02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1:
 
 
ध्वनिमुद्रणानि--
 
Line 14 ⟶ 12:
 
अत्र इत्‌-संज्ञा नाम का इति अस्माभिः ज्ञास्यते |
 
 
 
व्याकरणे पाणिनिना यदा किञ्चन मूलरूपं दीयते—धातुः, प्रत्ययः, आदेशः, आगमः—तदा तस्य मूलरूपस्य नाम उपदेशः | उपदेशावस्थायां यानि मूलरूपाणि सन्ति, तेषु बहुवारं केचन वर्णाः उपस्थिताः ये प्रक्रियायां लौकिक-रूपेषु च न तिष्ठन्ति |
 
 
यथा गम्‌-धातुः, लटि गच्छति | उपदेशे अस्य धातोः नाम गम्‌ऌ | ऌ इति वर्णः लोके न तिष्ठति; प्रक्रियायां तस्य लोपः भवति | ये वर्णाः उपदेशे सन्ति परन्तु लोके न, तेषां नाम अनुबन्धः | अपि च तेषां विशिष्टा संज्ञा भवति— इत्‌-संज्ञा | तर्हि इमे वर्णाः स्वयम्‌ इत्‌-संज्ञकाः इत्युच्यन्ते |
 
 
 
इत्‌-संज्ञायाः प्रयोजनं किम्‌ इति चेत्‌, यस्य वर्णस्य इत्‌-संज्ञा, तस्य लोपो भवति | केषां केषां वर्णानाम्‌ इत्‌-संज्ञा भवति इति ज्ञायते इत्‌-संज्ञा-विधायक-सूत्रैः | तत्र सप्त सूत्राणि सन्ति; मिलित्वा तेषां नाम इत्संज्ञाप्रकरणम्‌ |
 
 
पाणिनेः प्रमुखग्रन्थः अष्टाध्यायी; इदं प्रकरणम्‌ अष्टाध्याय्याम्‌ | एभिः च सप्तभिः सूत्रैः सर्वम्‌ इत्‌-संज्ञाविधायक-कार्यं सिध्यति | प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात्‌ (१.३.२) आरभ्य, अष्टमसूत्रपर्यन्तम्‌ (१.३.८) ‌इत्संज्ञाप्रकरणम्‌ |
 
 
<u>अनुनासिकाः स्वराः</u>
 
 
उपदेशे—नाम पाणिनेः मूलधातुषु, मूलप्रत्ययेषु, मूलादेशेषु, मूलागमेषु च—केचन स्वराः अनुनासिकाः | अनुनासिकः स्वरः नाम यस्मिन्‌ अचि ँ इति अनुनासिकचिह्नम्‌ अस्ति | सामान्यतया धातुकोषेषु पश्यन्ति चेत्‌, धातुषु न कुत्रापि अनुनासिकचिह्नं दृश्यते | किमर्थम्‌‍ इति चेत्‌, प्राचीनकाले एकं संपूर्णं स्वरविज्ञानम्‌ आसीत्‌; अस्माकम्‌ आधुनिकयुगे इदं विज्ञानं लुप्तम्‌ अतः स्वरविषये अस्माकं क्लेशः | स्वरविज्ञानस्य अभावे धातुकोषेषु अनुनासिकचिह्नानि न दत्तानि | किन्तु पाणिनेः सूत्रेषु अनुनासिकस्वराणां प्रयोगो भवति | यथा '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इति प्रथमम्‌ इत्‌-संज्ञा-विधायकं सूत्रम्‌ | उपदेशावस्थायां यः अच्‌ अनुनासिकः अस्ति, तस्य इत्‌-संज्ञा भवति अनेन सूत्रेण |
 
 
के स्वराः अनुनासिकाः इति विज्ञानम्‌ यदा अस्माकं सविधे नास्ति; तदा अस्य सूत्रस्य प्रयोगं कथं कर्तुं शक्नुयाम ? वयं फलं दृष्ट्वा अनुमानं कुर्मः यत्र अनुनासिकचिह्नं स्यात्‌ | यत्र मूलधातौ कश्चन स्वरः आसीत्‌ यत्‌ लौकिकधातौ नास्ति, तत्र अवगम्यते यत्‌ सः स्वरः अनुनासिकः आसीत्‌ अतः '''उपदेशेऽजनुनासिक इत्''' इति सूर्त्रेण तस्य लोपः जातः |
 
 
यथा गम्‌ऌ धातुः, अत्रः ऌ इति अच्‌-वर्णः औपदेशिकधातौ अस्ति, लौकिकधातौ च नास्ति | अतः तस्य लोपः जातः स्यात्‌ | अनेन बुध्यते यत्‌ ऌ इति अच्‌-वर्णः अनुनासिकः अपि च '''उपदेशेऽजनुनासिक इत्''' इति सूत्रेण तस्य इत्‌-संज्ञा भवति | तदा अन्यत्‌ सूत्रम्‌ अस्ति '''तस्य लोपः''' (१.३.९) येन इत्‌-संज्ञकवर्णानां लोपः भवति | तर्हि '''तस्य लोपः''' इत्यनेन ऌ-लोपः; गम्‌ इति अवशिष्यते |
 
 
ऌ अनुनासिकः अस्ति इति कथं ज्ञातम्‌ ? फलं दृष्ट्वा | लोके गम्‌ इत्येव दृश्यते अतः ऌ इत्यस्य लोपः जातः; लोपः जातः चेत्‌ '''उपदेशेऽजनुनासिक इत्''' इत्येव सूत्रेण अर्हति स्म, अतः ऌ अनुनासिकः स्यात्‌ इति अनुमानम्‌ अस्माकम्‌ |
 
 
कुत्रचित् स्वरस्य इत्‌-संज्ञा-प्राप्तिः भवति अपरेण सूत्रेण यदा स्वरः अन्येन वर्णेन सह विशिष्टः वर्णसमूहः भवति | यथा डुपचष्‌ इत्यस्मिन्‌ डकारोत्तरवर्ती यः उकारः अस्ति, सः उकारः अनुनासिकः नास्ति | तत्र "डु" इत्येव एकः वर्णसमूहः | अधः एतादृशं विशिष्टम्‌ इत्‌-संज्ञक-कार्यम्‌ अपि प्रदर्श्यते |
 
 
तर्हि इत्संज्ञाप्रकरणे सप्त सूत्राणि सन्ति | अष्टाध्याय्याम्‌ चतुस्सहस्रं सूत्रणि, किन्तु तेषु केवलं सप्तभिः इत्‌-संज्ञा विधीयते | सप्त सूत्राणि ज्ञायन्ते चेत्‌, सर्वम्‌ इत्संज्ञाप्रकरणं ज्ञायते | इमानि च सप्त सूत्राणि पाणिनिना सौकर्यार्थम्‌ एकत्र स्थापितानि |
 
 
सप्तसु सूत्रेषु चत्वारि सूत्राणि सर्वेषु उपदेशेषु प्रयुज्यन्ते (धातुषु प्रत्ययेषु* च); त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते, न धातुषु | *अत्र प्रत्ययः इत्यनेन प्रत्ययाः, आदेशाः, आगमाः, त्रयाणाम्‌ अपि ग्रहणम्‌ |
Line 48 ⟶ 54:
 
चत्वारि सूत्राणि, उपदेशावस्थायां, सर्वेषु रूपेषु (धातुषु, प्रत्ययेषु, आदेशेषु, आगमेषु)—
 
 
१. '''उपदेशेऽजनुनासिक इत्''' (१.३.२) = उपदेशे (धातौ, प्रत्यये, आदेशे, आगमे) अच्‌-वर्णः अनुनासिकः चेत्‌, तस्य इत्‌-संज्ञा भवति | उपदेशे सप्तम्यन्तम्‌, अच्‌ प्रथमान्तम्‌, अनुनासिकः प्रथमान्तम्‌, इत्‌ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''उपदेशे अच्‌ अनुनासिकः इत्''' |
 
 
एधँ इति औपदेशिकधातुः → '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन अँकारस्य इत्‌-संज्ञा (तदा वक्ष्यमाणसूत्रेण '''तस्य लोपः''' [१.३.९] इत्यनेन यस्य इत्‌-संज्ञा तस्य लोपः) → एध्‌ इति लौकिकधातुः
 
 
२. '''हलन्त्यम्‌''' (१.३.३) = उपदेशस्य अन्ते हल्‌ वर्णः अस्ति चेत्‌, तस्य हल्‌-वर्णस्य इत्‌-संज्ञा भवति | हल्‌ प्रथमान्तम्‌, अन्त्यं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे अन्त्यम्‌ हल्‌ इत्''' |
 
 
कृ-धातुः + तृच्‌-प्रत्ययः → '''हलन्त्यम्‌''' (१.३.३) इत्यनेन चकारस्य इत्‌-संज्ञा (तदा '''तस्य लोपः''' इत्यनेन लोपः) → कृ + तृ → → कर्तृ इति प्रातिपदिकम्‌
 
 
३. '''न विभक्तौ तुस्माः''' (१.३.४) = विभक्त्यां तवर्गीयवर्णः, सकारः, मकारः च इत्‌-सज्ञकाः न भवन्ति | '''विभक्तिश्च''' (१.४.१०४) इत्यनेन सुप्‌-प्रत्ययाः तिङ्‌-प्रत्ययाः च सर्वे विभक्ति-संज्ञकाः | इदं सूत्रं '''हलन्त्यम्‌''' इत्यस्य बाधकसूत्रम्‌ | तुश्च स्‌ च मश्च, तेषाम्‌ इतरेतरद्वन्द्वः, तुस्माः | न अव्ययपदं, विभक्तौ सप्तम्यन्तं, तुस्माः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः''' |
 
 
राम + जस्‌ → '''चुटू''' (१.३.७) इत्यनेन जकारलोपः → राम + अस्‌ → '''हलन्त्यम्‌''' (१.३.३) इत्यनेन सकारस्य इत्‌-संज्ञा → '''न विभक्तौ तुस्माः''' (१.३.४) इत्यनेन सकारस्य इत्‌-संज्ञानिषेधः → रामास्‌ → रामाः
 
 
अन्ये विभक्तिसंज्ञकप्रत्ययाः यत्र हलन्तलोपः बाधितः — शस्‌, भिस्‌, भ्यस्‌, ङस्‌, ओस्‌, अम्‌, भ्याम्‌, आम्‌ | पदानि यत्र अन्तिमतवर्गीयवर्णः न लुप्तः— रामात्‌, तस्मात्‌, तस्मिन्‌, लभेरन्‌ |
 
 
४. '''आदिर्ञिटुडवः''' (१.३.५) = उपदेशस्य आदौ ञि, टु, डु इति त्रिषु एकः वर्णसमूहः अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति | ञि, टु, डु एते निबन्धाः धातुषु एव भवन्ति अतः इदं सूत्रं वस्तुतः धातूनां कृते | ञिः च, टुः च, डुः च, तेषाम्‌‍ इतरेतरद्वन्द्वः ञिटुडु, बहुवचने ञिटुडवः (गुरु-शब्दः इव) | आदिः प्रथमान्तं‌, ञिटुडवः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आदिः इति इत्‌ इति च बहुत्वे एकवचनम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे धातोः आदयः''' '''ञिटुडवः इतः''' |
 
 
टुनदिँ इति धातुः → '''आदिर्ञिटुडवः''' (१.३.५) इत्यनेन टु इति वर्णसमूहस्य इत्‌-संज्ञा (तदा '''तस्य लोपः''' इत्यनेन लोपः) → नदिँ → '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन इँकारस्य इत्‌-संज्ञा → नद्‌ → नन्द्‌ इति लौकिकधातुः (अत्र नुमागमः भवति इति अग्रे पठिष्यामः)
 
 
'''*इँर इत्संज्ञा वाच्या''' ['''नेटि''' (७.२.४) इति सूत्रस्य अन्तर्गतम्‌] एकं वार्त्तिकम्‌ =धातोः 'इँर्' इत्यस्य शब्दसमुदायस्य इत्‌-संज्ञा भवति | छिदिँर् इत्यादिषु धातुषु इरः इत्संज्ञा भवति.| भिदिँर्‌ → भिद्‌, छिदिँर्‌ → छिद्‌, दृशिँर् → दृश्‌, णिजिँर् → णिज्‌, युजिँर् → युज्, ईशुचिँर्‌ → शुच्‌ | धेयं यत्‌ इँकारस्य रेफस्य च भिन्नरीत्या इत्संज्ञा न करणीया |
 
 
त्रीणि सूत्राणि, उपदेशावस्थायां, प्रत्ययेषु एव—
 
 
१. '''षः प्रत्ययस्य''' (१.३.६) = प्रत्ययस्य आदौ षकारः अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति | षः प्रथमान्तं, प्रत्ययस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदिः षः इत्''' |
Line 76 ⟶ 94:
 
२. '''चुटू''' (१.३.७) = प्रत्ययस्य आदौ चवर्गीयः (च्‌, छ्‌, ज्‌, झ्‌, ञ्‌), अथवा टवर्गीयः (ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌) वर्णः भवति चेत्‌, तस्य वर्णस्य इत्‌-संज्ञा भवति | चुश्च टुश्च तयोः इतरेतरद्वन्द्वः, चुटू (द्विवचने, गुरु-शब्दः इव) | चुटू प्रथमान्तम्‌, एकपदमिदं सूत्रम्‌ | वचनविपरिणामं क्रियते | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदी चुटू इतौ''' |
 
 
राम + जस्‌ → '''चुटू''' (१.३.७) इत्यनेन जकारस्य इत्‌-संज्ञा (तदा '''तस्य लोपः''' इत्यनेन लोपः) → राम + अस्‌ → → रामाः
 
 
३. '''लशक्वतद्धिते''' (१.३.८) = प्रत्ययस्य आदौ लकारः, शकारः, कवर्गीयः (क्‌, ख्‌, ग्‌, घ्‌, ङ्‌) च वर्णः अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति; किन्तु तद्धितप्रत्यये न | लश्च, शश्च, कुश्च, तेषां समाहारद्वन्द्वः, लशकु | न तद्धितम्‌, अतद्धितं नञ्तत्पुरुषः, तस्मिन्‌ अतद्धिते | लशकु प्रथमान्तम्‌, अतद्धिते सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते''' |
Line 218 ⟶ 238:
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [[click here]].
 
To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].