02---asmAkaM-mUla-yantrANi/2---pANinIyaM-sUtraM-kathaM-paThanIyam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 130:
<big><br />
१. <u>सूत्रस्य अर्थः</u> = एकस्मिन्‌ वाक्ये वाक्यद्वये वा सूत्रस्य अर्थः कः इति उक्तम्‌ |</big>
 
 
<big>२. <u>समासानां विग्रहवाक्यम्‌</u> = बहुषु सूत्रेषु समासाः सन्ति | सन्ति चेत्‌, तेषां विवरणं दीयते |</big>
 
 
<big>३. <u>सूत्रे पदानां विभक्तयः</u> = सूत्रे प्रत्येकं पदस्य विभक्तिः का इति उच्यते |</big>
 
 
 
<big>४. <u>सूत्रे अनुवृत्तिः</u> = आधिक्येन कानिचन पदानि पूर्वतनसूत्रेभ्यः अपेक्षितानि सूत्रार्थस्य पूरणार्थम्‌ | पाणिनिः सूत्रस्य लघुत्वम्‌ इच्छति | तदर्थं येषां सूत्राणां समानप्रकारक-कार्यं भवति, तानि सूत्राणि अष्टाध्याय्याम्‌ एकस्मिन्‌ स्थले सङ्गृहीतानि भवन्ति | अनेन, एकस्मिन्‌ स्थले (इत्युक्ते एकस्मिन्‌ प्रकरणे) प्रथमे सूत्रे किञ्चन पदम्‌ अस्ति, तत् पदं पुनः द्वितीये सूत्रे न दीयते | अस्माभिः मनसि तत्‌ पदम्‌ आनेतव्यम्‌ | यथा रामः वदति "अहम्‌ आपणं गच्छामि" | श्यामः वदति "अहम्‌ अपि" | वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत्‌ श्यामस्य आशयः "अहम्‌ अपि आपणं गच्छामि" इति | यद्यपि श्यामः केवलम्‌ "अहम्‌ अपि" इत्यवदत्‌, तथापि वयं तस्य अर्थं पूरयामः मनसि | तादृशम्‌ अर्थपूरणं पाणिनिः इच्छति सूत्रविषये | यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि, तानि अस्माभिः आनेतव्यानि | तादृशपदस्य 'अनुवृत्तिः' अस्ति इत्युच्यते | व्याख्यानस्य अस्मिन्‌ भागे इमानि पदानि दीयन्ते |</big>
 
 
<big>५. <u>सूत्रे अधिकारः</u> = केषाञ्चित्‌ विशिष्ट-सूत्राणां पूर्णरीत्या 'अनुवृत्तिः' भवति बहुषु अग्रिमसूत्रेषु | अधिकारसूत्रे यावन्ति पदानि सन्ति, तानि सर्वाणि मिलित्वा अपरेषु सूत्रेषु अर्थपूरणार्थम्‌ उपविशन्ति | अर्थस्य पूरणार्थं किञ्चन अधिकारसूत्रम्‌ अपेक्ष्यते चेत्‌, अत्र दीयते |</big>
 
<big>६. <u>अनुवृत्ति-सहित-सूत्रम्‌</u> = सूत्रं वाक्यरूपेण दीयते | याः अनुवृत्तयः सन्ति, अपि च यानि अधिकारसूत्राणि सन्ति, तानि सूत्रे अन्तर्गतं कृत्वा वाक्यरीत्या सूत्रं लिख्यते |</big>
 
 
<big>६. <u>अनुवृत्ति-सहित-सूत्रम्‌</u> = सूत्रं वाक्यरूपेण दीयते | याः अनुवृत्तयः सन्ति, अपि च यानि अधिकारसूत्राणि सन्ति, तानि सूत्रे अन्तर्गतं कृत्वा वाक्यरीत्या सूत्रं लिख्यते |</big>
 
 
teachers
810

edits