02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam: Difference between revisions
02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam (view source)
Revision as of 07:24, 5 May 2021
, 3 years agono edit summary
Vamsisudha (talk | contribs) No edit summary |
Vamsisudha (talk | contribs) No edit summary |
||
Line 212:
१) अनुबन्धैः विभिन्नकार्याणि सिध्यन्ति |
२) यत्र प्रत्ययाः समानाः दृश्यन्ते, अनुबन्धैः ते भिद्यन्ते | यथा भ्वादिगणे शप्, तुदादिगणे श | उभयत्र 'अ' इत्येव अवशिष्यते अनुबन्धनिष्कासानन्तरम् | अनुबन्धवर्णैः एव प्रत्ययभेदः ज्ञायते | तथैव बहुत्र |
Line 219 ⟶ 220:
प्रश्नः उदेति अनुबन्धाः किमर्थं युज्यन्ते पाणिनिना यदि तेषां लोपः भवति एव ? अनुबन्धाः अपगच्छन्ति, परन्तु तैः सङ्केतः दीयते कार्यार्थम् | यथा शप् इति विकरणप्रत्ययः | तस्य शकारस्य इत्-संज्ञा, पकारस्य च इत्-संज्ञा |
अनुबन्धलोपानन्तरम् 'अ' इत्येव अवशिष्यते | शकारपकारयोः इत्-संज्ञा इत्यनेन धातोः स्वरपरिवर्तनं भवति | भू + शप् + ति → अनुबन्धलोपे → भू + अ + ति → शप्-प्रत्ययस्य कारणेन ऊकारः ओकारः भवति (गुणः) → भो + अ + ति → सन्धिः → भव + ति → भवति |
तर्हि क्रियापदविषये मूलधातुः कः, अपि च अनुबन्धानां निष्कासनानन्तरं किम् अवशिष्यते इति प्रथमम् अवगन्तव्यम् | परं तस्मात् धातोः विहितः यः प्रत्ययः अस्ति, तस्मिन् अपि अनुबन्धाः के, किं च अवशिष्यते | तदा एव अग्रे धातु-प्रत्यययोः मेलनेन क्रियापदं निर्मातुं शक्नुयाम | सुबन्तपदविषये (नामपदविषये) अपि तथा; प्रथमं कार्यम् अस्ति प्रकृति-प्रत्यययोः अनुबन्धलोपः | तदा एव पदनिर्माणम् |
वृत्तान्ते डुपचँष् (पाके) इति मूलस्वरूपं, पचति इति क्रियापदम् | तत्र सामान्यतया धातुः "पच्" इति वदामः; परन्तु मूलतया डुपचँष् इति उपदेशे स्वरूपं वर्तते | तत्र केचन अनुबन्धाः सन्ति— आरम्भे डु, अन्ते षकारः अपि च चकारोत्तरवर्ती अँकारः | चकारात् उत्तरं वर्तते इति चकारोत्तरवर्ती | वर्ती इत्यस्य प्रातिपदिकं वर्तिन्, वृत् धातोः | त्रयाणाम् अपि अनुबन्धानाम् इत्-संज्ञा भवति, परं लोपः भवति; पच् इत्येव अवशिष्यते | ततः परम् अस्माभिः प्रत्ययः कः इति चिन्तनीयं, यथा तव्यत् | तत्र तकारस्य इत्-संज्ञा लोपः च, तव्य इति अवशिष्यते | तर्हि पच् + तव्य इति स्थितिः | एतादृश्यां स्थित्याम् इदानीं कार्यस्य आरम्भः भवति, येन पक्तव्यम् इति रूपं निष्पद्येत |
एवमपि धेयं, केचन धातवः प्रत्ययाः चापि तादृशाः सन्ति, येषु अनुबन्धाः न भवन्ति | यथा भू-धातुः, भू सत्तायाम्— तत्र कोऽपि अनुबन्धः नास्ति | प्रत्ययेषु यथा 'अ' इति प्रत्ययः, तत्र अनुबन्धः नास्ति |
अन्यानि उदाहरणानि— प्रत्ययस्य ण् च ञ् च अनुबन्धः चेत्, धातोः अन्तिम-स्वरस्य वृद्धिः; प्रत्ययस्य क् च ङ् च अनुबन्धः चेत्, धातोः कस्यापि स्वरस्य गुणः वृद्धिः च न भवति | ण्, ञ्, क्, ङ् इत्येतान् अनुबन्धान् विहाय प्रत्ययस्य अन्यः कोऽपि अनुबन्धः चेत्, धातोः अन्तिम-स्वरस्य गुणः | एतादृशानि महत्वपूर्ण-कार्याणि अनुबन्धैः सिध्यन्ति |
|