03---dhaatuvijjaanam/3---dhaatuvijjaanam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1:
{|
{| class="wikitable"
|+
!<big>ध्वनिमुद्रणानि</big>
|-
Line 27 ⟶ 26:
|<big>८) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/16_Dhatu-vigyanam_3_idvyavastha-abhyasah__sarvadhatukaprakaranasya_paricayah_2014-12-16.mp3 dhAtu-vigyAnam_3_IDvyavasthA-abhyAsaH_+_sArvadhAtukaprakaraNasya_paricayaH_2014-12-16]</big>
|}
 
 
 
Line 32:
 
<big>एतावता मूलधातौ निबन्धाः के के अपि च कैः कैः सूत्रैः इत्‌-संज्ञकाः वर्णाः विहिताः, इति अस्माभिः अधीतम्‌ | तत्परं सत्वम्‌, नत्वम्‌, नुमागमः, उपधादीर्घः इत्येभिः कार्यैः परिपक्वो लौकिक-धातुः कथं जायते इत्यपि अवलोकितम्‌ |</big>
 
 
 
Line 47 ⟶ 48:
 
<big>सम्प्रति अनुदात्त/उदात्त/स्वरित इत्येतानि चिह्नानि कथम्‌ अभिज्ञातुं शक्नुमः इत्यवलोकयाम |</big>
 
 
 
Line 52 ⟶ 54:
 
<big>रक्षँ इत्यस्मिन्‌ धातौ ँ इति चिह्नम्‌ अचः अनुनासिकत्वं सूचयति | यथा डुपचँष्‌ पाके, खनुँ अवधारणे, भजँ सेवायाम्‌, वचँ परिभाषणे, आसँ उपवेशने | एवं च ँ इत्यनेन चिह्नेन अङ्कितः अच्‌ वर्णः अनुनासिकः भवति |</big>
 
 
 
<big>धातुषु अचः अधस्तात्‌ या रेखा दृश्यते (यथा "अ॒" इति), सा रेखा अचः अनुदात्तत्वं सूचयति | आसँ॒ उपवेशने इत्यस्मिन्‌ धातौ, सकारोत्तरवर्ती यः अकारः अस्ति, सः अकारः अनुदात्तः इति अधःस्थं चिह्नं सूचयति | धातुषु अचः उपरिष्टात्‌ या रेखा दृश्यते (यथा "अ॑" इति), तया अचः स्वरितत्वं सूच्यते | यथा डुपच॑ष्‌* पाके इत्यस्मिन्‌ धातौ, चकारोत्तरवर्ती यः अकारः अस्ति, सः अकारः स्वरितः इति उपरिस्थं चिह्नं सूचयति |</big>
 
 
 
<big>(*मम सङ्गणके ॑ ँ इत्यनयोः द्वयोः चिह्नयोः स्थलं साक्षात्‌ स्वरस्य उपरि, अतः तयोः सहवासः समीचीनं न दृश्यते (आँ॑) | अतः अत्र यद्यपि उभयम्‌ अपेक्षते, तथापि केवलं ॑ स्थापितम्‌; ँ न स्थापितम्‌ |)</big>
 
 
 
<big>तर्हि उपरि चिह्नम्‌ अस्ति चेत्‌ स्वरः स्वरितः, अधः चिह्नम्‌ अस्ति चेत्‌, अनुदात्तः | उपरि अपि नास्ति, अधः अपि नास्ति, तर्हि सः स्वरः उदात्तः | यथा व॒सँ-धातौ वकारोत्तरवर्ती यः अकारः अस्ति, तस्य अधः चिह्नम्‌ अस्ति अतः सः अकारः अनुदात्तः | परन्तु शिषँ-धातौ शकारोत्तरवर्ती यः इकारः अस्ति, तस्य उपरि अपि अधः अपि चिह्नं नास्ति, अतः सः इकारः उदात्तः |</big>
 
 
 
<big>बहुत्र अनुदात्तः स्वरः अनुनासिकः अपि अस्ति, नाम चिह्नद्वयं अस्ति (अँ॒) | तथैव बहुत्र स्वरितः स्वरः अनुनासिकः अपि अस्ति, चिह्नद्वयसहितः इति (अँ॑) | परन्तु अनुदात्तः सर्वथा अनुनासिकः, अथवा स्वरितः सर्वथा अनुनासिकः, इति नियमः नास्ति एव | कदाचित्‌ भवितुम्‌ अर्हति, कदाचित्‌ नाऽपि भवितुम्‌ अर्हति |</big>
 
 
 
<big>एषां त्रयाणां संज्ञकस्वराणाम्‌ उच्चारणभेदाः | '''उच्चैरुदात्तः''' (१.२.२९) इत्यनेन उदात्तः नाम ध्वनिः उपरि दिशि गच्छति | '''नीचैरनुदात्तः''' (१.२.३०) इत्यनेन अनुदात्तः नाम ध्वनिः अधो दिशि गच्छति | '''समाहारः स्वरितः''' (१.२.३१) इत्यनेन स्वरितः नाम ध्वनिः न उपरि न वा अधः | तर्हि उच्चारणभेदाः सन्ति, परन्तु इदानींतनकाले व्याकरणक्षेत्रे एतादृशः अभ्यासः प्रायः लुप्तः |</big>
 
 
<big>अधुना पाणिनीयधातुपाठे पदव्यवस्थाम्‌ अवलोकयाम; अनन्तरम्‌ इड्व्यवस्था दृश्यताम्‌ |</big>
 
=== <big>'''I.''' <u>पदव्यवस्था</u></big> ===
 
<big>'''I.''' <u>पदव्यवस्था</u></big>
 
<big>पदव्यवस्था इत्युक्ते धातुः परस्मैपदिधातुः वा, आत्मनेपदिधातुः वा, उभयपदिधातुः वा, इत्यस्य बोधः |</big>
 
<big>अस्माभिः पूर्वमेव दृष्टं यत्‌ धातुषु अनुनासिकः अच्‌ इत्‌-संज्ञां प्रयोजयति | इत्‌-संज्ञां प्रयोजयति नाम अनुनासिकस्वरेण इत्‌-संज्ञा सूच्यते, इत्यर्थः | अस्य एव इत्‌-संज्ञकस्य स्वरस्य अनुदात्तत्वम्‌, उदात्तत्वं, स्वरितत्वं च पदव्यवस्थां सूचयति | तर्हि इत्‌-संज्ञकेन स्वरेण पदव्यवस्था ज्ञायते—कथम्‌ इति पश्येम | यथा एधँ॒ वृद्धौ | धकारोत्तरवर्ती यः अकारः अस्ति, सः अनुनासिकः अस्ति | अनुनासिकः अतः इत्-संज्ञकः | अधस्थात्‌ चिह्नम्‌ अस्ति अतः अनुदात्तः अपि अस्ति | अनुनासिकः अकारः अनुदात्तः अपि अस्ति, अतः एधँ॒ धातुः आत्मनेपदी | किमर्थम्‌ इति चेत्‌, अग्रे सरेम |</big>
 
==== <big>'''a.''' आत्मनेपदत्वम्‌</big> ====
 
<big>'''a.''' आत्मनेपदत्वम्‌</big>
 
 
Line 93 ⟶ 96:
<big>धातुः अनुदात्तेत्‌ अस्ति चेत्‌, आत्मनेपदी | धातुः ङित्‌ अस्ति चेदपि तथैव, आत्मनेपदी | शीङ्‌ स्वप्ने इति धातुः ङित्‌, अतः सोऽपि आत्मनेपदी | शेते इति लटि | डीङ्‌ विहायसा (वायौ) गतौ इति धातुः ङित्‌, अतः आत्मनेपदी, डयते इति | तर्हि अनुदात्तस्य स्वरस्य इत्‌-संज्ञा-कारणेन अथवा ङकारस्य इत्‌-संज्ञा-कारणेन धातुः आत्मनेपदी भवति |</big>
 
==== <big>'''b.''' उभयपदत्वम्‌</big> ====
 
<big>'''स्वरितञितः कर्त्रभिप्राये क्रियाफले''' (१.३.७२) = यस्य धातोः स्वरितस्वरस्य ञकारस्य च इत्‌-संज्ञा भवति, तस्य क्रियायाः फलं कर्तुः अस्ति चेत्‌ धातुतः आत्मनेपदतिङ्‌प्रत्ययाः विहिताः; क्रियायाः फलं कर्तुः नास्ति चेत् धातुतः परस्मैपदतिङ्‌प्रत्ययाः विहिताः भवन्ति | नाम एतादृशः धातुः उभयपदी, इति सारांशः | स्वरितश्च ञ्‌ च स्वरितञौ, तौ इतौ यस्य स स्वरितञित्‌, द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात्‌ स्वरितञितः | कर्तारम्‌ अभिप्रैति इति कर्त्रभिप्रायम्‌ (फलम्‌) उपपद-तत्पुरुषः (यथा कुम्भकारः), तस्मिन्‌ कर्त्रभिप्रये | क्रियायाः फलं क्रियाफलं षष्ठी-तत्पुरुषः, तस्मिन्‌ क्रियाफले | स्वरितञितः पञ्चम्यन्तम्‌, कर्त्रभिप्राये सप्तम्यन्तम्‌, क्रियाफले सप्तम्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''भूवादयो धातवः''' (१.३.१) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | '''लस्य''' इति पदम्‌ आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः '''आत्मनेपदम्‌''' इत्यस्मिन्‌ | अनुवृत्ति-सहितसूत्रम्— '''स्वरितञितः धातोः कर्त्रभिप्राये क्रियाफले लस्य आत्मनेपदम्‌''' |</big>
 
 
 
<big>धातुः यदि स्वरितेत्‌ अस्ति (स्वरितः इत्‌ यस्य सः) अथवा ञित्‌ अस्ति, तर्हि धातुः उभयपदी भवति | यथा डुपचँ॑ष्‌ पाके | अत्र चकारोत्तरवर्ती यः अकारः अस्ति, सः स्वरितः अस्ति, इत्‌-संज्ञकश्च | अतः धातुः स्वरितेत्‌ अस्ति, उभयपदी च— लटि पचति, पचते |</big>
 
 
 
<big>प्राचीनकाले स्वरविज्ञानम्‌ आसीत्‌, अतः तदाधारेण पदव्यवस्था ज्ञायते स्म | इदानींतनकाले डुपचँ॑ष्‌-धातुः उभयपदी अस्ति इति जानीमः; अपि च ञित्‌ नास्ति, अतः स्वरितेत्‌ स्यात्‌ इति अनुमानं कुर्मः | एवम्‌ ऊहां कृत्वा एव अद्यत्वे धातुपाठे एतादृशानि चिह्नानि कैश्चित्‌ योजितानि | यथा अनुनासिकचिह्नानि न वर्तन्ते सामान्यधातुग्रन्थेषु, तथैव अनुदात्तस्वरितचिह्नानि अपि ग्रन्थेषु सामान्यतया न लभ्यन्ते | किन्तु केचन ऊहां कृत्वा स्थापितवन्तः; तेषु दीक्षितपुष्पा माता अस्मिन्‌ क्षेत्रे नायिका |</big>
 
 
 
<big>अन्यत्‌ उदाहरणं पश्येम, ञितः इति | डुकृञ्‌ धातुः ञित्‌ अस्ति | ञित्‌ अतः अनेन सूत्रेण उभयपदी अस्ति— लटि करोति, कुरुते | वे॒ञ्‌, ह्वे॒ञ्‌, व्ये॒ञ्‌ अपि उभयपदिनः |</big>
 
 
<big>उपर्युक्तयोः सूत्रयोः ज्ञानेन के के परस्मैपदिधातवः सन्ति इति अपि अवगम्यते | यः कोऽपि धातुः ङित्‌ अपि नास्ति, अनुदात्तेत् अपि नास्ति, ञित्‌ अपि नास्ति, स्वरितेत्‌ अपि नास्ति, सः धातुः परस्मैपदी एव | धातुः उदात्तेत्‌ अस्ति चेत्, परस्मैपदी | किन्तु उदात्तेत्‌ नास्ति चेदपि, यदि ङित्‌, अनुदात्तेत्, ञित्‌, स्वरितेत्‌ नास्ति, तर्हि सः धातुः परस्मैपदी एव | यथा रिषँ, गै॒, मुजँ, खुजुँ, णशँ, एते सर्वे धातवः अपि परस्मैपदिनः | परस्मैपदिधातूनां कृते पृथक्‌ सूत्रम्‌ अपि अस्ति | तच्च अग्रे दत्तम्‌ अस्ति—</big>
 
==== <big>'''c.''' परस्मैपदत्वम्‌</big> ====
 
<big>'''c.''' परस्मैपदत्वम्‌</big>
 
 
Line 127 ⟶ 131:
<big>स्मृ॒-धातौ ऋकारः अनुदात्तः किन्तु अनुनासिकः न अतः अनुदात्तेत्‌ न; अयं ऋकारः इड्‌-व्यवस्थां सूचयति, न तु पदव्यवस्थाम्‌ | स्मृ धातुः अनुदात्तेत्‌ अपि नास्ति, ङित्‌ अपि नास्ति, स्वरितेत्‌ अपि नास्ति, ञित्‌ अपि नास्ति; अतः अयं धातुः परस्मैपदी | स्मरति इति लटि |</big>
 
==== <big><u>अभ्यासः</u></big> ====
 
<big><u>अभ्यासः</u></big>
 
<big>इमे धातवः सर्वे भ्वादिगणीयाः | सर्वप्रथमं धातुः आत्मनेपदी, उभयपदी, परस्मैपदी वा इति सूच्यताम्‌ | तदा लौकिक-धातुः कः इति वदतु; तदा विकरणसहितम्‌ अङ्गं किम्‌, तदा लट्‌-लकारस्य रूपम्‌ |</big>
Line 136 ⟶ 139:
<big>मलँ॒, बुधिँ॑र्‍ (बुधि॑र्‍), अक्षूँ , टुभ्राशृँ॒ , हृ॒ञ्‌ , तॄ, दे॒ङ्‌, भृ॒ञ्‌ , द्रै॒, इटँ, मिदृँ (दृ॑), जिषुँ, वृकँ॒, अटँ, वृधुँ॒</big>
 
=== <big>'''II.''' <u>इड्‌व्यवस्था</u></big> ===
<big>इट्‌ नाम किम्‌ | प्रायः अस्माभिः सर्वैः अवलोकितं स्यात्‌ यत्‌ तिङन्तेषु कृदन्तेषु च कुत्रचित्‌ इकारः श्रूयते कुत्रचित्‌ न | यथा तिङन्तेषु गमिष्यति इत्यत्र मकारोत्तरः इकारः अस्ति; द्रक्ष्यति इत्यत्र एवं कोऽपि इकारः नास्ति | कृदन्तेषु पठितुम्‌ इत्यत्र ठकारोत्तरः इकारः अस्ति; कर्तुम्‌ इत्यत्र एवं कोऽपि इकारः नास्ति | अस्य इकारस्य नाम इट्‌-आगमः (इडागमः) | तर्हि कुत्र इडागमः संयुज्यते अपि च कुत्र न, इत्यस्य विज्ञानस्य नाम इड्‌व्यवस्था | यत्र इडागमस्य योजनार्थं धातोः अनुकूलता वर्तते, तत्र धातुः सेट्‌ इत्युच्यते | सेट्‌ = इटा सह, बहुव्रीहिसमासः | (एतादृश-बहुव्रीहिसमासस्य 'यस्य सः, येन सः' इति शैली न भवति, किन्तु अन्यपदप्राधान्यम्‌ अस्ति; प्रधानं न 'स', न वा 'इट्‌', अपि तु 'धातुः' |) यत्र एतादृशी अनुकूलता नास्ति, तत्र धातुः अनिट्‌ इत्युच्यते | अनिट्‌ = न इट्‌ (इट्‌ राहित्यं) यस्य सः | सामान्यतया धातुः सेट्‌ अस्ति चेत्‌ अपि च तस्मात्‌ यः प्रत्ययः विहितः अस्ति सः अपि सेट्‌ अस्ति चेत्‌, तर्हि तत्र इडनुकूलता विद्यते | नाम तस्यां दशायाम्‌ इडागमः भवितुम्‌ अर्हति | धातुप्रत्यययोः कश्चन इडानुकूलो नास्ति चेत्‌, सामान्यतया तत्र ईडनुकूलता नास्ति | अपवादाः सन्ति, किन्तु सामान्यनियमः अयम्‌ |</big>
 
<big>'''II.''' <u>इड्‌व्यवस्था</u></big>
 
<big>इट्‌ नाम किम्‌ | प्रायः अस्माभिः सर्वैः अवलोकितं स्यात्‌ यत्‌ तिङन्तेषु कृदन्तेषु च कुत्रचित्‌ इकारः श्रूयते कुत्रचित्‌ न | यथा तिङन्तेषु गमिष्यति इत्यत्र मकारोत्तरः इकारः अस्ति; द्रक्ष्यति इत्यत्र एवं कोऽपि इकारः नास्ति | कृदन्तेषु पठितुम्‌ इत्यत्र ठकारोत्तरः इकारः अस्ति; कर्तुम्‌ इत्यत्र एवं कोऽपि इकारः नास्ति | अस्य इकारस्य नाम इट्‌-आगमः (इडागमः) | तर्हि कुत्र इडागमः संयुज्यते अपि च कुत्र न, इत्यस्य विज्ञानस्य नाम इड्‌व्यवस्था | यत्र इडागमस्य योजनार्थं धातोः अनुकूलता वर्तते, तत्र धातुः सेट्‌ इत्युच्यते | सेट्‌ = इटा सह, बहुव्रीहिसमासः | (एतादृश-बहुव्रीहिसमासस्य 'यस्य सः, येन सः' इति शैली न भवति, किन्तु अन्यपदप्राधान्यम्‌ अस्ति; प्रधानं न 'स', न वा 'इट्‌', अपि तु 'धातुः' |) यत्र एतादृशी अनुकूलता नास्ति, तत्र धातुः अनिट्‌ इत्युच्यते | अनिट्‌ = न इट्‌ (इट्‌ राहित्यं) यस्य सः | सामान्यतया धातुः सेट्‌ अस्ति चेत्‌ अपि च तस्मात्‌ यः प्रत्ययः विहितः अस्ति सः अपि सेट्‌ अस्ति चेत्‌, तर्हि तत्र इडनुकूलता विद्यते | नाम तस्यां दशायाम्‌ इडागमः भवितुम्‌ अर्हति | धातुप्रत्यययोः कश्चन इडानुकूलो नास्ति चेत्‌, सामान्यतया तत्र ईडनुकूलता नास्ति | अपवादाः सन्ति, किन्तु सामान्यनियमः अयम्‌ |</big>
 
 
<big>इत्‌-संज्ञकेन अच्‌-वर्णेन धातुः किंपदी इति निर्णयः क्रियते, अपि च अवशिष्टस्वरेण निर्णयः क्रियते अयं धातुः इट्‌ अनिट्‌ वा इति अस्माभिः उक्तम्‌ | इत्‌-संज्ञकानां वर्णानां निष्कासनानन्तरं यः स्वरः अवशिष्यते, तेन स्वरेण धातुः इट्‌ वा अनिट्‌ वा इति निर्णयः क्रियते | अनेन स्वरेण इड्‌-व्यवस्था ज्ञायते |</big>
 
 
<big>तर्हि अत्र इड्व्यवस्था कीदृशी इति द्रष्टव्यम्‌ | वृत्तान्ते पठँ इति धातुः | ठकारोत्तरवर्ती यः अकारः अस्ति सः अनुनासिकः उदात्तः च, अतः धातुः परस्मैपदी | पकारोत्तरवर्ती यः अकारः अस्ति, सः अवशिष्टः स्वरः इति उच्यते | अयम्‌ अकारः कीदृशः इति धेयम्‌ | '''अवशिष्टः स्वरः अनुदात्तः चेत्‌, धातुः अनिट्‌''' | '''अयम्‌ अवशिष्टः स्वरः उदात्तः स्वरितो वा, धातुः सेट्‌''' | पकारोत्तरवर्ती अकारः उदात्तः, अतः धातुः सेट्‌ | गै॒ धातौ ऐकारः अनुदात्तः, अतः धातुः अनिट्‌ | मे॒ङ्‌ धातौ ङकारस्य इत्‌-संज्ञा, मे॒ अवशिष्यते | एकारः अनुदात्तः, अतः धातुः अनिट्‌ | क्षिवुँ इति धातौ उकारः अनुनासिकः अतः तस्य इत्‌-सज्ञा लोपः च | क्षिव्‌ इति अवशिष्यते | क्षकारोत्तरवर्ती यः इकारः सः उदात्तः, अतः धातुः सेट्‌ | उपर्युक्तस्य नियमस्य कारणं यदि अवगन्तुम्‌ इच्छेम, तर्हि सूत्रद्वयं द्रष्टव्यं भवति |</big>
 
=== <big><u>प्रत्ययस्य स्वभावः</u></big> ===
 
<big><u>प्रत्ययस्य स्वभावः</u></big>
 
 
Line 168:
<big>अत्र नूतनप्रश्नः उदेति | '''आर्धधातुकस्येड्वलादेः''' इत्यनेन ''सर्वेभ्यः धातुभ्यः'' वलादि-आर्धधातुकप्रत्ययः विधीयते चेत्‌, तस्य प्रत्ययस्य इडागमः भवति | किन्तु तथा सर्वेभ्यः धातुभ्यः प्रत्ययः इडनुकूलः चेदपि कुत्रचित्‌ इडागमः न भवति | वृत्तान्ते तुमुन्‌-प्रत्ययः | तुमुन्‌ आर्धधातुकः (तिङ्‌ शित्‌ न), वलादिः किन्तु वशादि न (तकारः आदौ अस्ति; स च तकारः वलि अस्ति किन्तु वशि न); तर्हि '''आर्धधातुकस्येड्वलादेः''', '''नेड्‌ वशि कृति''' इति सूत्राभ्यां सर्वेभ्यः धातुभ्यः तुमुन्‌-प्रत्यये विहिते सति प्रत्ययादौ इडागमः भवेत्‌—'इतुम्‌' इति रूपं, यथा पठितुम्‌, लेखितुम्‌, चिन्तयितुम्‌ | किन्तु कृ-धातोः कर्तुम्‌, श्रु-धातोः श्रोतुम्‌ इत्यनयोः इडामः नास्ति | किमर्थम्‌ ? धातुः अपि इडनुकूलः न वा इति ज्ञेयम्‌ |</big>
 
=== <big><u>धातोः स्वभावः</u></big> ===
 
<big><u>धातोः स्वभावः</u></big>
 
<big>'''एकाच उपदेशेऽनुदात्तात्‌''' (७.२.१०) = यः औपदेशिकधातुः एकाच्‌ अपि अनुदात्तः अपि अस्ति, तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति | उपदेशे यो धातुरेकाज्‌ अनुदात्तश्च तत आर्धधातुकस्येड्‌ न | यस्मिन्‌ धातौ एकः एव स्वरः वर्तते, सः धातुः एकाच्‌ | उपदेशे नाम पाणिनेः धातुपाठे अयं धातुः अन्तर्भूतः | औपदेशिकधातुः यथा पठँ, लिखँ, डुपचँष्‌, न तु आतिदेशिकधातुः यथा प्रेरणार्थकणिचि पाठि, लेखि, पाचि | एकोऽच्‌ यस्मिन्‌ स एकाच्‌ बहुव्रीहिः, तस्मात्‌ एकाचः | एकाचः पञ्चम्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अनुदात्तात्‌ पञ्चम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''ॠत इद्‌ धातोः''' (७.१.१००) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः; '''नेड्‌ वशि कृति''' (७.२.८) इत्यस्मात्‌ '''न''', '''इट्‌''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''उपदेशे एकाचः अनुदात्तात्‌ धातोः अङ्गात्‌ न इट्‌''' |</big>
Line 220 ⟶ 219:
|<big><nowiki>इति धातौ अवशिष्टस्वरः इकारः | स च इकारः उदात्तः यतोहि मूलधातौ तस्मिन्‌ इकारे किमपि चिह्नं नास्ति | अयं धातुः एकाच्‌ अपि अस्ति | </nowiki>'''एकाच उपदेशेऽनुदात्तात्‌'''<nowiki> इत्यनेन इडागमस्य निषेधः नास्ति | अतः अयं धातुः सेट्‌ |</nowiki></big>
|}
 
 
<big>अवधेयम्‌—अयं धातुः उदात्तः, किन्तु उदात्तेत्‌ न | तत्र भेदः अवगन्तव्यः | ञिष्विदाँ॒ इति धातुः उदात्तः, परन्तु अनुदात्तेत्‌ | उदात्तः इति कारणेन धातुः सेट्‌ | अनुदात्तेत्‌ इति कारणेन धातुः आत्मनेपदी |</big>
 
<big>अग्रे गत्वा अस्य स्विद्‌-धातोः प्रयोगं कृत्वा यत्‌ किमपि रूपम्‌ अपेक्षितं—तिङन्तं स्यात्‌ वा कृदन्तं स्यात्‌—प्रक्रियायां स्विद्‌ इत्यस्य प्रयोगः करणीयः | स्विद्‌ इति निरनुबन्धधातुः, प्रक्रियार्थम्‌ सिद्धः |</big>
 
 
 
Line 229 ⟶ 230:
 
<big>अजन्तधातवः आधिक्येन अनिटः; किन्तु तत्र सर्वे ऊकारान्ताः ॠकारान्ताः च सेटः | हलन्तधातवः आधिक्येन सेटः | हलन्तधातुषु १०३ धातवः अनिटः |</big>
 
 
 
<big><u>अभ्यासः</u></big>
 
 
 
<big>अत्र केचन भ्वादिगणीयाः धातवः सूचिताः | प्रत्येकं धातुः सेट्‌ अनिट्‌ वा इति निर्णेतव्यम्‌ | आत्मनेपदी, उभयपदी, परस्मैपदी वा इत्यपि वक्तव्यम्‌ | तदा लौकिकधातुः कः, लट्‌-लकारे रूपं किम्‌ इति सूचनीयम्‌ | अन्ते सेट्‌-अनिट्‌ दृष्ट्वा तृजन्तस्य किं रूपं स्यात्‌ इति अनुमानं क्रियताम्‌ | तृच्‌ नाम इडागमे यथा स्पर्धिता, भविता; इडाभावे च यथा कर्ता, वक्ता |</big>
 
 
 
<big>इगिँ गतौ → इन्ग्‌ सेट्‌ परस्मैपदी इङ्गति [तृचि इङ्गिता]</big>
 
 
 
<big>रु॒ङ्‌ गतिरेषणयोः, णिदृँ॑ (णि दृँ दृ॑) कुत्सासन्निकर्षयोः), ईषँ॒ गतिहिंसादर्शनेषु, व॒हँ॑ (व॒, हँ ह॑) प्रापणे, वि॒षुँ सेचने, वे॒ञ्‌ तन्तुसन्ताने, मस्कँ॒ गतौ, र॒भँ॒ राभस्ये, चकँ तृप्तौ, क्षि॒ क्षये, राजृँ॑ (रा, जृँ जृ॑) दीप्तौ, घ॒स्‌ऌँ अदने, शुठिँ शोषणे, कै॒ शब्दे</big>
 
<big><u>परिसमाप्तिः</u></big>
 
<big>करपत्रत्रयेन अस्माभिः सम्पूर्णं धातुविज्ञानं प्राप्तम्‌ | प्रथमे करपत्रे इत्‌-संज्ञा प्रकरणम्‌; कथम्‌ अनुबन्धानां लोपः क्रियते | द्वितीये करपत्रे सत्वम्‌, नत्वम्‌, नुमागमः, उपधादीर्घः | करपत्रद्वयेन मूलधातुः प्रक्रियार्थं सिद्धः भवति | अस्मिन्‌ तृतीये करपत्रे स्वरविज्ञानम्‌—पदव्यवस्था इड्व्यवस्था च | स्वरविज्ञानेन धातोः सम्पूर्णबोधः लभ्यते | अग्रे गत्वा मूलधातुः अस्माकम्‌ आधारः | अनेन मूलधातुना सर्वेषां सार्वधातुकलकाराणां सिद्धिः, तत्पश्चात्‌ आर्धधातुकलकाराणां सिद्धिः, परं कृदन्तानां सिद्धिः | अन्ते तद्धितान्तानां‌ मूलाधारः अपि अयमेव मूलधातुः |</big>
 
 
<big>Swarup – May 2013 (updated Nov 2014)</big>
 
= <small>परिशिष्टम्‌ - १</small> =
<big>अत्र वंशी सुधा भगिनी अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या पदव्यवस्थां चित्रत्वेन निरूपितवती—</big>
 
[[File:धातुविज्ञानम् 3 पदव्यवस्था.jpg|center|frameless]]
 
= <small>परिशिष्टम्‌ - २</small> =
<big>अत्र वंशी सुधा भगिनी अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या इड्व्यवस्थां चित्रत्वेन निरूपितवती—</big>
 
[[File:धातुविज्ञानम् 3 इड्व्यवस्था.jpg|center|frameless]]
धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.
 
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [[16 - जालस्थानस्य समाचारः|click here.]]
 
To join a class, or for any questions feel free to contact Swarup [<[[Mailto:dinbandhu@sprynet.com|dinbandhu@sprynet.com]]>].
teachers
810

edits