2 - पाणिनीयं सूत्रं कथं पठनीयम्
ध्वनिमुद्रणानि |
2015 वर्गः |
१) pANiniiya-sUtraM-kathaM-paThaniiyam-1_2015-10-07 |
२) pANiniiya-sUtraM-kathaM-paThaniiyam-2_2015-10-14 |
३) pANiniiya-sUtraM-kathaM-paThaniiyam-3_2015-10-21 |
2014 वर्गः |
१) पाणिनीयं सूत्रं कथं पठनीयम्_2014-09-02 |
यण्-सन्धिं बहवः जानन्ति | यथा यदि + अपि → [इ → य्] → यद्यपि | अत्र इकारस्य स्थाने यकारादेशो भवति | "इकारस्य स्थाने यकारः" इति व्याकरणलोके एकं कार्यम् इति उच्यते |
व्याकरणे कार्याणि एतादृशानि भवन्ति—
आदेशः = पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णस्य उदयः | यदि + अपि → [इ → य्] → यद्यपि |
आगमः = वर्णात् पूर्वं परं वा अन्यवर्णस्य उदयः | पठन् + आगच्छति → न्-आगमः → पठन्नागच्छति |
लोपः = वर्णस्य अदर्शनम् | बालकः + इच्छति → ः-लोपः → बालक इच्छति |
कस्यचित् अपि कार्यस्य निर्देशार्थं, विधानार्थं, सूत्रं भवति | यण्-सन्धिः एकं कार्यम्; अतः तस्य विधानार्थं सूत्रम् अस्ति | सूत्रस्य व्याख्यां प्रायः अधुना अवगन्तुं न शक्नुमः, किन्तु कथं दृश्यते इति एकवारं पश्येम | यण्-सन्धेः विधिसूत्रम् इदम्—
इको यणचि (६.१.७६) = इकः स्थाने यण्-आदेशः भवति अचि परे संहितायां विषये | इकः यण् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम् | इकः षष्ठ्यन्तं, यण् प्रथमान्तम्, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | संहितायाम् (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— इकः यण् अचि संहितायाम् |
उपरितने सूत्रे इक्, यण्, अच् इति त्रयः प्रत्याहाराः सन्ति | प्रत्याहारः नाम वर्णानां समूहः | एषु त्रिषु प्रत्याहारेषु के के वर्णाः अन्तर्भूताः इति ज्ञातुम् अत्र पश्यतु |
'इको यणचि' (६.१.७६) इति सूत्रं यथा, तथा पाणिनेः अष्टाध्यायी इति ग्रन्थे बहूनि सूत्राणि सन्ति | तानि सूत्राणि कार्यं निर्दिशन्ति, highly codified language इत्यस्य माध्यमेन | Codified किमर्थम् इति चेत्, येन प्रत्येकं सूत्रं लघु स्यात्, अपि च येन ग्रन्थे आहत्य सूत्राणां सङ्ख्या न्यूनातिन्यूनं स्यात् | तर्हि सङ्क्षेपार्थं code निर्मितं पाणिनिना; code इत्यस्य माध्यमं किम् ? विभक्तिः | इयं विभक्ति-पद्धतिः का इति अग्रे पश्येम |
1. पाणिनेः सूत्राणां पद्धतिः
पाणिनेः प्रमुखलक्ष्यम् अस्ति पदव्युत्पत्तिः | पदानि कथं निष्पन्नानि इति प्रदर्शनार्थं सूत्राणि विरचितानि | अतः आधिक्येन सूत्रेषु विशिष्टकार्याणि विहितानि भवन्ति— अमुकवर्णस्य स्थाने अन्यवर्णः, अमुकवर्णः लुप्तः, अमुकवर्णः आगतः इत्यादीनि कार्याणि भवन्ति | एषां कार्याणां सङ्केतार्थं विभक्तयः प्रयुक्ताः सन्ति | तदर्थं लोकस्य अपेक्षया, सूत्रेषु विभक्तीनाम् अर्थाः किञ्चित् भिन्नाः सन्ति | पाणिनीयसूत्रेषु विभक्ति-अर्थाः के इति अधः सूचिताः |
षष्ठीविभक्तिः = स्थाने
प्रथमाविभक्तिः = आदेशः, आगमः, नामकरणम्
सप्तमीविभक्तिः = पूर्वकार्यम्
पञ्चमीविभक्तिः = परकार्यम्
तृतीयाविभक्तिः = संयोजनम्
a. षष्ठीविभक्तिः = स्थाने | सूत्रे यस्य वर्णस्य/प्रत्याहारस्य षष्ठीविभक्तिः भवति, सः "स्थानी" भवति— इत्युक्ते तस्य स्थाने अन्यः वर्णः आयाति | कः वर्णः आयाति तस्य स्थाने ? तस्मिन् एव सूत्रे यः वर्णः/प्रत्याहारः प्रथमाविभक्त्यन्तः, सः |
उदाहरणार्थम्—
'इको यणचि' (६.१.७६) = इकः स्थाने यण्-आदेशः भवति | इकः षष्ठ्यन्तं, यण् प्रथमान्तम् | इकः यण् अचि संहितायाम् |
b. प्रथमाविभक्तिः = आदेशः, आगमः, नामकरणम् | सूत्रे यस्य वर्णस्य प्रथमाविभक्तिः भवति, सः आयाति षष्ठीविभक्त्यन्तस्य वर्णस्य स्थाने | तत्र प्रथमाविभक्त्यन्तस्य वर्णस्य नाम "आदेशः" | सूत्रे तादृशः षष्ठीविभक्त्यन्तः वर्णो नास्ति चेत्, तर्हि सः प्रथमाविभक्त्यन्तः वर्णः आयाति किन्तु अपरस्य वर्णस्य स्थाने इति न, अतः तस्य नाम "आगमः" | अन्यत्र प्रथमाविभक्तिः नामकरणस्य सूचिका |
आदेशः
'इको यणचि' (६.१.७६) = इकः स्थाने यण्-आदेशः भवति | इकः षष्ठ्यन्तं, यण् प्रथमान्तम् | इकः यण् अचि संहितायाम् |
आगमः
लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१) = लुङ् लङ् लृङ् च परे चेत्, धातुरूपि-अङ्गस्य अट्-आगमो भवति | लुङ्लङ्लृङ्क्षु सप्तम्यन्तम्, अट् प्रथमान्तम्, उदात्तः प्रथमान्तम् | अङ्गस्य अट् उदात्तः लुङ्लङ्लृङ्क्षु |
अ + पठ् +अ +त् → अपठत्
नामकरणम्
सुप्तिङन्तं पदम् (१.४.१४) = सुबन्तं च तिङन्तं च पदसज्ञकौ भवतः, इत्युक्ते सुबन्तानां तिङन्तानां च पदसंज्ञा भवति | सुप्तिङन्तं प्रथमान्तं, पदम् प्रथमान्तम् |
राम + सु → रामः | 'रामः' इत्यस्य अन्ते सु इति सुप्-प्रत्ययः अस्ति; सुप् अन्ते यस्य सः सुबन्तं; सुबन्तम् अतः अनेन सूत्रेण तस्य पद-संज्ञा भवति |
वद् + अ + ति → वदति | 'वदति' इत्यस्य अन्ते ति इति तिङ्-प्रत्ययः अस्ति; तिङ् अन्ते यस्य सः तिङन्तं; तिङन्तम् अतः अनेन सूत्रेण तस्य पद-संज्ञा भवति |
c. सप्तमीविभक्तिः = पूर्वकार्यम् | सूत्रे यस्य वर्णस्य सप्तमीविभक्तिः भवति, सः निर्दिष्टात् कार्यात् परं स्थितः इत्यर्थः | नाम निर्दिष्टं कार्यं तस्मात् पूर्वम् अस्ति |
'इको यणचि' (६.१.७६) = इकः स्थाने यण्-आदेशः भवति अचि परे | इकः षष्ठ्यन्तं, यण् प्रथमान्तं, अचि सप्तम्यन्तम् | इकः यण् अचि संहितायाम् |
d. पञ्चमीविभक्तिः = परकार्यम् | सूत्रे यस्य वर्णस्य पञ्चमीविभक्तिः भवति, सः निर्दिष्टात् कार्यात् पूर्वं स्थितः इत्यर्थः | नाम निर्दिष्टं कार्यं तस्मात् परम् अस्ति |
रषाभ्यां नो णः समानपदे (८.४.१) = रेफषकाराभ्यामुत्तरस्य नकारस्य णकारादेशो भवति, समानपदस्थौ चेदेव निमित्तनिमित्तिनौ भवतः | रषाभ्यां पञ्चम्यन्तं, नः षष्ठ्यन्तं, णः प्रथमान्तम् |
वर्ण | पूर्ण |
वर्न → रषाभ्यां नो णः समानपदे (८.४.१) → वर्ण
e. तृतीयाविभक्तिः = संयोजनम् | सूत्रे यस्य वर्णस्य तृतीयाविभक्तिः भवति, सः निर्दिष्टेन वर्णेन सह संयुक्तः इत्यर्थः | तत्र निर्दिष्टं कार्यं तस्मात् पूर्वम् अपि परम् अपि अर्हति, परन्तु अयं तृतीयाविभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत् |
स्तोः श्चुना श्चुः (८.४.४०) = सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | स्तोः षष्ठ्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तम् | स्तोः श्चुना श्चुः संहितायाम् |
पूर्वकार्यम् =अन्यत् + च → अन्यच्च
परकार्यम् =यज् + नः → यज् + ञ् + अः → यज्ञः
अतः निर्दिष्टं कार्यं निमित्तात् पूर्वम् अपि परम् अपि अर्हति, परन्तु अयं तृतीयाविभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत् |
2. व्याख्यानस्य आकृतिः
यदा सूत्रस्य विवरणं दीयते अस्माकं 'विश्वसंस्कृतगवाक्षः' इति जालस्थाने, तदा व्याख्याने कश्चन क्रमो वर्तते | स च क्रमः सदा समानो भवति—
१. सूत्रस्य अर्थः = एकस्मिन् वाक्ये वाक्यद्वये वा सूत्रस्य अर्थः कः इति उक्तम् |
२. समासानां विग्रहवाक्यम् = बहुषु सूत्रेषु समासाः सन्ति | सन्ति चेत्, तेषां विवरणं दीयते |
३. सूत्रे पदानां विभक्तयः = सूत्रे प्रत्येकं पदस्य विभक्तिः का इति उच्यते |
४. सूत्रे अनुवृत्तिः = आधिक्येन कानिचन पदानि पूर्वतनसूत्रेभ्यः अपेक्षितानि सूत्रार्थस्य पूरणार्थम् | पाणिनिः सूत्रस्य लघुत्वम् इच्छति | तदर्थं येषां सूत्राणां समानप्रकारक-कार्यं भवति, तानि सूत्राणि अष्टाध्याय्याम् एकस्मिन् स्थले सङ्गृहीतानि भवन्ति | अनेन, एकस्मिन् स्थले (इत्युक्ते एकस्मिन् प्रकरणे) प्रथमे सूत्रे किञ्चन पदम् अस्ति, तत् पदं पुनः द्वितीये सूत्रे न दीयते | अस्माभिः मनसि तत् पदम् आनेतव्यम् | यथा रामः वदति "अहम् आपणं गच्छामि" | श्यामः वदति "अहम् अपि" | वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत् श्यामस्य आशयः "अहम् अपि आपणं गच्छामि" इति | यद्यपि श्यामः केवलम् "अहम् अपि" इत्यवदत्, तथापि वयं तस्य अर्थं पूरयामः मनसि | तादृशम् अर्थपूरणं पाणिनिः इच्छति सूत्रविषये | यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि, तानि अस्माभिः आनेतव्यानि | तादृशपदस्य 'अनुवृत्तिः' अस्ति इत्युच्यते | व्याख्यानस्य अस्मिन् भागे इमानि पदानि दीयन्ते |
५. सूत्रे अधिकारः = केषाञ्चित् विशिष्ट-सूत्राणां पूर्णरीत्या 'अनुवृत्तिः' भवति बहुषु अग्रिमसूत्रेषु | अधिकारसूत्रे यावन्ति पदानि सन्ति, तानि सर्वाणि मिलित्वा अपरेषु सूत्रेषु अर्थपूरणार्थम् उपविशन्ति | अर्थस्य पूरणार्थं किञ्चन अधिकारसूत्रम् अपेक्ष्यते चेत्, अत्र दीयते |
६. अनुवृत्ति-सहित-सूत्रम् = सूत्रं वाक्यरूपेण दीयते | याः अनुवृत्तयः सन्ति, अपि च यानि अधिकारसूत्राणि सन्ति, तानि सूत्रे अन्तर्गतं कृत्वा वाक्यरीत्या सूत्रं लिख्यते |
3. उदाहरणम्— यण् सन्धिः
यदि + अपि → [इ → य्] → यद्यपि |
'इको यणचि' (६.१.७६) = इकः स्थाने यण्-आदेशः भवति अचि परे संहितायां विषये | इकः षष्ठ्यन्तं, यण् प्रथमान्तम्, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | संहितायाम् (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— इकः यण् अचि संहितायाम् |
उपरितने व्याख्याने, क्रमेण सूत्रार्थः अस्ति, समासस्य अभावात् समासविवरणं नास्ति, पदानां विभक्तयः दत्ताः, सूत्रे अनुवृत्तिः नास्ति, अधिकारः अस्ति, अनुवृत्ति-सहित-सूत्रम् अन्ते वर्तते | अत्र अनुवृत्तिः नास्ति, परन्तु अधिकारः अस्ति अतः अस्मिन् वाक्ये अधिकारः अपि अन्तर्गतः |
यदि + अपि → [इ → य्] → यद्यपि | अत्र इकारः इक्-प्रत्याहारे अस्ति; यकारः यण्-प्रत्याहारे अस्ति | सूत्रे इक् षष्ठीविभक्तौ अस्ति अतः तस्य स्थाने कार्यं भवति; यण् प्रथमाविभक्तौ अस्ति अतः सः (यकारः) आदेश-रूपेण इकारस्य स्थाने आयाति; अच् सप्तमीविभक्तौ अस्ति अतः "अपि”-शब्दस्य अकारात् पूर्वं कार्यं भवति | कार्यं किम् ? इ-स्थाने य्-आदेशः |
सूत्रार्थः अवगतः खलु !
4) पाणिनीय-सूत्राणि षड् विधानि
संज्ञा च परिभाषा च विधिर्नियम एव च |
अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् ||
१) संज्ञासूत्रम् = येन नामकरणं क्रियते | सुप्तिङन्तं पदम् (१.४.१४)
२) परिभाषासूत्रम् = यत्र नियमः नास्ति, एतादृशं सूत्रम् आगत्य नियमयति | स्थानेऽन्तरतमः (१.१.५०)
३) विधिसूत्रम् = येन कार्यं विधीयते | इको यणचि (६.१.७६)
४) नियमसूत्रम् = येन पूर्वात् विद्यमानः नियमः सीमितो भवेत् | रात्सस्य (८.२.२४)*
५) अतिदेशसूत्रम् = येन कस्यचित् शब्दस्वरूपस्य स्वभावः परिवर्तेत | सार्वधातुकमपित् (१.२.४) इति सूत्रेण यः ङित् नास्ति, सः ङिद्वत् स्यात् |
६) अधिकारसूत्रम् = यस्य अनुवृत्तिः भवति बहुषु सूत्रेषु | संहितायाम् (६.१.७१)
०२ - पाणिनीयं सूत्रं कथं पठनीयम्.pdf
Swarup – June 2012 (Updated October 2015)
*परिशिष्टम् -- नियमसूत्रम् [रात्सस्य (८.२.२४)]
पदान्ते संयोगः
1. पदस्य अन्ते संयोगोऽस्ति चेत्, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति |
संयोगान्तस्य लोपः (८.२.२३) = यस्य पदस्य अन्ते संयोगोऽस्ति, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य | संयोगः अन्ते अस्ति यस्य तत् संयोगान्तं, बहुव्रीहिः, तस्य संयोगान्तस्य | संयोगान्तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगान्तस्य पदस्य लोपः |
यथा— बन्ध् इति औपदेशिकधातुः | तस्य यङ्लुगन्तधातुः बाबन्ध् |
अबाबन्ध् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) इत्यनेन त्-लोपः → अबाबन्ध् इति तिङन्तं संयोगान्तं पदम् → संयोगान्तस्य लोपः (८.२.२३) इत्यनेन पदस्य अन्तिमवर्णस्य लोपः → अबाबन्
2. संयोगस्य प्रथमसदस्यः रेफः चेत्, रेफात् परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न |
रात्सस्य (८.२.२४) = यस्य पदस्य अन्ते संयोगोऽस्ति, संयोगस्य प्रथमसदस्यः रेफः चेत्, रेफात् परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न | रात् पञ्चम्यन्तं, सस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | संयोगान्तस्य लोपः (८.२.२३) इति सूत्रस्य पूर्णतया अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— रात् संयोगान्तस्य पदस्य सस्य लोपः |
वस्तुतः इदं सूत्रं केवलं वदति यत् पदान्ते संयोगः अस्ति चेत्, संयोगस्य प्रथमसदस्यः रेफः चेत्, रेफात् परस्य सकारस्य लोपो भवति | अयं च सकार-लोपः संयोगान्तस्य लोपः (८.२.२३) इत्यनेन एव सिद्धं खलु | तर्हि पुनः रात्सस्य इति कथनस्य का आवश्यकता ? सिद्धे सति आरभ्यमाणो विधिर्नियमाय भवति | अयं सकार-लोपः पुनः उक्तः यतोहि अनेन नियमयति; इदं सूत्रं नियमसूत्रम् | अस्य सकारलोपस्य पुनः कथनेन केवलं सकारलोपः, अपरवर्णस्य न इति फलितार्थः |
अमृज् + त् → अमृज् → मृजेर्वृद्धिः (७.२.११४) इत्यनेन वृद्धिः → अमार्ज् → संयोगान्तस्य लोपः (८.२.२३) इत्यनेन ज्-लोपः प्राप्तः, रात्सस्य (८.२.२४) इत्यनेन ज्-लोपः बाधितः → अमार्ज्
[अग्रे द्रक्ष्यामः यत्— अमार्ज् → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन ज्-स्थाने षकारादेशः → अमार्ष् → झलां जशोऽन्ते (८.२.३९) इत्यनेन पदान्ते जश्त्वम् → अमार्ड् → वाऽवसाने (८.४.५६) इत्यनेन विकल्पेन पदान्ते चर्त्वम् → अमार्ट्]
यदाकदा प्रश्नः आयाति, सकारलोपस्य उदाहरणं किम् ? एतादृशः धातुः प्रायः न स्यात् यस्य अन्ते रेफसकारयोः संयोगः विद्यते | परन्तु सुबन्तेषु दृष्टान्तः लभ्यते | ऋकारान्त-सुबन्तानां पञ्चम्यन्तं रूपं षष्ठ्यन्तं रूपं च अनेन सिध्यति | यथा—
पितृ + ङस् → अनुबन्धलोपे → पितृ + अस् → ऋत उत् (६.१.१११) इत्यनेन ऋकारान्तात् उत्तरयोः ङसिङसोः अति परे पूर्वपरयोः उकारः एकादेशः → पित् + उ + स् → उरण् रपरः (१.१.५१) इत्यनेन ऋ-स्थाने यः अण्, सः रपरः भवति → पित् +उर् + स् → रात्सस्य (८.२.२४) इत्यनेन स्-लोपः → पितुर् → खरवसानयोर्विसर्जनीयः इत्यनेन अवसाने र्-स्थाने विसर्गादेशः → पितुः