02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/2---upadhAyAm-api-guNaH---sUtrasahitA-dRuShTiH: Difference between revisions

no edit summary
(PDF uploaded)
No edit summary
Line 29:

लघु कथा

१. बुध्‌ → बोधति | अत्र '''उकारः''' = ह्रस्वः, बुध्‌-धातोः उपधायाम्‌, इक्‌-प्रत्याहारस्य सदस्यः च | अस्याम्‌ अवस्थायां बुध्‌-धातुः भ्वादिगणे सन्‌, उकारस्य गुणः | शप्‌-विकरणप्रत्ययः एव कारणम्‌ | किमर्थम्‌ इति चेत्‌—
Line 130 ⟶ 132:
|पोषति (पालन-पोषणे)

अत्र न प्रसक्तिः—

Line 140 ⟶ 145:

पूर्णसूत्रार्थः—

'''पुगन्तलघूपधस्य च''' (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक्‌ अन्ते यस्य तत्‌ पुगन्तम्‌, लघ्वी उपधा यस्य तत्‌ लघूपधम्‌ | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्‌, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः; '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इकः''' स्थानी भवति यत्र स्थानी नोक्तम्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |

ध्येयं यत्‌ '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति सूत्रस्य अनुवृत्ति-सहितसूत्रम्‌ एवम्‌— '''इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः''' | अत्र '''इकः अङ्गस्य गुणः''' इत्यस्य वदनेन अङ्गस्य अन्ते यः इक्‌-वर्णः, तस्य गुणः इति अर्थः | तत्र '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '<nowiki/>'''इकः अङ्गस्य'''<nowiki/>' इत्युक्ते न केवलम्‌ इक्‌ इति अङ्गं, किन्तु तादृशम्‌ अङ्गं यस्य अन्ते इक्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | किन्तु '''पुगन्तलघूपधस्य च''' (७.३.८६) इति सूत्रे इकः गुणः अङ्गस्य अन्ते न अपि तु उपधायाम्‌ | एतदर्थं '''येन विधिस्तदन्तस्य''' (१.१.७२), '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनयोः प्रसक्तिः नास्ति | अपि च अनुवृत्ति-सहितसूत्रे '''अङ्गस्य इकः गुणः''' इति अस्ति न तु '''इकः अङ्गस्य गुणः''' | '''पुगन्तलघूपधस्य च''' (७.३.८६) इति सूत्रे '<nowiki/>'''अङ्गस्य'''<nowiki/>', ''''इकः'''<nowiki/>' अनयोः पदयोः समानाधिकरणं न इष्टम्‌ |

*"पुगन्तस्य" इत्यस्य सूत्रसहितं रूपम्‌— '''पुगन्तस्य''' '''अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' | अनेन केषाञ्चित्‌ विशिष्ट-धातूनाम्‌ अङ्गस्य उपधायां यः इक्-वर्णः, सः लघुः नास्ति चेदपि गुणादेशः भवति | '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग्णौ''' (७.३.३६) इति सूत्रेण ऋ, ह्री, व्ली, री, क्नूयी, क्ष्मायी इत्येषां धातूनाम्‌, आकारान्तधातूनां च पुक्‌-आगमः भवति णिच्‌-प्रत्यये परे | यथा— दा-धातुः, लटि ददाति → णिचि दापयति | दा + णिच्‌ → अनुबन्धलोपे → दा + इ → पुगागमः → दा + प्‌ + इ → दापि इति णिजन्तधातुः | दापि + शप्‌ + ति → दापयति | एतादृशीषु स्थितिषु धातु-णिच्‌प्रत्यययोः मध्ये पुक्‌-आगमः (पुगागमः) भवति | यथा दापि इति धातौ दाप्‌ इति धातोः पुगन्तम्‌ अङ्गम्‌ इति उच्यते | पुक्‌ अन्ते यस्य, तत्‌ पुगन्तम्‌ |

तर्हि णिच्‌-प्रत्यये परे, आकारान्तधातूनां पुगागमः भवति, यथा दा → दाप्‌ → दापि → दापयति | परन्तु तत्र पुगन्ताङ्गस्य उपधायाम्‌ आकारः (दाप्‌), अतः गुणकार्यस्य प्रसङ्गः एव नास्ति | किन्तु अन्ये धातवः अपि सूत्रे सूचिताः सन्ति येषां पुगन्ताङ्गस्य उपधायाम्‌ इक्-स्वरः‌ अस्ति, यथा— ऋ, ह्री, व्ली, री | एषां पुगन्तम्‌ अङ्गम्‌— ऋप्‌, ह्रीप्‌, व्लीप्‌, रीप्‌ | अत्र यद्यपि उपधायां ह्रस्व-इक्‌-वर्णः (लघूपधा) नास्ति अपि तु दीर्घ-इक्‌-वर्णः, तथापि '''पुगन्तलघूपधस्य च''' इत्यनेन पुगन्ताङ्गस्य दीर्घ-इकः गुण-आदेशः भवति— ऋप्‌ → अर्प्‌, ह्रीप्‌ → ह्रेप्‌, व्लीप्‌ → व्लेप्‌, रीप्‌ → रेप्‌ |

लट्‌-लकारे ऋप्‌ → अर्प्‌ → अर्पि → अर्पयति; ह्रीप्‌ → ह्रेप्‌ → ह्रेपि → ह्रेपयति; व्लीप्‌ → व्लेप्‌ → व्लेपि → व्लेपयति; रीप्‌ → रेप्‌ → रेपि → रेपयति |

'''अलोऽन्त्यात्‌ पूर्व उपधा''' (१.१.६५) = वर्णसमुदायस्य यः अन्तिमवर्णः, तस्मात्‌ पूर्ववर्णस्य उपधासंज्ञा भवति | संज्ञासूत्रम्‌ | अलः पञ्चम्यन्तम्‌, अन्त्यात्‌ पञ्चम्यन्तं, पूर्वः प्रथमान्तम्‌, उपधा प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''अन्त्यात्‌ अलः पूर्व उपधा''' |
Line 171 ⟶ 180:

कृ + णिच्‌ → वृद्धि-आदेशः (न तु गुणः) → कार्‌ + इ → कारि → कारि + शप्‌ + ति → कारयति

तिङन्तप्रकरणे गुण-विधायक-सूत्रद्वयम्‌ अस्ति— '''सार्वधातुकार्धधातुकयोः''' (७.३.८४), '''पुगन्तलघूपधस्य च''' (७.३.८६) इति | इदानीं सूत्रद्वयस्य अपि परिचयः जातः |

page_and_link_managers, Administrators
5,097

edits