02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/2---upadhAyAm-api-guNaH---sUtrasahitA-dRuShTiH: Difference between revisions
02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/2---upadhAyAm-api-guNaH---sUtrasahitA-dRuShTiH (view source)
Revision as of 03:37, 10 May 2021
, 3 years agoFont size
(content transferred) |
(Font size) |

Line 9:
भ्वादिगणे, अवस्थाद्वये गुणः भवति इति अस्माभिः दृष्टम् |
अ) भ्वादिगणे, धातोः अन्ते इक्-वर्णः (इ, ई, उ, ऊ, ऋ, ॠ) अस्ति चेत्, तस्य वर्णस्य गुणः भवति |
यथा— भू → भो, जि → जे, सृ → सर्
आ) भ्वादिगणे, धातोः उपधायां लघु इक्-वर्णः (इ, उ, ऋ) अस्ति चेत्, तस्य वर्णस्य गुणः भवति | उपधा नाम अन्तिमवर्णात् पूर्वं यः वर्णः, सः |
यथा— बुध् → बोध्, कृष् → कर्ष्
अत्र बुध्-धातौ उकारः उपधा-संज्ञकः; कृष्-धातौ ऋकारः उपधा-संज्ञकः |

गते पाठे प्रथमदशायाम् (इगन्त-अवस्थायां) गुणः कथं भवति इति अस्माभिः दृष्टम् | यस्य धातोः अन्तिमवर्णः इ, ई, उ, ऊ, ऋ, ॠ, ऌ (नाम इक्-प्रत्याहारे कश्चन वर्णः), सः धातुः इगन्तः धातुः | सार्वधातुक-प्रत्यये परे, इगन्तधातोः अङ्गस्य इकः गुणः, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन सूत्रेण |
इदानीं द्वितीयदशायाम् (इक्-उपधा-अवस्थायां) गुणः कथं भवति इति पश्याम | अवगमनार्थं लघुकथा (सङ्क्षिप्ता दृष्टिः) अपि अस्ति, पूर्णदृष्टिः अपि अस्ति | आदौ लघुकथाम् अवलोकयाम |

लघु कथा
१. बुध् → बोधति | अत्र '''उकारः''' = ह्रस्वः, बुध्-धातोः उपधायाम्, इक्-प्रत्याहारस्य सदस्यः च | अस्याम् अवस्थायां बुध्-धातुः भ्वादिगणे सन्, उकारस्य गुणः | शप्-विकरणप्रत्ययः एव कारणम् | किमर्थम् इति चेत्—

२'''. पुगन्तलघूपधस्य च''' (७.३.८६) = धातोः उपधायां लघु-इक् चेत्, तस्य गुणः भवति सार्वधातुके परे (सार्वधातुक-संज्ञक-प्रत्ययः धातोः अनन्तरम्) |
३. बुध् + शप् + ति → शप् 'शित्' अस्ति अतः 'सार्वधातुकम्'; अतः '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उकारस्य गुणः → बोधति |

पूर्णा कथा

|१.
| बुध्

|[लट्-लकार-विवक्षा (वक्तुम् इच्छा) → लट्-प्रत्ययः विधीयते]

|२.
|बुध् + लट्

|[लट्-स्थाने प्रथमपुरुषैकवचने तिप् प्रत्ययस्य आदेशः]

|३.
| बुध् + तिप्

|['''हलन्त्यम्''' इत्यनेन सूत्रेण पकारस्य इत्संज्ञा; '''तस्य लोपः''' इत्यनेन पकार-लोपः]

|४.
|बुध् + ति

|['''तिङ्शित् सार्वधातुकम्''' (३.४.११३) इत्यनेन ति 'तिङ्' अतः सार्वधातुक-संज्ञकः]
['''कर्तरि शप्''' इत्यनेन सूत्रेण कर्तरि अर्थे "ति" इति सार्वधातुके परे, शप्-प्रत्ययः विहितः]

|५.
| बुध् + शप् + ति

|['''लशक्वतद्धिते''' इत्यनेन सूत्रेण ल्,श्,क-वर्गे स्थिते वर्णानां इत्संज्ञा प्रत्ययस्य आदौ, तद्धित प्रत्ययः नास्ति चेत्]
['''हलन्त्यम्''' इत्यनेन सूत्रेण पकारस्य इत्संज्ञा; '''तस्य लोपः''' इत्यनेन शकार-पकारयोः लोपः]

|६.
|बुध् + अ + ति

'''पुगन्तलघूपधस्य च''' – पूर्वतने पाठे अस्माभिः दृष्टं यत् 'अ', 'शप्' इत्यस्य प्रतिनिधिः | शकारपकारयोः लोपः भवति, किन्तु तयोः लक्षणं तिष्ठति एव | शकारस्य इत्-संज्ञा अतः अवशिष्टः अकारः शित् अस्ति | शित् अस्ति अतः '''तिङ्शित् सार्वधातुकम्''' इत्यनेन सूत्रेण शप् (अधुना अकारः) सार्वधातक-संज्ञक-प्रत्ययः | तदा '''पुगन्तलघूपधस्य च''' इत्यनेन सूत्रेण धातौ उपधायाः ह्रस्व-इकः गुणः भवति |
७. बोध् + अ + ति [वर्णमेलने]
८. बोधति

"बुध् + शप् + ति" इति प्रसङ्गे '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यस्य अर्थः

१. "पुगन्तस्य लघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः" [अनुवृत्ति-सहितं सूत्रम्]
२. "पुगन्तस्य" इति भागम् अधः* अवलोकयाम | बुध्-धातोः कृते प्रसङ्गः नास्ति |
३. "'''लघूपधस्य अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः'''" इति अस्माकं कृते मुख्यः भागः अत्र |
४. लघ्वी + उपधा (लघु = ह्रस्वः वर्णः; लघ्वी इति लघु-शब्दः स्त्रीलिङ्गे)
५. लघ्वी + उपधा → लघूपधा (= ह्रस्वा इक्-उपधा; ह्रस्व इक् = इ, उ, ऋ) | बुध्-धातौ, लघूपधा नाम बुध्-धातोः ह्रस्व-उकारः |
६. लघूपधस्य = लघ्वी उपधा यस्य तत् लघूपधम् बहुव्रीहिः, तस्य लघूपधस्य | तस्य लघूपधस्य अङ्गस्य | प्रत्ययात् पूर्वं यः संपूर्णभागः, सः तस्य प्रत्ययस्य अङ्गम् | अत्र शप् इति प्रत्ययः; तस्मात् प्रत्ययात् पूर्वं बुध्-धातुः, अतः बुध्-धातुः शप्-प्रत्ययस्य अङ्गम् | बुध्-धातौ लघूपधा (ह्रस्वः उकारः) अपि अस्ति, अतः बुध्-धातुः स्वयं लघूपधम् | आहत्य बुध्-धातुः शप्-प्रत्ययस्य लघूपधम् अङ्गम् |
७. सार्वधातुकार्धधातुकयोः इति सप्तम्यन्तं पदम् | पाणिनीय-सूत्रेषु सप्तमीविभक्तिः इत्युक्तौ पूर्वकार्यम् | अतः सार्वधातुक-संज्ञक-प्रत्ययात् पूर्वं (नाम शप् प्रत्ययात् पूर्वम्) लघूपधम् (नाम बुध्-धातुः) अस्ति चेत, तस्य अङ्गस्य (नाम बुध्-धातोः) लघ्वी-उपधायाः इकः (इक् षष्ठीविभक्तिः = इकः; नाम उकारस्य) गुणः भवति | अतः उकारस्य स्थाने ओकारादेशः | बुध् + शप् + ति → बोधति |

भ्वादिगणे अन्यानि उदाहरणानि - '''पुगन्तलघूपधस्य च''' (७.३.८६) —

|शुच्

| शोचति (शोकम् अनुभवति)

|कृष्

|कर्षति (आकर्षणे)

|क्रुश्

|क्रोशति (रोदिति)

|रुह्

|रोहति (वर्धते)

|क्षुभ्

|क्षोभते (मथनं, क्रोधानुभवनम्)

|घुष्

|घोषति (शब्दं करोति)

|घृष्

|घर्षति (घर्षणे)

|पुष्

|पोषति (पालन-पोषणे)

अत्र न प्रसक्तिः—
१) धातौ स्वरः इक्-प्रत्याहारे च उपधायां च, किन्तु दीर्घः; तत्र गुणः असम्भवः | जीव् (जीवति), क्रीड् (क्रीडति), क्षीव् (क्षीवति), मील् (मीलति) |
२) धातौ स्वरः उपधायां, किन्तु इक् नास्ति; तत्र गुणः असम्भवः | एज् → एजति (एकारः इक्-प्रत्याहारे नास्ति) |
३) धातौ ह्रस्वः इक्-वर्णः अस्ति, किन्तु उपधायां न स्थितः; तत्र गुणः असम्भवः | निन्द् → निन्दति (नकारः उपधा-संज्ञकः; इकारः उपधायां नास्ति); हिंस् → हिंसति (अनुस्वारः उपधायां); भिक्ष् → भिक्षते (ककारः उपधायां); मुण्ड् → मुण्डति (णकारः उपधायां) |

पूर्णसूत्रार्थः—

'''पुगन्तलघूपधस्य च''' (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक् अन्ते यस्य तत् पुगन्तम्, लघ्वी उपधा यस्य तत् लघूपधम् | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात् '''गुणः''' इत्यस्य अनुवृत्तिः; '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इकः''' स्थानी भवति यत्र स्थानी नोक्तम् | अनुवृत्ति-सहितसूत्रम्— '''पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |

ध्येयं यत् '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति सूत्रस्य अनुवृत्ति-सहितसूत्रम् एवम्— '''इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः''' | अत्र '''इकः अङ्गस्य गुणः''' इत्यस्य वदनेन अङ्गस्य अन्ते यः इक्-वर्णः, तस्य गुणः इति अर्थः | तत्र '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '<nowiki/>'''इकः अङ्गस्य'''<nowiki/>' इत्युक्ते न केवलम् इक् इति अङ्गं, किन्तु तादृशम् अङ्गं यस्य अन्ते इक्; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | किन्तु '''पुगन्तलघूपधस्य च''' (७.३.८६) इति सूत्रे इकः गुणः अङ्गस्य अन्ते न अपि तु उपधायाम् | एतदर्थं '''येन विधिस्तदन्तस्य''' (१.१.७२), '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनयोः प्रसक्तिः नास्ति | अपि च अनुवृत्ति-सहितसूत्रे '''अङ्गस्य इकः गुणः''' इति अस्ति न तु '''इकः अङ्गस्य गुणः''' | '''पुगन्तलघूपधस्य च''' (७.३.८६) इति सूत्रे '<nowiki/>'''अङ्गस्य'''<nowiki/>', ''''इकः'''<nowiki/>' अनयोः पदयोः समानाधिकरणं न इष्टम् |

*"पुगन्तस्य" इत्यस्य सूत्रसहितं रूपम्— '''पुगन्तस्य''' '''अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' | अनेन केषाञ्चित् विशिष्ट-धातूनाम् अङ्गस्य उपधायां यः इक्-वर्णः, सः लघुः नास्ति चेदपि गुणादेशः भवति | '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग्णौ''' (७.३.३६) इति सूत्रेण ऋ, ह्री, व्ली, री, क्नूयी, क्ष्मायी इत्येषां धातूनाम्, आकारान्तधातूनां च पुक्-आगमः भवति णिच्-प्रत्यये परे | यथा— दा-धातुः, लटि ददाति → णिचि दापयति | दा + णिच् → अनुबन्धलोपे → दा + इ → पुगागमः → दा + प् + इ → दापि इति णिजन्तधातुः | दापि + शप् + ति → दापयति | एतादृशीषु स्थितिषु धातु-णिच्प्रत्यययोः मध्ये पुक्-आगमः (पुगागमः) भवति | यथा दापि इति धातौ दाप् इति धातोः पुगन्तम् अङ्गम् इति उच्यते | पुक् अन्ते यस्य, तत् पुगन्तम् |

तर्हि णिच्-प्रत्यये परे, आकारान्तधातूनां पुगागमः भवति, यथा दा → दाप् → दापि → दापयति | परन्तु तत्र पुगन्ताङ्गस्य उपधायाम् आकारः (दाप्), अतः गुणकार्यस्य प्रसङ्गः एव नास्ति | किन्तु अन्ये धातवः अपि सूत्रे सूचिताः सन्ति येषां पुगन्ताङ्गस्य उपधायाम् इक्-स्वरः अस्ति, यथा— ऋ, ह्री, व्ली, री | एषां पुगन्तम् अङ्गम्— ऋप्, ह्रीप्, व्लीप्, रीप् | अत्र यद्यपि उपधायां ह्रस्व-इक्-वर्णः (लघूपधा) नास्ति अपि तु दीर्घ-इक्-वर्णः, तथापि '''पुगन्तलघूपधस्य च''' इत्यनेन पुगन्ताङ्गस्य दीर्घ-इकः गुण-आदेशः भवति— ऋप् → अर्प्, ह्रीप् → ह्रेप्, व्लीप् → व्लेप्, रीप् → रेप् |

लट्-लकारे ऋप् → अर्प् → अर्पि → अर्पयति; ह्रीप् → ह्रेप् → ह्रेपि → ह्रेपयति; व्लीप् → व्लेप् → व्लेपि → व्लेपयति; रीप् → रेप् → रेपि → रेपयति |

'''अलोऽन्त्यात् पूर्व उपधा''' (१.१.६५) = वर्णसमुदायस्य यः अन्तिमवर्णः, तस्मात् पूर्ववर्णस्य उपधासंज्ञा भवति | संज्ञासूत्रम् | अलः पञ्चम्यन्तम्, अन्त्यात् पञ्चम्यन्तं, पूर्वः प्रथमान्तम्, उपधा प्रथमान्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''अन्त्यात् अलः पूर्व उपधा''' |

चुरादिगणे
१) चुरादिगणे '''पुगन्तलघूपधस्य च''' इति सूत्रस्य प्रसक्तिः | चुर् → चोरयति; तुल् → तोलयति; घुष् → घोषयति; चुद् → चोदयति; विल् → वेलयति |
२) चुरादिगणे धात्वङ्गे '''सार्वधातुकार्धधातुकयोः''' इति सूत्रस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः न भवति | चुरादिगणे इगन्तधातवः तु सन्ति, परन्तु तत्र इगन्तधातुषु वृद्धिः भवति |
यथा घृ प्रस्रवणे इति चुरादिगणीयधातुः—
घृ + णिच् → '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धि-आदेशः (न तु गुणः) → घार् + इ → घारि → घारि + शप् + ति → घारयति

एवमेव प्रेरणार्थे णिच्-प्रत्यये परे—
नी + णिच् → वृद्धि-आदेशः (न तु गुणः) → नै + इ → सन्धिः (आय्-आदेशः) → नाय् + इ → नायि → नायि + शप् + ति → नाययति
भू + णिच् → वृद्धि-आदेशः (न तु गुणः) → भौ + इ → सन्धिः (आव्-आदेशः) → भाव् + इ → भावि → भावि + शप् + ति → भावयति
कृ + णिच् → वृद्धि-आदेशः (न तु गुणः) → कार् + इ → कारि → कारि + शप् + ति → कारयति

तिङन्तप्रकरणे गुण-विधायक-सूत्रद्वयम् अस्ति— '''सार्वधातुकार्धधातुकयोः''' (७.३.८४), '''पुगन्तलघूपधस्य च''' (७.३.८६) इति | इदानीं सूत्रद्वयस्य अपि परिचयः जातः |
Swarup – August 2012 (Updated November 2015)