02---asmAkaM-mUla-yantrANi/2---pANinIyaM-sUtraM-kathaM-paThanIyam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 21:
 
<big>व्याकरणे कार्याणि एतादृशानि भवन्ति—</big>
 
 
<big>आदेशः = पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णस्य उदयः | यदि + अपि → [इ → य्‌] → यद्यपि |</big>
Line 28 ⟶ 29:
<big>लोपः = वर्णस्य अदर्शनम्‌ | बालकः + इच्छति → ः-लोपः → बालक इच्छति |</big>
 
<big><br />
<big><br />कस्यचित्‌ अपि कार्यस्य निर्देशार्थं, विधानार्थं, सूत्रं भवति | यण्‌-सन्धिः एकं कार्यम्‌; अतः तस्य विधानार्थं सूत्रम्‌ अस्ति | सूत्रस्य व्याख्यां प्रायः अधुना अवगन्तुं न शक्नुमः, किन्तु कथं दृश्यते इति एकवारं पश्येम | यण्‌-सन्धेः विधिसूत्रम्‌ इदम्‌—</big>
 
 
Line 152 ⟶ 154:
 
<big>उपरितने व्याख्याने, क्रमेण सूत्रार्थः अस्ति, समासस्य अभावात्‌ समासविवरणं नास्ति, पदानां विभक्तयः दत्ताः, सूत्रे अनुवृत्तिः नास्ति, अधिकारः अस्ति, अनुवृत्ति-सहित-सूत्रम्‌ अन्ते वर्तते | अत्र अनुवृत्तिः नास्ति, परन्तु अधिकारः अस्ति अतः अस्मिन्‌ वाक्ये अधिकारः अपि अन्तर्गतः |</big>
 
 
<big>यदि + अपि → [इ → य्‌] → यद्यपि | अत्र इकारः इक्‌-प्रत्याहारे अस्ति; यकारः यण्‌-प्रत्याहारे अस्ति | सूत्रे इक्‌ षष्ठीविभक्तौ अस्ति अतः तस्य <u>स्थाने</u> कार्यं भवति; यण्‌ प्रथमाविभक्तौ अस्ति अतः सः (यकारः) आदेश-रूपेण इकारस्य स्थाने आयाति; अच्‌ सप्तमीविभक्तौ अस्ति अतः "अपि”-शब्दस्य अकारात्‌ पूर्वं कार्यं भवति | कार्यं किम्‌ ? इ-स्थाने य्‌-आदेशः |</big>
Line 208 ⟶ 211:
<big><br />
2. संयोगस्य प्रथमसदस्यः रेफः चेत्‌, रेफात्‌ परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न |</big>
 
 
<big>'''रात्सस्य''' (८.२.२४) = यस्य पदस्य अन्ते संयोगोऽस्ति, संयोगस्य प्रथमसदस्यः रेफः चेत्‌, रेफात्‌ परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न | रात्‌ पञ्चम्यन्तं, सस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''संयोगान्तस्य लोपः''' (८.२.२३) इति सूत्रस्य पूर्णतया अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रात्‌ संयोगान्तस्य पदस्य सस्य लोपः''' |</big>
Line 213 ⟶ 217:
<big><br />
वस्तुतः इदं सूत्रं केवलं वदति यत्‌ पदान्ते संयोगः अस्ति चेत्‌, संयोगस्य प्रथमसदस्यः रेफः चेत्‌, रेफात्‌ परस्य सकारस्य लोपो भवति | अयं च सकार-लोपः '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन एव सिद्धं खलु | तर्हि पुनः '''रात्सस्य''' इति कथनस्य का आवश्यकता ? सिद्धे सति आरभ्यमाणो विधिर्नियमाय भवति | अयं सकार-लोपः पुनः उक्तः यतोहि अनेन नियमयति; इदं सूत्रं नियमसूत्रम्‌ | अस्य सकारलोपस्य पुनः कथनेन ''केवलं सकारलोपः, अपरवर्णस्य न'' इति फलितार्थः |</big>
 
 
 
 
 
<big>अमृज्‌ + त्‌ → अमृज्‌ → '''मृजेर्वृद्धिः''' (७.२.११४) इत्यनेन वृद्धिः → अमार्ज्‌ → '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन ज्‌-लोपः प्राप्तः, '''रात्सस्य''' (८.२.२४) इत्यनेन ज्‌-लोपः बाधितः → अमार्ज्‌</big>
 
 
<big>[अग्रे द्रक्ष्यामः यत्‌— अमार्ज्‌ → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन ज्‌-स्थाने षकारादेशः → अमार्ष्‌ → '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन पदान्ते जश्त्वम्‌ → अमार्ड्‌ → '''वाऽवसाने''' (८.४.५६) इत्यनेन विकल्पेन पदान्ते चर्त्वम्‌ → अमार्ट्‌]</big>
teachers
810

edits