02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 10:
 
४) [[anubandha-varNAnAM-kAryam_2015-11-11]]
 
 
 
Line 20 ⟶ 21:
यथा गम्‌-धातुः, लटि गच्छति | उपदेशे अस्य धातोः नाम गम्‌ऌ | ऌ इति वर्णः लोके न तिष्ठति; प्रक्रियायां तस्य लोपः भवति | ये वर्णाः उपदेशे सन्ति परन्तु लोके न, तेषां नाम अनुबन्धः | अपि च तेषां विशिष्टा संज्ञा भवति— इत्‌-संज्ञा | तर्हि इमे वर्णाः स्वयम्‌ इत्‌-संज्ञकाः इत्युच्यन्ते |
 
 
<font size="4"></font><font size="4"></font>इत्‌-संज्ञायाः प्रयोजनं किम्‌ इति चेत्‌, यस्य वर्णस्य इत्‌-संज्ञा, तस्य लोपो भवति | केषां केषां वर्णानाम्‌ इत्‌-संज्ञा भवति इति ज्ञायते इत्‌-संज्ञा-विधायक-सूत्रैः | तत्र सप्त सूत्राणि सन्ति; मिलित्वा तेषां नाम इत्संज्ञाप्रकरणम्‌ | पाणिनेः प्रमुखग्रन्थः अष्टाध्यायी; इदं प्रकरणम्‌ अष्टाध्याय्याम्‌ | एभिः च सप्तभिः सूत्रैः सर्वम्‌ इत्‌-संज्ञाविधायक-कार्यं सिध्यति | प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात्‌ (१.३.२) आरभ्य, अष्टमसूत्रपर्यन्तम्‌ (१.३.८) ‌इत्संज्ञाप्रकरणम्‌ |
इत्‌-संज्ञायाः प्रयोजनं किम्‌ इति चेत्‌, यस्य वर्णस्य इत्‌-संज्ञा, तस्य लोपो भवति | केषां केषां वर्णानाम्‌ इत्‌-संज्ञा भवति इति ज्ञायते इत्‌-संज्ञा-विधायक-सूत्रैः | तत्र सप्त सूत्राणि सन्ति; मिलित्वा तेषां नाम इत्संज्ञाप्रकरणम्‌ |
 
 
<font size="4"></font><font size="4"></font>इत्‌-संज्ञायाः प्रयोजनं किम्‌ इति चेत्‌, यस्य वर्णस्य इत्‌-संज्ञा, तस्य लोपो भवति | केषां केषां वर्णानाम्‌ इत्‌-संज्ञा भवति इति ज्ञायते इत्‌-संज्ञा-विधायक-सूत्रैः | तत्र सप्त सूत्राणि सन्ति; मिलित्वा तेषां नाम इत्संज्ञाप्रकरणम्‌ | पाणिनेः प्रमुखग्रन्थः अष्टाध्यायी; इदं प्रकरणम्‌ अष्टाध्याय्याम्‌ | एभिः च सप्तभिः सूत्रैः सर्वम्‌ इत्‌-संज्ञाविधायक-कार्यं सिध्यति | प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात्‌ (१.३.२) आरभ्य, अष्टमसूत्रपर्यन्तम्‌ (१.३.८) ‌इत्संज्ञाप्रकरणम्‌ |
 
 
 
Line 29 ⟶ 35:
 
के स्वराः अनुनासिकाः इति विज्ञानम्‌ यदा अस्माकं सविधे नास्ति; तदा अस्य सूत्रस्य प्रयोगं कथं कर्तुं शक्नुयाम ? वयं फलं दृष्ट्वा अनुमानं कुर्मः यत्र अनुनासिकचिह्नं स्यात्‌ | यत्र मूलधातौ कश्चन स्वरः आसीत्‌ यत्‌ लौकिकधातौ नास्ति, तत्र अवगम्यते यत्‌ सः स्वरः अनुनासिकः आसीत्‌ अतः '''उपदेशेऽजनुनासिक इत्''' इति सूर्त्रेण तस्य लोपः जातः |
 
 
 
यथा गम्‌ऌ धातुः, अत्रः ऌ इति अच्‌-वर्णः औपदेशिकधातौ अस्ति, लौकिकधातौ च नास्ति | अतः तस्य लोपः जातः स्यात्‌ | अनेन बुध्यते यत्‌ ऌ इति अच्‌-वर्णः अनुनासिकः अपि च '''उपदेशेऽजनुनासिक इत्''' इति सूत्रेण तस्य इत्‌-संज्ञा भवति | तदा अन्यत्‌ सूत्रम्‌ अस्ति '''तस्य लोपः''' (१.३.९) येन इत्‌-संज्ञकवर्णानां लोपः भवति | तर्हि '''तस्य लोपः''' इत्यनेन ऌ-लोपः; गम्‌ इति अवशिष्यते |