03---dhaatuvijjaanam/2---dhaatuvijjaanam: Difference between revisions
03---dhaatuvijjaanam/2---dhaatuvijjaanam (view source)
Revision as of 04:04, 10 May 2021
, 3 years agoFont size
(Font size) |
(Font size) |
||
Line 18:
|<big>6. [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/12_Dhatu-vigyanam_2_numagamah__upadhadirghah__abhyasah_2014-11-18.mp3 dhAtu-vigyAnam_2_numAgamaH_+_upadhAdIrghaH_+_abhyAsaH_2014-11-18] </big>
|}
<big>मूलधातूनां लौकिकरूपाणां सिद्ध्यर्थं कार्यद्वयं विचारणीयम् | धातुविज्ञानम् - १ इति पाठे अस्माभिः दृष्टं यत् अनुबन्धानां निष्कासनम् इति प्रथमं कार्यम् | इत्-संज्ञकवर्णानां निष्कासनानन्तरं सत्वं, नत्वं, नुमागमः, उपधादीर्घः—चेमानि सङ्गृहीततया द्वितीयं कार्यम् | एषु चतुर्षु किञ्चन सम्भवति वा इति अवश्यं चिन्तनीयम् | सम्भवति चेत्, इदं कार्यं कुर्मः; नो चेत् धातुः प्रक्रियार्थं सिद्धः | तर्हि इमानि चत्वारि कार्याणि कानि इति अस्मिन् करपत्रे अवलोकयाम |</big>
<big>'''धात्वादेः षः सः''' (६.१.६३) = उपदेशावस्थायां धातोः आदौ षकारः अस्ति चेत्, षकारस्य स्थाने सकारादेशो भवति | धातोः आदिः, धात्वादिः षष्ठीतत्पुरुषः; तस्य धात्वादेः | धात्वादेः षष्ठ्यन्तं, षः षष्ठ्यन्तं, सः प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात् '''उपदेशे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''धात्वादेः षः सः उपदेशे |'''</big>
Line 31 ⟶ 35:
<big>तथैव यत्र धातुषु अनुनासिकः वर्गीयवर्णः (ङ्, ञ्, ण, म्) च अनुस्वारः च अस्ति, तत्र एते वर्णाः नकारजाः | नकारजः नाम नकारात् उत्पन्नः | वृत्तान्ते अञ्चु-धातुः, गतिपूजनयोः | मूलधातुः अञ्चु इत्येव, किन्तु तत्र ञकारस्य मूलस्वरूपं नकारः | चकारस्य योगेन एव सः नकारः ञकारः जातः | धातुषु एवं सर्वत्र बोध्यम् |</big>
<big>ष्णा शौचे इति धातुः | अत्र णकारस्य मूलस्वरूपं नकारः, किन्तु षकारस्य प्रभावेन (ष्टुत्व-सन्धिना) नकारः णकारः जातः | तदा '''धात्वादेः षः सः''' इत्यनेन ष्णा → स्णा | '''निमित्तापाये नैमित्तिकस्याप्यपायः''' इत्यनेन स्णा → स्ना इति लौकिकः धातुः | स्नाति इति लटि, स्नानम् इति ल्युटि |</big>
Line 38 ⟶ 43:
<big>अधुना एतत् सर्वं यदुक्तं, तत्तु विषयपरिचयत्वादुक्तं, भावार्थस्य सुखबोधार्थं दत्तं; '''निमित्तापाये नैमित्तिकस्याप्यपायः''' इति प्रसिद्धप्रवादस्त्वस्ति— बहुत्र च एतादृशी शिक्षा दीयते यत् ष्ठा, ष्णा इत्यादयः धातवः तथैव उपदेशात् लौकिकस्थितिं प्राप्नुवन्ति | किन्तु भाष्यकारः पतञ्जलिश्च, काशिकाकारौ वामनजयादित्यौ प्रतिपादयतः यत् अयं '''निमित्तापाये नैमित्तिकस्याप्यपायः''' इति तु न परिभाषा, न वा वार्त्तिकम्; अस्य प्रवादस्य एतस्मिन् विषये सामर्थ्यम् अधिकारो वा नास्ति | अतः शास्त्रीयाश्रयम् अवलम्ब्य प्रतिपादनं भवति चेत् वरं स्यात् | इति विचिन्त्य एतौ द्वौ मुनी एवं वार्तां स्पष्टीकुरुतः—</big>
<big>ष्ठा-धातोः उपदेशावस्थायां मूर्धन्य-षकारः अस्ति, परन्तु दन्त्य-थकारः अस्ति— 'ष्था' इति स्थितिः | अधुना युगपत् '''ष्टुना ष्टुः''' (८.४.४१) च '''धात्वादेः षः सः''' (६.१.६३) च आगत्य कार्यार्थम् उद्युक्तं भवति | '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्था-धातौ विद्यमानस्य षकारस्य प्रभावेन थकारस्य स्थाने ठकारादेशः, अपि च '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन औपदेशिकधातोः आदौ स्थितस्य षकारस्य स्थाने सकारादेशः | अस्यां दशायां द्वयोः सूत्रयोः मध्ये कस्य कार्यं प्रथमं प्रवर्तनीयम् इति प्रश्ने सति अस्माकं पाठे अग्रे वक्ष्यमाणेन '''पूर्वत्रासिद्धम्''' (८.२.१) इति सूत्रेण '''ष्टुना ष्टुः''' (८.४.४१) इति शास्त्रम् असिद्धं तस्य त्रिपाद्यां विद्यमानत्वात् | '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन षकारस्य सकारादेशो भवति; तदा यतोहि तदानीं षकारो नास्त्येव, '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन यः ठकारादेशः भवति स्म, सः तु न भवति असङ्गत्वात् | दन्त्य-थकारः यथावत् तिष्ठति एव, दन्त्य-सकारस्तु जातः अतः लौकिकधातुः स्था इति सम्पन्नम् | अस्यां प्रक्रियायां थकारस्य ठकारः न कदापि भवति | अयं विषयः बाध्यबाधकभावस्य पाठे इतोऽपि स्पष्टं भविष्यति; अस्य अभावे '''निमित्तापाये नैमित्तिकस्याप्यपायः''' इति प्रवादः अत्र दत्तः |</big>▼
▲<big>ष्ठा-धातोः उपदेशावस्थायां मूर्धन्य-षकारः अस्ति, परन्तु दन्त्य-थकारः अस्ति— 'ष्था' इति स्थितिः | अधुना युगपत् '''ष्टुना ष्टुः''' (८.४.४१) च '''धात्वादेः षः सः''' (६.१.६३) च आगत्य कार्यार्थम् उद्युक्तं भवति | '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्था-धातौ विद्यमानस्य षकारस्य प्रभावेन थकारस्य स्थाने ठकारादेशः, अपि च '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन औपदेशिकधातोः आदौ स्थितस्य षकारस्य स्थाने सकारादेशः | अस्यां दशायां द्वयोः सूत्रयोः मध्ये कस्य कार्यं प्रथमं प्रवर्तनीयम् इति प्रश्ने सति अस्माकं पाठे अग्रे वक्ष्यमाणेन '''पूर्वत्रासिद्धम्''' (८.२.१) इति सूत्रेण '''ष्टुना ष्टुः''' (८.४.४१) इति शास्त्रम् असिद्धं तस्य त्रिपाद्यां विद्यमानत्वात् | '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन षकारस्य सकारादेशो भवति; तदा यतोहि तदानीं षकारो नास्त्येव, '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन यः ठकारादेशः भवति स्म, सः तु न भवति असङ्गत्वात् | दन्त्य-थकारः यथावत् तिष्ठति एव, दन्त्य-सकारस्तु जातः अतः लौकिकधातुः स्था इति सम्पन्नम् | अस्यां प्रक्रियायां थकारस्य ठकारः न कदापि भवति | अयं विषयः बाध्यबाधकभावस्य पाठे इतोऽपि स्पष्टं भविष्यति; अस्य अभावे '''निमित्तापाये नैमित्तिकस्याप्यपायः''' इति प्रवादः अत्र दत्तः |</big>
<big>प्रक्रियां दृष्ट्वा प्रश्नः उदेति, तर्हि किमर्थं धातुपाठे औपदेशिकधातुः ष्ठा इति दीयते ? कारणमिदं यत् औपदेशिकधातुः एव अपेक्षते चेत्, ष्टुत्वस्य अवसरो भवति | '''धात्वादेः षः सः''' (६.१.६३) इति सूत्रं प्रवर्तनीयं भवति यदा किमपि कार्यं करणीयं— यदा किमपि लौकिकरूपं सम्पादनीयं भवति | किन्तु औपदेशिकधातुः एव अपेक्षितं चेत्, तत्र मूर्धन्य-षकारः अस्त्येव, तदर्थं '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ठकारादेशं करोति; अनेन ष्ठा इति धातुः जायते |</big>
=== <big>२. नत्वम्</big> ===▼
<big>'''णो नः''' (६.१.६४) = उपदेशावस्थायां धातोः आदौ णकारः अस्ति चेत्, णकारस्य स्थाने नकारादेशः भवति | णः षष्ठ्यन्तं, नः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात् '''उपदेशे''' इत्यस्य अनुवृत्तिः, '''धात्वादेः षः सः''' (६.१.६३) इत्यस्मात् '''धात्वादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''धात्वादेः''' '''णः नः''' '''उपदेशे''' |</big>
Line 77 ⟶ 80:
<big>णदँ-धातुः → अनुबन्धलोपानन्तरं '''णो नः''' (६.१.६४) इत्यनेन णत्वविधानम् → नद् → नद् + शप् + ति → नदति → प्र + नदति → '''उपसर्गादसमासेऽपि णोपदेशस्य''' (८.४.१४) इत्यनेन असमासे अपि उपसर्गस्थात् निमित्तात् णोपदेशस्य णत्वम् → प्रणदति</big>
<big>अन्यानि उदाहरणानि—प्रणमति, प्रणयति, परिणमति, परिणयति इत्यदीनि रूपाणि |</big>
<big>वस्तुतः एते धातवः उपदेशावस्थायां णमँ, णीञ्, णशँ, णहँ | एवम् एव ३५ णकारादि-धातवः सन्ति | केवलं अष्टौ धातवः उपदेशे नकारादयः सन्ति—नर्द्, नाद्, नाथ्, नाध्, नन्द्, नक्क्, नॄ, नृत् च | अतः प्रनर्दति, प्रनर्दितुम्, प्रनर्दकः—अत्र उपसर्गे णत्वस्य निमित्तम् अस्ति, परन्तु णत्वं न भवति |</big>
<big>धेयं यत् '''उपसर्गादसमासेऽपि णोपदेशस्य''' (८.४.१४) इत्यस्य अनुवृत्ति-सहितसूत्रम् अस्ति '''उपसर्गात् असमासे अपि णोपदेशस्य रषाभ्यां नः णः अट्कुप्वाङ्नुम्व्यवाये अपि संहितायाम्''' |</big>
<big>''''अट्कुप्वाङ्नुम्व्यवाये अपि'''<nowiki/>' इत्यनेन एतान् वर्णान् वर्जयित्वा निमित्तस्य उद्देश्यस्य च मध्ये अन्यः कोऽपि वर्णः भवति चेत् स च वर्णः णत्वं प्रति व्यवधानम् |</big>
<big>यथा—</big>
Line 104 ⟶ 99:
<big>अग्रिमोदाहरणं णिदिँ इति धातुः | प्रथमम् '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन इकारस्य इत्-संज्ञा, '''तस्य लोपः''' (१.३.९) इत्यनेन लोपश्च | णिदिँ → णिद् | '''णो नः''' (६.१.६४) इत्यनेन णिद् → निद् | अधुना नुमागमः (अधः दृश्यताम्) निद् → निन्द् इति लौकिक-धातुः |</big>
<big>'''इदितो नुम् धातोः''' (७.१.५८) = इदितः धातोः नुम् आगमो भवति | इदित् इत्युक्ते इत् इत् यस्य सः | तत्र प्रथमः इत् नाम ह्रस्वः इकारः* | द्वितीयः इत् नाम इत्-संज्ञा | ह्रस्व-इकारस्य इत्-संज्ञा यस्य, सः धातुः इदित् | इत् इत् यस्य स इदित् बहुव्रीहिः, तस्य इदितः | इदितः षष्ठ्यन्तं, नुम् प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''इदितः धातोः नुम्''' |<br /></big>
Line 154 ⟶ 151:
<big>लबिँ → लब् → लन्ब् → लंब् → लम्ब्</big>
<big>'''नश्चापदान्तस्य झलि''' (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | '''मोऽनुस्वारः''' (८.३.२३) इत्यस्मात् '''मः''', '''अनुस्वारः''' इत्यनयोः अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अपदान्तस्य मः नः च अनुस्वारः''' '''झलि संहितायाम्''' |<br /></big>
Line 160 ⟶ 158:
<big>'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अनुस्वारस्य ययि परसवर्णः संहितायाम्''' |</big>
Line 165 ⟶ 164:
<big>'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इति सूत्रेण अनुस्वारस्य वर्गीयव्यञ्जनेषु परेषु तत्तद्वर्गस्य पञ्चमो वर्णादेशो भवति | यकारः, वकारः, लकारश्चापि यय्-प्रत्याहारे सन्ति, किन्तु वर्गीयव्यञ्जनानि न; तेषां का गतिः ? यवले परे तु य्ँ, व्ँ, ल्ँ इत्यादेशो भवति, इति बोध्यम् |</big>
Line 180:
<big>सं + लापः → सल्ँलापः / संलापः</big>
<big>अधुना अनुस्वारात् परे रेफः अस्ति चेत् का गतिः ? रेफः यय्-प्रत्याहारे अन्तर्भूतः अतः तस्य '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इति सूत्रेण परसवर्णादेशः स्यात् | किन्तु वस्तुस्थितिः भिन्ना | रेफस्य कोऽपि सवर्णः नास्ति, "रेफोष्मणां सवर्णा न सन्ति" इति भाष्यम् | अतः अनुस्वारात् परे रेफोऽस्ति चेत्, किमपि कार्यं नास्ति; यथावत् तिष्ठति |</big>
<big>धेयम्— '''यय्'''-प्रत्याहारः सूचयति यत् श्, ष्, स्, ह् एषु अन्यतमः परे अस्ति चेत्, अनुस्वारस्य परसवर्णादेशो नैव भवति | यथा—रंस्यते = रंस्यते, नंस्यति = नंस्यति, संगंस्यते = संगंस्यते |</big>
<big>प्रश्नः उदेति— यदि वदिँ-धातौ नकारादेशः भवति एव, तर्हि किमर्थं वन्द् मूलधातुः न स्यात् ? तथैव यदि लबि मकारः आयाति एव, तर्हि किमर्थं लम्ब् इत्येव मूलधातुः न स्यात् ? उत्तरम् अस्ति यत् तत्र कतिचन कार्याणि सन्ति | यथा '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) इत्यनेन यः धातुः इदित् नास्ति, तस्य धातोः उपधायां स्थितस्य नकारस्य लोपः स्यात् किति ङिति परे | परन्तु इदित् चेत् अस्माभिः यः नकारः आनीतः, तस्य नकारस्य लोपः कस्यामपि दशायां न भवति | साक्षात् आरम्भतः नकारः अस्ति चेत्, तस्य लोपः किति ङिति च भवति | यथा बन्ध-धातौ नकारः उपस्थितः मूलधातौ, अतः किति ङिति परे नकारलोपः | ल्युटि "बन्धनं" (नकारः उपस्थितः यतोहि ल्युट् प्रत्ययः कित् अपि नास्ति, ङित् अपि नास्ति); परन्तु क्तान्तरूपं "बद्ध" (नकारलोपः यतोहि क्त प्रत्ययः कित् अस्ति) | वदिँ धातोः '''इदितो नुम् धातोः''' इत्यनेन नुम् आगमः → वन्द् | अस्य नकारस्य लोपः किति ङिति न भवति— यथा क्तान्तरूपं वन्दितः |</big>
<big><nowiki>*</nowiki>'''तपरस्तत्कालस्य''' (१.१.७०) = तकारात् परः यः, तकारः परः यस्मात्, द्वयोः अपि समकालस्य बोधकः | तात्परः तपरः पञ्चमीतत्पुरुषः, तः परो यस्मात् सः तपरः, बहुव्रीहिः— द्वावपि अर्थौ | तस्य कालः तत्कालः (तस्य काल इव कालः यस्य स तत्कालः) षष्ठीतत्पुरुषगर्भः बहुव्रीहिः | तस्य तत्कालस्य | तपरः प्रथमान्तम्, तत्कालस्य षष्ठ्यन्तम्, द्विपदमिदं सूत्रम् | '''स्वं रूपं शब्दस्याशब्दसंज्ञा''' (१.१.६८) इत्यस्मात् '''स्वं रूपम्''' इत्यनयोः अनुवृत्तिः | '''अणुदित्सवर्णस्य चाप्रत्ययः''' (१.१.६९) इत्यस्मात् '''सवर्णस्य''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''तपरः तत्कालस्य स्वस्य रूपस्य सवर्णस्य''' |</big>
<big>वर्णः ह्रस्वः भवतु, दीर्घः भवतु, तकारात् पूर्वं भवतु, तकारात् परं भवतु; यः वर्णः अनेन तकारेण संयुक्तो भवति, सः तत्कालस्य एव प्रतिनिधिः | '''अदेङ् गुणः''' (१.१.२) अस्य उदाहरणम् | अनेन अकारः अत् अतः ह्रस्व-अकारस्य एव प्रतिनिधिः; एङ्-प्रत्याहारः तकारात् परः अतः दीर्घ-वर्णानाम् एव प्रतिनिधिः न तु प्लुतानाम् |</big>
<big>यस्मात् ह्रस्व-अचः परे तकारः संयुज्यते, सः अच् केवलं ह्रस्वस्य प्रतिनिधिः— न तु दीर्घस्य प्लुतस्य वा | यथा इत् = ह्रस्वः इकारः, अत् = ह्रस्वः अकारः, उत् = ह्रस्वः उकारः | अतः ह्रस्वम् अकारं बोधयितुम् अत् इति वदामः | नो चेत् व्याकरणे यदा "अकारः" इति वदामः, तदा सः अकारः अकारस्य, आकारस्य, अपि च आ३कारस्य प्रतिनिधिः | अतः माहेश्वरसूत्रेषु केवलम् "अ, इ, उ" इत्यादयः ह्रस्ववर्णाः लिखिताः | ते वर्णाः ह्रस्वस्य, दीर्घस्य, प्लुतस्य च प्रतिनिधयः | दृष्टान्ते "अतः स्थाने इत् भवतु" अपि च "अकारस्य स्थाने इकारः भवतु", द्वयोः वाक्ययोः समानार्थः नास्ति | अकारः इति कथनेन अष्टादश प्रकारकः अकारः गृह्यते (ह्रस्वः उदात्तः/अनुदात्तः/स्वरितः, अनुनासिकः/अननुनासिकः; दीर्घः उदात्तः/अनुदात्तः/स्वरितः, अनुनासिकः/अननुनासिकः; प्लुतः उदात्तः/अनुदात्तः/स्वरितः, अनुनासिकः/अननुनासिकः इत्यनेन अष्टादश भेदाः) | किन्तु तपरं स्वीकृत्य यत्र "अत्" उच्चार्यते, तत्र निश्चयेन केवलं षट् प्रकारकः ह्रस्वः अकारः गृह्यते | तदर्थं तपरः क्रियते— तः परो यस्मात् सः तपरः | व्याकरणे "तपरकरणम्" इत्युच्यते |</big>▼
<big>षट् प्रकारकः ह्रस्वः अकारः इयुक्ते ह्रस्व-उदात्त-अनुनासिकः, ह्रस्व-उदात्त-अननुनासिकः, ह्रस्व-अनुदात्त-अनुनासिकः, ह्रस्व-अनुदात्त-अननुनासिकः, ह्रस्व-स्वरित-अनुनासिकः, ह्रस्व-स्वरित-अननुनासिकः | अस्माकं कृते "अत्" इत्युक्ते ह्रस्वः अकारः इति चिन्त्यताम् |</big>▼
▲<big>यस्मात् ह्रस्व-अचः परे तकारः संयुज्यते, सः अच् केवलं ह्रस्वस्य प्रतिनिधिः— न तु दीर्घस्य प्लुतस्य वा | यथा इत् = ह्रस्वः इकारः, अत् = ह्रस्वः अकारः, उत् = ह्रस्वः उकारः | अतः ह्रस्वम् अकारं बोधयितुम् अत् इति वदामः | नो चेत् व्याकरणे यदा "अकारः" इति वदामः, तदा सः अकारः अकारस्य, आकारस्य, अपि च आ३कारस्य प्रतिनिधिः | अतः माहेश्वरसूत्रेषु केवलम् "अ, इ, उ" इत्यादयः ह्रस्ववर्णाः लिखिताः | ते वर्णाः ह्रस्वस्य, दीर्घस्य, प्लुतस्य च प्रतिनिधयः | दृष्टान्ते "अतः स्थाने इत् भवतु" अपि च "अकारस्य स्थाने इकारः भवतु", द्वयोः वाक्ययोः समानार्थः नास्ति | अकारः इति कथनेन अष्टादश प्रकारकः अकारः गृह्यते (ह्रस्वः उदात्तः/अनुदात्तः/स्वरितः, अनुनासिकः/अननुनासिकः; दीर्घः उदात्तः/अनुदात्तः/स्वरितः, अनुनासिकः/अननुनासिकः; प्लुतः उदात्तः/अनुदात्तः/स्वरितः, अनुनासिकः/अननुनासिकः इत्यनेन अष्टादश भेदाः) | किन्तु तपरं स्वीकृत्य यत्र "अत्" उच्चार्यते, तत्र निश्चयेन केवलं षट् प्रकारकः ह्रस्वः अकारः गृह्यते | तदर्थं तपरः क्रियते— तः परो यस्मात् सः तपरः | व्याकरणे "तपरकरणम्" इत्युच्यते |</big>
▲<big>षट् प्रकारकः ह्रस्वः अकारः इयुक्ते ह्रस्व-उदात्त-अनुनासिकः, ह्रस्व-उदात्त-अननुनासिकः, ह्रस्व-अनुदात्त-अनुनासिकः, ह्रस्व-अनुदात्त-अननुनासिकः, ह्रस्व-स्वरित-अनुनासिकः, ह्रस्व-स्वरित-अननुनासिकः | अस्माकं कृते "अत्" इत्युक्ते ह्रस्वः अकारः इति चिन्त्यताम् |</big>
▲===<big>४. उपधादीर्घः </big>===
<big>'''उपधायां च''' (८.२.७८) = धातोः उपधाभूतयोः रेफवकारयोः हल्परयोः इकः दीर्घः स्यात् | हलन्तधातूनाम् उपधायां रेफः वा वकारः वा अस्ति चेत्, तयोः वर्णयोः पूर्वम् इकः दीर्घः भवति | इक् = इ, उ, ऋ, ऌ | उपधायां सप्तम्यन्तं, चाव्ययम् | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः, '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यस्मात् '''र्वोः''', '''इकः''', '''दीर्घः''' इत्येषाम् अनुवृत्तिः, '''हलि च''' (८.२.७७) इत्यस्मात् '''हलि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''धातोः र्वोः उपधायां च इकः दीर्घः हलि''' |</big>
Line 225 ⟶ 214:
<big>प्रश्नः उदीयेत— रेफः इत्युक्ते कः वर्णः, यः रकारः उपरि उपविष्टः, अथवा सर्वे रकाराः ? उत्तरम्— सर्वे रकाराः एव | रेफः नाम "रात् इफः" | इफः कश्चन प्रत्ययः | र + इफः = रेफः |</big>
<big>अवधेयम्— '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इति सूत्रेण सर्वेषाम् अजन्तानां मूलधातूनाम् अन्तिमस्य अचः इत्-संज्ञा न भवति | तदा एव इत्-संज्ञा भवति यदा सः अच् अनुनासिकः अस्ति | यथा लिखँ, पठँ इत्यादयः धातवः | किन्तु भू, नी इत्यादिषु अजन्तधातुषु अन्तिमः अच्-वर्णः अनुनासिकः नास्ति अतः तत्रत्यानाम् अच्-वर्णानाम् इत्-संज्ञा न भवति | परन्तु "'''हलन्त्यम्'''" इति सूत्रेण सर्वेषां हलन्तमूलधातूनाम् अन्तिमस्य हलः इत्-संज्ञा भवति एव |</big>
|