत्येकं पदस्य विभक्तिः का इति उच्यते |

४. सूत्रे अनुवृत्तिः = आधिक्येन कानिचन पदानि पूर्वतनसूत्रेभ्यः अपेक्षितानि सूत्रार्थस्य पूरणार्थम्‌ | पाणिनिः सूत्रस्य लघुत्वम्‌ इच्छति | तदर्थं येषां सूत्राणां समानप्रकारक-कार्यं भवति, तानि सूत्राणि अष्टाध्याय्याम्‌ एकस्मिन्‌ स्थले सङ्गृहीतानि भवन्ति | अनेन, एकस्मिन्‌ स्थले (इत्युक्ते एकस्मिन्‌ प्रकरणे) प्रथमे सूत्रे किञ्चन पदम्‌ अस्ति, तत् पदं पुनः द्वितीये सूत्रे न दीयते | अस्माभिः मनसि तत्‌ पदम्‌ आनेतव्यम्‌ | यथा रामः वदति "अहम्‌ आपणं गच्छामि" | श्यामः वदति "अहम्‌ अपि" | वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत्‌ श्यामस्य आशयः "अहम्‌ अपि आपणं गच्छामि" इति | यद्यपि श्यामः केवलम्‌ "अहम्‌ अपि" इत्यवदत्‌, तथापि वयं तस्य अर्थं पूरयामः मनसि | तादृशम्‌ अर्थपूरणं पाणिनिः इच्छति सूत्रविषये | यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि, तानि अस्माभिः आनेतव्यानि | तादृशपदस्य 'अनुवृत्तिः' अस्ति इत्युच्यते | व्याख्यानस्य अस्मिन्‌ भागे इमानि पदानि दीयन्ते |

५. सूत्रे अधिकारः = केषाञ्चित्‌ विशिष्ट-सूत्राणां पूर्णरीत्या 'अनुवृत्तिः' भवति बहुषु अग्रिमसूत्रेषु | अधिकारसूत्रे यावन्ति पदानि सन्ति, तानि सर्वाणि मिलित्वा अपरेषु सूत्रेषु अर्थपूरणार्थम्‌ उपविशन्ति | अर्थस्य पूरणार्थं किञ्चन अधिकारसूत्रम्‌ अपेक्ष्यते चेत्‌, अत्र दीयते |

६. अनुवृत्ति-सहित-सूत्रम्‌ = सूत्रं वाक्यरूपेण दीयते | याः अनुवृत्तयः सन्ति, अपि च यानि अधिकारसूत्राणि सन्ति, तानि सूत्रे अन्तर्गतं कृत्वा वाक्यरीत्या सूत्रं लिख्यते |

Line 155 ⟶ 149:

यदि + अपि → [इ → य्‌] → यद्यपि |

'<nowiki/>'''''इको यणचि'''''' (६.१.७६) = इकः स्थाने यण्‌-आदेशः भवति अचि परे संहितायां विषये | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तम्‌, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इकः यण्‌ अचि संहितायाम्'''‌ |

उपरितने व्याख्याने, क्रमेण सूत्रार्थः अस्ति, समासस्य अभावात्‌ समासविवरणं नास्ति, पदानां विभक्तयः दत्ताः, सूत्रे अनुवृत्तिः नास्ति, अधिकारः अस्ति, अनुवृत्ति-सहित-सूत्रम्‌ अन्ते वर्तते | अत्र अनुवृत्तिः नास्ति, परन्तु अधिकारः अस्ति अतः अस्मिन्‌ वाक्ये अधिकारः अपि अन्तर्गतः |
Line 190 ⟶ 183:

६) अधिकारसूत्रम्‌ = यस्य अनुवृत्तिः भवति बहुषु सूत्रेषु | '''संहितायाम्‌''' (६.१.७१)

Line 195 ⟶ 189:
'''[https://static.miraheze.org/samskritavyakaranamwiki/b/b1/%E0%A5%A6%E0%A5%A8_-_%E0%A4%AA%E0%A4%BE%E0%A4%A3%E0%A4%BF%E0%A4%A8%E0%A5%80%E0%A4%AF%E0%A4%82_%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%82%E2%80%8C_%E0%A4%95%E0%A4%A5%E0%A4%82_%E0%A4%AA%E0%A4%A0%E0%A4%A8%E0%A5%80%E0%A4%AF%E0%A4%AE%E0%A5%8D.pdf ०२ - पाणिनीयं सूत्रं‌ कथं पठनीयम्.pdf]'''

[Swarup – June 2012 (Updated October 2015)]

[Swarup – June 2012 (Updated October 2015)]

Line 218 ⟶ 212:

अबाबन्ध्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' (६.१.६७) इत्यनेन त्‌-लोपः → अबाबन्ध्‌ इति तिङन्तं संयोगान्तं पदम्‌ → '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन पदस्य अन्तिमवर्णस्य लोपः → अबाबन्‌

2. संयोगस्य प्रथमसदस्यः रेफः चेत्‌, रेफात्‌ परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न |

'''रात्सस्य''' (८.२.२४) = यस्य पदस्य अन्ते संयोगोऽस्ति, संयोगस्य प्रथमसदस्यः रेफः चेत्‌, रेफात्‌ परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न | रात्‌ पञ्चम्यन्तं, सस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''संयोगान्तस्य लोपः''' (८.२.२३) इति सूत्रस्य पूर्णतया अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रात्‌ संयोगान्तस्य पदस्य सस्य लोपः''' |

वस्तुतः इदं सूत्रं केवलं वदति यत्‌ पदान्ते संयोगः अस्ति चेत्‌, संयोगस्य प्रथमसदस्यः रेफः चेत्‌, रेफात्‌ परस्य सकारस्य लोपो भवति | अयं च सकार-लोपः '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन एव सिद्धं खलु | तर्हि पुनः '''रात्सस्य''' इति कथनस्य का आवश्यकता ? सिद्धे सति आरभ्यमाणो विधिर्नियमाय भवति | अयं सकार-लोपः पुनः उक्तः यतोहि अनेन नियमयति; इदं सूत्रं नियमसूत्रम्‌ | अस्य सकारलोपस्य पुनः कथनेन ''केवलं सकारलोपः, अपरवर्णस्य न'' इति फलितार्थः |

Line 234:

[अग्रे द्रक्ष्यामः यत्‌— अमार्ज्‌ → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन ज्‌-स्थाने षकारादेशः → अमार्ष्‌ → '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन पदान्ते जश्त्वम्‌ → अमार्ड्‌ → '''वाऽवसाने''' (८.४.५६) इत्यनेन विकल्पेन पदान्ते चर्त्वम्‌ → अमार्ट्‌]

Line 239 ⟶ 240:

पितृ + ङस्‌ → अनुबन्धलोपे → पितृ + अस्‌ → '''ऋत उत्‌''' (६.१.१११) इत्यनेन ऋकारान्तात्‌ उत्तरयोः ङसिङसोः अति परे पूर्वपरयोः उकारः एकादेशः → पित्‌ + उ + स्‌ → '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन ऋ-स्थाने यः अण्‌, सः रपरः भवति → पित् +उर्‌उर् + स्‌ → '''रात्सस्य''' (८.२.२४) इत्यनेन स्‌-लोपः → पितुर् → '''खरवसानयोर्विसर्जनीयः''' इत्यनेन अवसाने र्‍र्-स्थाने विसर्गादेशः → पितुः
page_and_link_managers, Administrators
5,094

edits