02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam: Difference between revisions
02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam (view source)
Revision as of 18:30, 4 May 2021
, 3 years agono edit summary
Vamsisudha (talk | contribs) No edit summary |
Vamsisudha (talk | contribs) No edit summary |
||
Line 1:
ध्वनिमुद्रणानि--
१) [[it-sangyA-paricayaH_2015-10-21]]
२) [[it-sangyA-prakaraNam---cintanam_+_prathama-catvAri-sUtrANi_2015-10-28]]
३) [[it-sangyA-prakaraNam---antima-trINi-sUtrANi_+_abhyAsaH_2015-11-04]]
४) [[anubandha-varNAnAM-kAryam_2015-11-11]]
अत्र इत्-संज्ञा नाम का इति अस्माभिः ज्ञास्यते |
Line 8 ⟶ 21:
<font size="4"></font><font size="4"></font>इत्-संज्ञायाः प्रयोजनं किम् इति चेत्, यस्य वर्णस्य इत्-संज्ञा, तस्य लोपो भवति | केषां केषां वर्णानाम् इत्-संज्ञा भवति इति ज्ञायते इत्-संज्ञा-विधायक-सूत्रैः | तत्र सप्त सूत्राणि सन्ति; मिलित्वा तेषां नाम इत्संज्ञाप्रकरणम् | पाणिनेः प्रमुखग्रन्थः अष्टाध्यायी; इदं प्रकरणम् अष्टाध्याय्याम् | एभिः च सप्तभिः सूत्रैः सर्वम् इत्-संज्ञाविधायक-कार्यं सिध्यति | प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात् (१.३.२) आरभ्य, अष्टमसूत्रपर्यन्तम् (१.३.८) इत्संज्ञाप्रकरणम् |
Line 15 ⟶ 29:
के स्वराः अनुनासिकाः इति विज्ञानम् यदा अस्माकं सविधे नास्ति; तदा अस्य सूत्रस्य प्रयोगं कथं कर्तुं शक्नुयाम ? वयं फलं दृष्ट्वा अनुमानं कुर्मः यत्र अनुनासिकचिह्नं स्यात् | यत्र मूलधातौ कश्चन स्वरः आसीत् यत् लौकिकधातौ नास्ति, तत्र अवगम्यते यत् सः स्वरः अनुनासिकः आसीत् अतः '''उपदेशेऽजनुनासिक इत्''' इति सूर्त्रेण तस्य लोपः जातः |
Line 28 ⟶ 43:
<u>इत्संज्ञाप्रकरणम्</u>
चत्वारि सूत्राणि, उपदेशावस्थायां, सर्वेषु रूपेषु (धातुषु, प्रत्ययेषु, आदेशेषु, आगमेषु)—
Line 66 ⟶ 82:
राम + शस् → '''लशक्वतद्धिते''' (१.३.८) इत्यनेन शकारस्य इत्-संज्ञा (तदा '''तस्य लोपः''' इत्यनेन लोपः) → राम + अस् → → रामान्
<u>इत्-लोप-विधिः</u>
एकवारं यदा कस्यचित् वर्णस्य वर्णसमूहस्य च इत्-संज्ञा भवति, तदा '''तस्य लोपः''' इति सूत्रेण, तस्य लोपो भवति |
Line 72 ⟶ 89:
'''तस्य लोपः''' (१.३.९) = इत्-संज्ञकस्य वर्णस्य लोपो भवति | तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यस्मात् '''इत्''' इत्यस्य अनुवृत्तिः, षष्ठ्यर्थे | अनुवृत्ति-सहितसूत्रम्— '''तस्य इतः लोपः''' |
<u>अनुवृत्तिः</u>
एतेषाम् अनुवृत्ति-क्रमः सुलभः |
Line 94 ⟶ 112:
धेयं यत् सिद्धान्तकौमुद्याः इत्संज्ञा-सम्बद्धसूत्राणां सूत्रसङ्ख्याः क्रमेण न वर्धन्ते | पठनेन अनुवृत्तिः न स्फुटा अतः सूत्रार्थः नावगम्यते |
<u>अभ्यासः</u>
धातवः—
Line 114 ⟶ 133:
युजिँर्
<u>प्रत्ययाः—</u>
णिच्
Line 160 ⟶ 180:
क्लुकँन् =
<u>अनुबन्ध-वर्णाः किमर्थम् ?</u>
१) अनुबन्धैः विभिन्नकार्याणि सिध्यन्ति |
Line 181 ⟶ 202:
<u>परिशिष्टम्</u>
अत्र वंशी सुधा भगिनी अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या इत्संज्ञाप्रकरणं चित्रत्वेन निरूपितवती—
[[File:इत्-संज्ञा-प्रकरणम्.jpg|border|center|950x950px]]
Line 197 ⟶ 220:
०३ - इत्संज्ञा-प्रकरणम्.pdf (65k) Swarup Bhai, Jul 11, 2019, 8:53 PM
|