03---dhaatuvijjaanam/2---dhaatuvijjaanam: Difference between revisions

Content copied
No edit summary
(Content copied)
Line 18:
|6. [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/12_Dhatu-vigyanam_2_numagamah__upadhadirghah__abhyasah_2014-11-18.mp3 dhAtu-vigyAnam_2_numAgamaH_+_upadhAdIrghaH_+_abhyAsaH_2014-11-18]  
|}
 
 
मूलधातूनां लौकिकरूपाणां सिद्ध्यर्थं कार्यद्वयं विचारणीयम्‌ | धातुविज्ञानम्‌ - १ इति पाठे अस्माभिः दृष्टं यत्‌ अनुबन्धानां निष्कासनम्‌ इति प्रथमं कार्यम्‌ | इत्‌-संज्ञकवर्णानां निष्कासनानन्तरं सत्वं, नत्वं, नुमागमः, उपधादीर्घः—चेमानि सङ्गृहीततया द्वितीयं कार्यम्‌ | एषु चतुर्षु किञ्चन सम्भवति वा इति अवश्यं चिन्तनीयम्‌ | सम्भवति चेत्‌, इदं कार्यं कुर्मः; नो चेत्‌ धातुः प्रक्रियार्थं सिद्धः | तर्हि इमानि चत्वारि कार्याणि कानि इति अस्मिन्‌ करपत्रे अवलोकयाम |
 
=== <big>१. सत्वम्‌</big> ===
 
 
 
'''धात्वादेः षः सः''' (६.१.६३) = उपदेशावस्थायां धातोः आदौ षकारः अस्ति चेत्‌, षकारस्य स्थाने सकारादेशो भवति | धातोः आदिः, धात्वादिः षष्ठीतत्पुरुषः; तस्य धात्वादेः | धात्वादेः षष्ठ्यन्तं, षः षष्ठ्यन्तं, सः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात्‌ '''उपदेशे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''धात्वादेः षः सः उपदेशे |'''
 
 
 
वृत्तान्ते ष्वदँ आस्वादने इति धातुः | '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन दकारोत्तरवर्तिनः अँकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' इत्यनेन लोपश्च | ष्वदँ → ष्वद्‌ | '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन आदौ स्थितस्य षकारस्य स्थाने सकारादेशः, ष्वद्‌ → स्वद्‌ |
 
 
 
अन्यत्‌ उदाहरणं, ष्ठा गतिनिवृत्तौ इति धातुः | यथासामान्यं, प्रथमं कार्यम्‌ इत्‌-संज्ञकवर्णानां निष्कासनम्‌ | ष्ठा-धातौ कोऽपि इत्‌-संज्ञकः वर्णः नास्ति, अतः प्रथमं सोपानं समाप्तं; साक्षात्‌ द्वितीयं सोपानं गच्छेम— तत्र चतुर्षु कार्येषु सत्वस्य प्रसक्तिः | ष्ठा-धातोः आदौ षकारः अस्ति, अतः '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन सूत्रेण षकारस्य स्थाने सकारः | ष्ठा → स्ठा |
 
 
 
अत्र कश्चन प्रसिद्धप्रवादो वर्तते— '''निमित्तापाये नैमित्तिकस्याप्यपायः''' | निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः | निमित्तम्‌ इत्युक्ते कारणं, नैमित्तिकम्‌ इत्युक्ते फलम्‌, अपायः इत्युक्ते अभावः | अत्र धेयं यत्‌ यद्यपि 'ष्ठा' इत्येव अस्य धातोः मूलरूपं, किञ्च वस्तुतः यः ठकारः वर्तते, सः थकारः आसीत् | अष्टाध्याय्यां तादृशम्‌ इङ्गितम्‌ अस्ति; कथमिति अग्रे दृश्यताम् | ठकारस्य मूलस्वरूपं थकारः, किन्तु षकारस्य प्रभावेन (ष्टुत्व-सन्धिना) थकारः ठकारः जातः | तदा '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन षकारस्य स्थाने सकारादेशः | षकारस्य कारणेन एव थकारः ठकारः जातः इत्युक्तम्‌ | अधुना स च षकारः अपगतः; गतः इति कारणतः, तेन षकारेण कृतं यत्‌ कार्यं, तत्‌ पुनः निवर्तते | कारणं गतम्‌, अतः फलम्‌ अपि गच्छति— येन निमित्तेन कार्यं कारितं, तन्निम्मित्तं (षकारः) नास्ति चेत्‌, यत्‌ नैमित्तिकम्‌ (ठकारः) अस्ति, तदपि न तिष्ठति | '''निमित्तापाये नैमित्तिकस्याप्यपायः'''— षकारः गतः, अतः ठकारः अपि गच्छति | ष्ठा → स्ठा → स्था इति धातुः निष्पन्नः |
 
 
 
तथैव यत्र धातुषु अनुनासिकः वर्गीयवर्णः (ङ्‌, ञ्‌, ण, म्) च अनुस्वारः च अस्ति, तत्र एते वर्णाः नकारजाः | नकारजः नाम नकारात्‌ उत्पन्नः | वृत्तान्ते अञ्चु-धातुः, गतिपूजनयोः | मूलधातुः अञ्चु इत्येव, किन्तु तत्र ञकारस्य मूलस्वरूपं नकारः | चकारस्य योगेन एव सः नकारः ञकारः जातः | धातुषु एवं सर्वत्र बोध्यम्‌ |
 
 
 
Line 45 ⟶ 50:
 
ष्ठा-धातोः उपदेशावस्थायां मूर्धन्य-षकारः अस्ति, परन्तु दन्त्य-थकारः अस्ति— 'ष्था' इति स्थितिः | अधुना युगपत्‌ '''ष्टुना ष्टुः''' (८.४.४१) च '''धात्वादेः षः सः''' (६.१.६३) च आगत्य कार्यार्थम्‌ उद्युक्तं भवति | '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्था-धातौ विद्यमानस्य षकारस्य प्रभावेन थकारस्य स्थाने ठकारादेशः, अपि च '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन औपदेशिकधातोः आदौ स्थितस्य षकारस्य स्थाने सकारादेशः | अस्यां दशायां द्वयोः सूत्रयोः मध्ये कस्य कार्यं प्रथमं प्रवर्तनीयम्‌ इति प्रश्ने सति अस्माकं पाठे अग्रे वक्ष्यमाणेन '''पूर्वत्रासिद्धम्‌''' (८.२.१) इति सूत्रेण '''ष्टुना ष्टुः''' (८.४.४१) इति शास्त्रम्‌ असिद्धं तस्य त्रिपाद्यां विद्यमानत्वात्‌ | '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन षकारस्य सकारादेशो भवति; तदा यतोहि तदानीं षकारो नास्त्येव, '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन यः ठकारादेशः भवति स्म, सः तु न भवति असङ्गत्वात्‌ | दन्त्य-थकारः यथावत्‌ तिष्ठति एव, दन्त्य-सकारस्तु जातः अतः लौकिकधातुः स्था इति सम्पन्नम्‌ | अस्यां प्रक्रियायां थकारस्य ठकारः न कदापि भवति | अयं विषयः बाध्यबाधकभावस्य पाठे इतोऽपि स्पष्टं भविष्यति; अस्य अभावे '''निमित्तापाये नैमित्तिकस्याप्यपायः''' इति प्रवादः अत्र दत्तः |
 
 
 
Line 55 ⟶ 61:
 
अस्य महत्त्वं किम्‌ इति चेत्‌, कार्यं कुत्रचित्‌ अस्मिन्‌ अवलम्ब्यते | यथा णत्व-विषये—
 
 
 
'''उपसर्गादसमासेऽपि णोपदेशस्य''' (८.४.१४) = उपसर्गस्थात्‌ निमित्तात्‌ परस्य णोपदेशस्य धातोः नस्य णः स्यात्‌ समासे असमासे अपि | आधिक्येन नकारादि-धातवः यथा नी (नयति), नम्‌ (नमति), नश्‌ (नश्यति), एते धातवः वस्तुतः उपदेशे णकारादयः सन्ति | तदा '''णो नः''' (६.१.६४) इत्यनेन, लोके नकारादयः भवन्ति | यत्र एते धातवः उपसर्गपूर्वाः भवन्ति अपि च उपसर्गे णत्वस्य निमित्तं वर्तते— यथा परि + नी — तत्र यतोहि उपसर्गः पृथक्‌ पदम्‌ अस्ति, अतः '''रषाभ्यां नो णः समानपदे''' (८.४.१) इति णत्वविधायकसूत्रेण णत्वं न स्यात्‌ | किन्तु '''उपसर्गादसमासेऽपि णोपदेशस्य''' (८.४.१४) इति सूत्रेण यत्र णोपदेश-धातुः उपसर्गपूर्वकः अस्ति अपि च उपसर्गे णत्वस्य निमित्तम्‌ अस्ति, तत्र णत्वस्य निमित्तं समानपदे नास्ति चेदपि णत्वं भवति |
 
 
 
Line 73 ⟶ 81:
 
परि + नम्‌ + घञ्‌ → परिणामः
 
 
 
Line 89 ⟶ 98:
धेयं यत्‌ '''उपसर्गादसमासेऽपि णोपदेशस्य''' (८.४.१४) इत्यस्य अनुवृत्ति-सहितसूत्रम्‌ अस्ति '''उपसर्गात्‌ असमासे अपि णोपदेशस्य रषाभ्यां नः णः अट्कुप्वाङ्‌नुम्व्यवाये अपि संहितायाम्‌''' |
 
''''अट्कुप्वाङ्‌नुम्व्यवाये अपि'''<nowiki/>' इत्यनेन एतान्‌ वर्णान्‌ वर्जयित्वा निमित्तस्य उद्देश्यस्य च मध्ये अन्यः कोऽपि वर्णः भवति चेत्‌ स च वर्णः णत्वं प्रति व्यवधानम्‌ | यथा—
 
यथा—
 
प्र + नि + नदति → प्रणिनदति
Line 100 ⟶ 111:
 
=== <big>३. नुमागमः</big> ===
 
 
 
'''इदितो नुम्‌ धातोः''' (७.१.५८) = इदितः धातोः नुम्‌ आगमो भवति | इदित्‌ इत्युक्ते इत्‌ इत्‌ यस्य सः | तत्र प्रथमः इत्‌ नाम ह्रस्वः इकारः* | द्वितीयः इत्‌ नाम इत्‌-संज्ञा | ह्रस्व-इकारस्य इत्‌-संज्ञा यस्य, सः धातुः इदित्‌ | इत्‌ इत्‌ यस्य स इदित्‌ बहुव्रीहिः, तस्य इदितः | इदितः षष्ठ्यन्तं, नुम्‌ प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''इदितः धातोः नुम्‌''' |
 
 
 
Line 125 ⟶ 138:
तथैव मदिँ → मन्द्‌, वदिँ → वन्द्‌, भदिँ → भन्द्‌, चदिँ → चन्द्‌, ग्लदिँ → ग्लन्द्‌ | परन्तु त्रपिँ → '''त्रम्प्‌''' |
 
त्रम्प्‌ इत्यस्मिन्‌ किमर्थं मकारः न तु नकारः ? वस्तुतः नकारः आयाति एव; तदा नकारस्थाने अनुस्वारः, अनुस्वारस्थने तत्तत्‌ वर्गीयः अनुनासिकवर्णः आयाति | यथा—
 
 
यथा—
 
वदिँ → वद्‌ → वन्द्‌ → वंद् → वन्द्‌
Line 142 ⟶ 158:
 
लबिँ → लब्‌ → लन्ब्‌ → लंब्‌ → लम्ब्‌
 
 
 
'''नश्चापदान्तस्य झलि''' (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | '''मो‍ऽनुस्वारः''' (८.३.२३) इत्यस्मात्‌ '''मः''', '''अनुस्वारः''' इत्यनयोः अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तस्य मः नः च अनुस्वारः''' '''झलि संहितायाम्''' |
 
 
 
'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनुस्वारस्य ययि परसवर्णः संहितायाम्''' |
 
 
 
'''परसवर्णः''' इत्युक्ते अनुस्वारोत्तरः यः वर्णः, तस्य सवर्णः | सवर्णः नाम अनुस्वारोत्तरवर्ती यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते | अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु | परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः ? '''स्थाने‍ऽन्तरतमः''' (१.१.५०) सूचयति यत्‌ यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्टो भवतु | वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव | अतः '''स्थाने‍ऽन्तरतमः''' इत्यस्य साहाय्येन '''अनुस्वारस्य ययि परसवर्णः''' इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशो भवति | नाम क, ख, ग, घ इत्येषु कश्चन परे अस्ति चेत्‌, अनुस्वारस्य स्थाने ङकारादेशः | तथैव च, छ, ज, झ इत्येषु कश्चन परे अस्ति चेत्‌, ञकारादेशः; टवर्गीयः अस्ति चेत्‌ णकारादेशः; पवर्गीयः अस्ति चेत्‌ मकारादेशः | यथा‌—अंग → अङ्ग, मंच → मञ्च, मंता → मन्ता |
 
'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इति सूत्रेण अनुस्वारस्य वर्गीयव्यञ्जनेषु परेषु तत्तद्वर्गस्य पञ्चमो वर्णादेशो भवति | यकारः, वकारः, लकारश्चापि यय्‌-प्रत्याहारे सन्ति, किन्तु वर्गीयव्यञ्जनानि न; तेषां का गतिः ? यवले परे तु य्‌ँय्ँ, व्‌ँव्ँ, ल्‌ँल्ँ इत्यादेशो भवति, इति बोध्यम्‌ |
 
 
 
Line 160 ⟶ 180:
 
 
 
'''वा पदान्तस्य''' (८.४.५९) = पदान्तस्य अनुस्वारस्य परसवर्णादेशो वा भवति ययि परे | '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्य बाधकसूत्रम्‌; अनेन पदान्ते परसवर्णादेशः वैकल्पिकः न तु नित्यः | वा अव्ययपदं, पदान्तस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्य पूर्णतया अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदान्तस्य अनुस्वारस्य '''वा''' परसवर्णः ययि संहितायाम्‌''' |
 
'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्य पूर्णतया अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदान्तस्य अनुस्वारस्य '''वा''' परसवर्णः ययि संहितायाम्‌''' |
 
सं + यमः → सय्‌ँयमः / संयमः
Line 183 ⟶ 206:
 
=== <big>४. उपधादीर्घः</big> ===
 
 
 
Line 191 ⟶ 215:
कुर्द्‌ → कूर्द्‌ '''                उपधायां च'''
 
तथैव
तथैव खुर्दँ → खूर्द्‌, गुर्दँ → गूर्द्‌ |
 
तथैव खुर्दँ → खूर्द्‌, गुर्दँ → गूर्द्‌ |
 
 
Line 199 ⟶ 225:
 
अवधेयम्‌— '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इति सूत्रेण सर्वेषाम्‌ अजन्तानां मूलधातूनाम्‌ अन्तिमस्य अचः इत्‌-संज्ञा न भवति | तदा एव इत्‌-संज्ञा भवति यदा सः अच्‌ अनुनासिकः अस्ति | यथा लिखँ, पठँ इत्यादयः धातवः | किन्तु भू, नी इत्यादिषु अजन्तधातुषु अन्तिमः अच्‌-वर्णः अनुनासिकः नास्ति अतः तत्रत्यानाम्‌ अच्‌-वर्णानाम्‌ इत्‌-संज्ञा न भवति | परन्तु "'''हलन्त्यम्‌'''" इति सूत्रेण सर्वेषां हलन्तमूलधातूनाम्‌ अन्तिमस्य हलः इत्‌-संज्ञा भवति एव |
 
 
'''<big><u>अभ्यासः</u></big>'''
 
अधः उपदेशावस्थायां मूलधातवः प्रदर्शिताः | तेषां लौकिक-रूपाणि कानि अपि च कैः सूत्रैः प्राप्तानि इति वक्तव्यम्‌ |
 
 
अगिँ, घट्टँ, भ्रेजृँ, चन्चुँ, टिकृँ, शलँ, इण्, गुजिँ, शीङ्, द्रै, णमँ, छुरँ, णुदँ, शुभँ, षुरँ, कठिँ, विद्ऌँ, षिलँ, णिलँ, इलँ, क्लिशँ, णीलँ, ष्टकँ, खुर्द (खुर्दँ), पृषुँ, णखँ, रगेँ, प्लुङ्, षु, ध्रु, चक्कँ, बधँ, टुनदिँ, युच्छँ
 
 
Swarup – April 2013 (updated Nov 2014 & March 2016)
धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.
 
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [[16 - जालस्थानस्य समाचारः|click here.]]
 
To join a class, or for any questions feel free to contact Swarup [<[[Mailto:dinbandhu@sprynet.com|dinbandhu@sprynet.com]]>].
teachers
812

edits