03---dhaatuvijjaanam/2---dhaatuvijjaanam: Difference between revisions

m
no edit summary
m (Protected "2 - धातुविज्ञानम्‌ - २" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
mNo edit summary
Line 39:
 
 
<big>अत्र कश्चन प्रसिद्धप्रवादो वर्तते— '''निमित्तापाये नैमित्तिकस्याप्यपायः''' | निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः | निमित्तम्‌ इत्युक्ते कारणं, नैमित्तिकम्‌ इत्युक्ते फलम्‌, अपायः इत्युक्ते अभावः | अत्र धेयं यत्‌ यद्यपि 'ष्ठा' इत्येव अस्य धातोः मूलरूपं, किञ्च वस्तुतः यः ठकारः वर्तते, सः थकारः आसीत् | अष्टाध्याय्यां तादृशम्‌ इङ्गितम्‌ अस्ति; कथमिति अग्रे दृश्यताम् | ठकारस्य मूलस्वरूपं थकारः, किन्तु षकारस्य प्रभावेन (ष्टुत्व-सन्धिना) थकारः ठकारः जातः | तदा '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन षकारस्य स्थाने सकारादेशः | षकारस्य कारणेन एव थकारः ठकारः जातः इत्युक्तम्‌ | अधुना स च षकारः अपगतः; गतः इति कारणतः, तेन षकारेण कृतं यत्‌ कार्यं, तत्‌ पुनः निवर्तते | कारणं गतम्‌, अतः फलम्‌ अपि गच्छति— येन निमित्तेन कार्यं कारितं, तन्निम्मित्तंतन्निमित्तं (षकारः) नास्ति चेत्‌, यत्‌ नैमित्तिकम्‌ (ठकारः) अस्ति, तदपि न तिष्ठति | '''निमित्तापाये नैमित्तिकस्याप्यपायः'''— षकारः गतः, अतः ठकारः अपि गच्छति | ष्ठा → स्ठा → स्था इति धातुः निष्पन्नः |</big>