03---dhaatuvijjaanam/3---dhaatuvijjaanam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 186:
 
<big>यथा डुकृञ्‌ (डुकृ॒ञ्‌) धातुः | अयं धातुः एकाच्‌ अपि अस्ति, अनुदात्तः अपि अस्ति | तदा तुमुन्‌ प्रत्ययः—तुमुन्‌ आर्धधातुकप्रत्ययः (तिङ्‌ अपि नास्ति, शित्‌ अपि नास्ति अतः आर्धधातुकप्रत्ययः—'''तिङ्-शित्‌सार्वधातुकम्'''; '''आर्धधातुकं शेषः''') | वलादिः अवशादिः अपि अस्ति | अतः '''आर्धधातुकस्येड्वलादेः''' इति सूत्रेण इडागमस्य प्राप्तिः अस्ति | किन्तु डुकृ॒ञ्‌ एकाच्‌ अनुदात्तः, अतः '''एकाच उपदेशेऽनुदात्तात्''' इति सूत्रं इडागमं निषेधयति | तदर्थं 'कर्तुम्' इति रूपं भवति (न तु 'करितुम्') |</big>
 
 
<u><big>उदाहरणम्‌</big></u>
 
 
<big>अधुना एकवारं समग्रं चिन्तनं क्रियताम्‌ |</big>
 
 
<big>ञिष्विदाँ॒ इति धातुः | इमं धातुं दृष्ट्वा कीदृशी सूचना प्राप्तुं शक्येत अपि च कथं निरनुबन्धधातुः साध्येत |</big>
{|
|<big>ञिष्विदाँ॒</big>
|<big><nowiki>अनुदात्तस्वरस्य आँकारस्य इत्‌-संज्ञा अतः धातुः अनुदात्तेत्‌ | अनुदात्तेत्‌ अतः </nowiki>'''अनुदात्तङित‌ आत्मनेपदम्'''<nowiki> इत्यनेन धातुः आत्मनेपदी |</nowiki></big>
|-
|
|
|-
|
|
|-
|
|
|}
 
 
<big>ञिष्विदाँ॒         '''आदिर्ञिटुडवः''' इत्यनेन ञि इत्यस्य इत्‌-संज्ञा, '''तस्य लोपः''' इत्यनेन लोपश्च |</big>
 
<big>ष्विदाँ॒            आँकारः अनुनासिकः अतः '''उपदेशेऽजनुनासिक इत्''' इत्यनेन तस्य इत्‌-संज्ञा, '''तस्य लोपः''' इत्यनेन लोपश्च |</big>
 
<big>ष्विद्‌             अवशिष्टे धातौ प्रथमवर्णः इकारः किल | न, अत्र अस्माकं भ्रान्तिः न भवेत्‌ | विन्यासः तथा भाति, किन्तु सा च केवलं लेखनस्य शैली | वस्तुतः आदिवर्णः षकारः | तर्हि '''धात्वादेः षः सः''' इत्यनेन                      षकारस्य स्थाने सकारः |</big>
 
<big>स्विद्‌            इति निरनुबन्धधातुः |</big>
 
<big>स्विद्‌            इति धातौ अवशिष्टस्वरः इकारः | स च इकारः उदात्तः यतोहि मूलधातौ तस्मिन्‌ इकारे किमपि चिह्नं नास्ति | अयं धातुः एकाच्‌ अपि अस्ति | '''एकाच उपदेशेऽनुदात्तात्‌''' इत्यनेन इडागमस्य निषेधः                       नास्ति | अतः अयं धातुः सेट्‌ |</big>
 
 
<big>अवधेयम्‌—अयं धातुः उदात्तः, किन्तु उदात्तेत्‌ न | तत्र भेदः अवगन्तव्यः | ञिष्विदाँ॒ इति धातुः उदात्तः, परन्तु अनुदात्तेत्‌ | उदात्तः इति कारणेन धातुः सेट्‌ | अनुदात्तेत्‌ इति कारणेन धातुः आत्मनेपदी |</big>
 
<big>अग्रे गत्वा अस्य स्विद्‌-धातोः प्रयोगं कृत्वा यत्‌ किमपि रूपम्‌ अपेक्षितं—तिङन्तं स्यात्‌ वा कृदन्तं स्यात्‌—प्रक्रियायां स्विद्‌ इत्यस्य प्रयोगः करणीयः | स्विद्‌ इति निरनुबन्धधातुः, प्रक्रियार्थम्‌ सिद्धः |</big>
teachers
810

edits