02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 215:
 
२) यत्र प्रत्ययाः समानाः दृश्यन्ते, अनुबन्धैः ते भिद्यन्ते | यथा भ्वादिगणे शप्‌, तुदादिगणे श | उभयत्र 'अ' इत्येव अवशिष्यते अनुबन्धनिष्कासानन्तरम्‌ | अनुबन्धवर्णैः एव प्रत्ययभेदः ज्ञायते | तथैव बहुत्र |
 
 
३) प्रत्ययस्य अन्यरीत्या नामकरणं भवति— तस्य स्वभावम्‌ अनुसृत्य, अनुबन्धानुगुणं भवति | णकारः अनुबन्धः चेत्‌, यथा णिच्‌-प्रत्ययः, तर्हि सङ्क्षेपे प्रत्ययस्य नाम णित्‌ (णकारः इत्‌ यस्य सः णित्‌ इति बहुव्रीहिसमासः); ककारः अनुबन्धः चेत्‌, यथा क्त, क्तवतु, क्त्वा, तर्हि सङ्क्षेपे प्रत्ययस्य नाम कित्‌ (ककारः इत्‌ यस्य सः कित्‌) इत्यादिकम्‌ |