02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 116:
 
'''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यस्मिन्‌ न काऽपि अनुवृत्तिः | सर्वं सूत्रे एव वर्तते |
 
 
'''हलन्त्यम्‌''' (१.३.३) इत्यस्मिन्‌ सूत्रे '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ सूत्रात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः | अतः "'''उपदेशे''' अन्त्यं हल्‌ '''इत्‌'''” इति वाक्यम्‌ |
 
 
'''न विभक्तौ तुस्माः''' (१.३.४) इत्यस्मिन्‌ '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः | '''हलन्त्यम्‌''' इत्यस्मात्‌ "हल्‌", “अन्त्यम्‌" इत्यनयोः अनुवृत्तिः | अतः "'''उपदेशे''' विभक्तौ '''अन्त्याः हलः''' तुस्माः न '''इतः'''" इति वाक्यम्‌ |
 
'''आदिर्ञिटुडवः''' (१.३.५) इत्यस्मिन्‌ '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ सूत्रात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः; '''भूवादयो धातवः''' (१.३.१) इत्यस्मात्‌ "धातोः" इत्यस्य अनुवृत्तिः (वचनपरिणामं विभक्तिपरिणामं च कृत्वा) | अतः "'''उपदेशे धातोः''' आदयः ञिटुडवः '''इतः'''” इति वाक्यम्‌ |
 
 
'''षः प्रत्ययस्य''' (१.३.६) इत्यस्मिन्‌ '''आदिर्ञिटुडवः''' इत्यस्मात्‌ "आदिः”, '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ "उपदेशे", “इत्‌", अतः "'''उपदेशे''' प्रत्ययस्य '''आदिः''' षः '''इत्'''" इति वाक्यम्‌ |
 
 
'''चुटू''' (१.३.७) इत्यस्मिन्‌ '''षः प्रत्ययस्य''' इत्यस्मात्‌ "प्रत्ययस्य", '''आदिर्ञिटुडवः''' इत्यस्मात्‌ "आदिः", '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ "उपदेशे", "इत्‌", अतः "'''उपदेशे प्रत्ययस्य''' '''आदिः''' चुटू '''इतौ'''" इति वाक्यम्‌ |
 
 
'''लशक्वतद्धिते''' (१.३.८) इत्यस्मिन्‌ पुनः '''षः प्रत्ययस्य''' इत्यस्मात्‌ "प्रत्ययस्य", '''आदिर्ञिटुडवः''' इत्यस्मात्‌ "आदिः", '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ “उपदेशे”, "इत्‌", अतः "'''उपदेशे''' '''प्रत्ययस्य''' '''आदिः''' ल, श, कु अतद्धिते '''इत्‌'''" इति वाक्यम्‌ |
 
 
'''तस्य लोपः''' (१.३.९) इत्यस्मिन्‌ '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ '''इत्‌''' इत्यस्य अनुवृत्तिः अतः "तस्य '''इतः''' लोपः" इति वाक्यम्‌ |
 
 
धेयं यत्‌ सिद्धान्तकौमुद्याः इत्‌संज्ञा-सम्बद्धसूत्राणां सूत्रसङ्ख्याः क्रमेण न वर्धन्ते | पठनेन अनुवृत्तिः न स्फुटा अतः सूत्रार्थः नावगम्यते |