02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam: Difference between revisions
02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam (view source)
Revision as of 06:51, 5 May 2021
, 3 years agono edit summary
Vamsisudha (talk | contribs) No edit summary |
Vamsisudha (talk | contribs) No edit summary |
||
Line 217:
३) प्रत्ययस्य अन्यरीत्या नामकरणं भवति— तस्य स्वभावम् अनुसृत्य, अनुबन्धानुगुणं भवति | णकारः अनुबन्धः चेत्, यथा णिच्-प्रत्ययः, तर्हि सङ्क्षेपे प्रत्ययस्य नाम णित् (णकारः इत् यस्य सः णित् इति बहुव्रीहिसमासः); ककारः अनुबन्धः चेत्, यथा क्त, क्तवतु, क्त्वा, तर्हि सङ्क्षेपे प्रत्ययस्य नाम कित् (ककारः इत् यस्य सः कित्) इत्यादिकम् |
प्रश्नः उदेति अनुबन्धाः किमर्थं युज्यन्ते पाणिनिना यदि तेषां लोपः भवति एव ? अनुबन्धाः अपगच्छन्ति, परन्तु तैः सङ्केतः दीयते कार्यार्थम् | यथा शप् इति विकरणप्रत्ययः | तस्य शकारस्य इत्-संज्ञा, पकारस्य च इत्-संज्ञा | अनुबन्धलोपानन्तरम् 'अ' इत्येव अवशिष्यते | शकारपकारयोः इत्-संज्ञा इत्यनेन धातोः स्वरपरिवर्तनं भवति | भू + शप् + ति → अनुबन्धलोपे → भू + अ + ति → शप्-प्रत्ययस्य कारणेन ऊकारः ओकारः भवति (गुणः) → भो + अ + ति → सन्धिः → भव + ति → भवति |▼
प्रश्नः उदेति अनुबन्धाः किमर्थं युज्यन्ते पाणिनिना यदि तेषां लोपः भवति एव ? अनुबन्धाः अपगच्छन्ति, परन्तु तैः सङ्केतः दीयते कार्यार्थम् | यथा शप् इति विकरणप्रत्ययः | तस्य शकारस्य इत्-संज्ञा, पकारस्य च इत्-संज्ञा |
▲
तर्हि क्रियापदविषये मूलधातुः कः, अपि च अनुबन्धानां निष्कासनानन्तरं किम् अवशिष्यते इति प्रथमम् अवगन्तव्यम् | परं तस्मात् धातोः विहितः यः प्रत्ययः अस्ति, तस्मिन् अपि अनुबन्धाः के, किं च अवशिष्यते | तदा एव अग्रे धातु-प्रत्यययोः मेलनेन क्रियापदं निर्मातुं शक्नुयाम | सुबन्तपदविषये (नामपदविषये) अपि तथा; प्रथमं कार्यम् अस्ति प्रकृति-प्रत्यययोः अनुबन्धलोपः | तदा एव पदनिर्माणम् |
|