03---dhaatuvijjaanam/2---dhaatuvijjaanam: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(7 intermediate revisions by 3 users not shown)
Line 39:
 
 
<big>अत्र कश्चन प्रसिद्धप्रवादो वर्तते— '''निमित्तापाये नैमित्तिकस्याप्यपायः''' | निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः | निमित्तम्‌ इत्युक्ते कारणं, नैमित्तिकम्‌ इत्युक्ते फलम्‌, अपायः इत्युक्ते अभावः | अत्र धेयं यत्‌ यद्यपि 'ष्ठा' इत्येव अस्य धातोः मूलरूपं, किञ्च वस्तुतः यः ठकारः वर्तते, सः थकारः आसीत् | अष्टाध्याय्यां तादृशम्‌ इङ्गितम्‌ अस्ति; कथमिति अग्रे दृश्यताम् | ठकारस्य मूलस्वरूपं थकारः, किन्तु षकारस्य प्रभावेन (ष्टुत्व-सन्धिना) थकारः ठकारः जातः | तदा '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन षकारस्य स्थाने सकारादेशः | षकारस्य कारणेन एव थकारः ठकारः जातः इत्युक्तम्‌ | अधुना स च षकारः अपगतः; गतः इति कारणतः, तेन षकारेण कृतं यत्‌ कार्यं, तत्‌ पुनः निवर्तते | कारणं गतम्‌, अतः फलम्‌ अपि गच्छति— येन निमित्तेन कार्यं कारितं, तन्निम्मित्तंतन्निमित्तं (षकारः) नास्ति चेत्‌, यत्‌ नैमित्तिकम्‌ (ठकारः) अस्ति, तदपि न तिष्ठति | '''निमित्तापाये नैमित्तिकस्याप्यपायः'''— षकारः गतः, अतः ठकारः अपि गच्छति | ष्ठा → स्ठा → स्था इति धातुः निष्पन्नः |</big>
 
 
Line 100:
 
 
<big>अन्यानि उदाहरणानि—प्रणमति, प्रणयति, परिणमति, परिणयति इत्यदीनिइत्यादीनि रूपाणि |</big>
 
 
Line 152:
 
 
<big>(प्रश्नः— अत्रोक्तं "ज्ञान + इ [शि-प्रत्ययः]” | केचन श्रुतवन्तः स्युः यत्‌ सुबन्तविषये प्रत्ययाः भवन्ति सु, औ, जस्‌ इत्यादयः | तर्हि प्रथमपुरुषस्यप्रथमाविभक्तौ बहुवचने 'जस्‌' इति प्रत्ययः भवेत्‌ किल; कथं वा 'शि' इति जातम्‌ ? उत्तरम्‌ अस्ति यत्‌ मूलप्रत्ययाः सु, औ, जस्‌ इति तु सत्यम्‌ | किन्तु अनन्तरं प्रत्ययादेशाः भवन्ति, इत्युक्ते मूलप्रत्ययानां स्थाने आदेशाः भवन्ति | सुबन्तविषये लिङ्गम्‌ अनुसृत्य, कुत्रचित्‌ प्रातिपदिकस्य अन्तिमवर्णम्‌ अनुसृत्य च आदेशाः भिद्यन्ते | नपुंसकलिङ्गे '''जश्शसोः शिः''' (७.१.२०) इत्यनेन नपुंसकात्‌ अङ्गात्‌ जस्‌-स्थाने शि-आदेशः | अनेन नपुंसकलिङ्गे, प्रथमपुरुषस्यप्रथमाविभक्तौ बहुवचने इकारः आयाति—वनानि, वारीणि, मधूनि, जगन्ति, कर्माणि, धनूंषि, मनांसि |)</big>
 
 
Line 167:
<big>तथैव मदिँ → मन्द्‌, वदिँ → वन्द्‌, भदिँ → भन्द्‌, चदिँ → चन्द्‌, ग्लदिँ → ग्लन्द्‌ | परन्तु त्रपिँ → '''त्रम्प्‌''' |</big>
 
<big>त्रम्प्‌ इत्यस्मिन्‌ किमर्थं मकारः न तु नकारः ? वस्तुतः नकारः आयाति एव; तदा नकारस्थाने अनुस्वारः, अनुस्वारस्थनेअनुस्वारस्थाने तत्तत्‌ वर्गीयः अनुनासिकवर्णः आयाति |</big>
 
<big><br />यथा—</big>
Line 234:
 
 
<big>प्रश्नः उदेति—‌ यदि वदिँ-धातौ नकारादेशः भवति एव, तर्हि किमर्थं वन्द्‌ मूलधातुः न स्यात्‌ ? तथैव यदि लबि मकारः आयाति एव, तर्हि किमर्थं लम्ब्‌ इत्येव मूलधातुः न स्यात्‌ ? उत्तरम्‌ अस्ति यत्‌ तत्र कतिचन कार्याणि सन्ति | यथा '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन यः धातुः इदित्‌ नास्ति, तस्य धातोः उपधायां स्थितस्य नकारस्य लोपः स्यात्‌ किति ङिति परे | परन्तु इदित्‌ चेत्‌ अस्माभिः यः नकारः आनीतः, तस्य नकारस्य लोपः कस्यामपि दशायां न भवति | साक्षात्‌ आरम्भतः नकारः अस्ति चेत्‌, तस्य लोपः किति ङिति च भवति | यथा बन्ध-धातौ नकारः उपस्थितः मूलधातौ, अतः किति ङिति परे नकारलोपः | ल्युटि "बन्धनं" (नकारः उपस्थितः यतोहि ल्युट्‌ प्रत्ययः कित्‌ अपि नास्ति, ङित्‌ अपि नास्ति); परन्तु क्तान्तरूपं "बद्ध" (नकारलोपः यतोहि क्त प्रत्ययः कित्‌ अस्ति) | वदिँ धातोः '''इदितो नुम्‌ धातोः''' इत्यनेन नुम्‌ आगमः → वन्द् | अस्य नकारस्य लोपः किति ङिति न भवति— यथा क्तान्तरूपं वन्दितः |</big>
 
 
Line 287:
 
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/d1/dd1d/%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A4%AE%E0%A5%8D_8D%E2%80%8C_-_%E0%A5%A8.%E0%A5%A7.pdf धातुविज्ञानम् - २.pdf]</big>
 
 
page_and_link_managers, Administrators
5,097

edits