03---dhaatuvijjaanam/3---dhaatuvijjaanam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 30:
 
<big>पाणिनीयशास्त्रम्‌ अनुबन्धान्‌ आश्रित्य, स्वरांश्च आश्रित्य प्रवर्तते | एतयोः ज्ञानम्‌ अन्तरा पाणिनीयशास्त्रस्य अवगतिः न भवति | धातुषु प्रत्ययेषु च के अनुबन्धाः, अपि च धातुषु स्वरः कीदृशः (उदात्तः, अनुदात्तः, स्वरितो वा)—इदं सर्वम्‌ आश्रित्य एव पाणिनीयशात्रं प्रवर्तते |</big>
 
 
<big>एतावता मूलधातौ निबन्धाः के के अपि च कैः कैः सूत्रैः इत्‌-संज्ञकाः वर्णाः विहिताः, इति अस्माभिः अधीतम्‌ | तत्परं सत्वम्‌, नत्वम्‌, नुमागमः, उपधादीर्घः इत्येभिः कार्यैः परिपक्वो लौकिक-धातुः कथं जायते इत्यपि अवलोकितम्‌ |</big>
 
 
 
<big>आहत्य एषु सर्वेषु कार्येषु, स्वराणां कृते एकं विशिष्टं ज्ञानम्‌ अस्माभिः प्राप्तम्‌—अनुनासिकज्ञानम्‌ इति | धातुषु अनुनासिकज्ञानेन एव अचाम्‌ इत्‌-संज्ञा सम्भवति | अधुना तदाधारेण अग्रिमः सिद्धान्तः—स्वरविज्ञानेन पदव्यवस्था अपि च सेट्‌-अनिट्‌-व्यवस्था ज्ञायते | तर्हि धातुपाठे प्रथमप्रमुखविषयः लौकिक-धातुः कथं सञ्जायते इति; स च अस्माभिः परिशीलितः‌ | अधुना द्वितीयप्रमुखविषयः—स्वरविज्ञानम्‌ | तस्मिन्‌ उपविषयद्वयम्‌—पदव्यवस्था इड्‌व्यवस्था च |</big>
Line 52 ⟶ 51:
 
<u><big>स्वरचिह्नानि</big></u>
 
 
<big>रक्षँ इत्यस्मिन्‌ धातौ ँ इति चिह्नम्‌ अचः अनुनासिकत्वं सूचयति | यथा डुपचँष्‌ पाके, खनुँ अवधारणे, भजँ सेवायाम्‌, वचँ परिभाषणे, आसँ उपवेशने | एवं च ँ इत्यनेन चिह्नेन अङ्कितः अच्‌ वर्णः अनुनासिकः भवति |</big>
Line 58:
 
<big>धातुषु अचः अधस्तात्‌ या रेखा दृश्यते (यथा "अ॒" इति), सा रेखा अचः अनुदात्तत्वं सूचयति | आसँ॒ उपवेशने इत्यस्मिन्‌ धातौ, सकारोत्तरवर्ती यः अकारः अस्ति, सः अकारः अनुदात्तः इति अधःस्थं चिह्नं सूचयति | धातुषु अचः उपरिष्टात्‌ या रेखा दृश्यते (यथा "अ॑" इति), तया अचः स्वरितत्वं सूच्यते | यथा डुपच॑ष्‌* पाके इत्यस्मिन्‌ धातौ, चकारोत्तरवर्ती यः अकारः अस्ति, सः अकारः स्वरितः इति उपरिस्थं चिह्नं सूचयति |</big>
 
 
 
<big>(*मम सङ्गणके ॑ ँ इत्यनयोः द्वयोः चिह्नयोः स्थलं साक्षात्‌ स्वरस्य उपरि, अतः तयोः सहवासः समीचीनं न दृश्यते (आँ॑) | अतः अत्र यद्यपि उभयम्‌ अपेक्षते, तथापि केवलं ॑ स्थापितम्‌; ँ न स्थापितम्‌ |)</big>
 
 
 
<big>तर्हि उपरि चिह्नम्‌ अस्ति चेत्‌ स्वरः स्वरितः, अधः चिह्नम्‌ अस्ति चेत्‌, अनुदात्तः | उपरि अपि नास्ति, अधः अपि नास्ति, तर्हि सः स्वरः उदात्तः | यथा व॒सँ-धातौ वकारोत्तरवर्ती यः अकारः अस्ति, तस्य अधः चिह्नम्‌ अस्ति अतः सः अकारः अनुदात्तः | परन्तु शिषँ-धातौ शकारोत्तरवर्ती यः इकारः अस्ति, तस्य उपरि अपि अधः अपि चिह्नं नास्ति, अतः सः इकारः उदात्तः |</big>
 
 
 
<big>बहुत्र अनुदात्तः स्वरः अनुनासिकः अपि अस्ति, नाम चिह्नद्वयं अस्ति (अँ॒) | तथैव बहुत्र स्वरितः स्वरः अनुनासिकः अपि अस्ति, चिह्नद्वयसहितः इति (अँ॑) | परन्तु अनुदात्तः सर्वथा अनुनासिकः, अथवा स्वरितः सर्वथा अनुनासिकः, इति नियमः नास्ति एव | कदाचित्‌ भवितुम्‌ अर्हति, कदाचित्‌ नाऽपि भवितुम्‌ अर्हति |</big>
 
 
 
<big>एषां त्रयाणां संज्ञकस्वराणाम्‌ उच्चारणभेदाः | '''उच्चैरुदात्तः''' (१.२.२९) इत्यनेन उदात्तः नाम ध्वनिः उपरि दिशि गच्छति | '''नीचैरनुदात्तः''' (१.२.३०) इत्यनेन अनुदात्तः नाम ध्वनिः अधो दिशि गच्छति | '''समाहारः स्वरितः''' (१.२.३१) इत्यनेन स्वरितः नाम ध्वनिः न उपरि न वा अधः | तर्हि उच्चारणभेदाः सन्ति, परन्तु इदानींतनकाले व्याकरणक्षेत्रे एतादृशः अभ्यासः प्रायः लुप्तः |</big>
Line 78 ⟶ 70:
 
=== <big>'''I.''' <u>पदव्यवस्था</u></big> ===
 
 
<big>पदव्यवस्था इत्युक्ते धातुः परस्मैपदिधातुः वा, आत्मनेपदिधातुः वा, उभयपदिधातुः वा, इत्यस्य बोधः |</big>
 
Line 83 ⟶ 77:
 
==== <big>'''a.''' आत्मनेपदत्वम्‌</big> ====
 
 
 
<big>'''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) = यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्‌-संज्ञा भवति, सः धातुः आत्मनेपदी | अनुदात्तश्च ङ्‌ च अनुदात्तङौ, तौ इतौ यस्य सः अनुदात्तङित्‌ द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात्‌ अनुदात्तङितः | अनुदात्तङितः पञ्चम्यन्तम्‌, आत्मनेपदं प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | '''भूवादयो धातवः''' (१.३.१) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | टीकाकाराः सूचयन्ति यत्‌ '''लस्य''' इति पदम्‌ आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः '''आत्मनेपदम्‌''' इत्यस्मिन्‌ | अनुवृत्ति-सहितसूत्रम्— '''अनुदात्तङितः धातोः लस्य आत्मनेपदम्‌''' |</big>
 
 
 
<big>'अनुदात्तेत्‌' नाम अनुदात्तः इत्‌ यस्य सः (धातुः) | अनुदात्तेद्भ्यः धातुभ्यः ङिद्भ्यः धातुभ्यः च आत्मनेपदसंज्ञकाः प्रत्ययाः विधीयन्ते इति सूत्रार्थः | तर्हि यः धातुः अनुदात्तेत्‌ भवति अथवा ङित्‌ भवति, सः आत्मनेपदिधातुः अस्ति |</big>
 
 
 
<big>यथा उपर्युक्ते एधँ॒-धातौ अनुनासिकः (नाम इत्‌‍-संज्ञकः) अकारः अनुदात्तः अपि अस्ति, अतः एधँ॒-धातुः अनुदात्तेत्‌ अस्ति, अतः आत्मनेपदी | तर्हि एधते इति लटि—न तु एधति | कम्पँ॒ धातुः अपि ईदृशः, अनुदात्तेत्‌ | अतः आत्मनेपदी, कम्पते इति लटि |</big>
 
 
 
Line 97 ⟶ 95:
 
==== <big>'''b.''' उभयपदत्वम्‌</big> ====
 
<big>'''स्वरितञितः कर्त्रभिप्राये क्रियाफले''' (१.३.७२) = यस्य धातोः स्वरितस्वरस्य ञकारस्य च इत्‌-संज्ञा भवति, तस्य क्रियायाः फलं कर्तुः अस्ति चेत्‌ धातुतः आत्मनेपदतिङ्‌प्रत्ययाः विहिताः; क्रियायाः फलं कर्तुः नास्ति चेत् धातुतः परस्मैपदतिङ्‌प्रत्ययाः विहिताः भवन्ति | नाम एतादृशः धातुः उभयपदी, इति सारांशः | स्वरितश्च ञ्‌ च स्वरितञौ, तौ इतौ यस्य स स्वरितञित्‌, द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात्‌ स्वरितञितः | कर्तारम्‌ अभिप्रैति इति कर्त्रभिप्रायम्‌ (फलम्‌) उपपद-तत्पुरुषः (यथा कुम्भकारः), तस्मिन्‌ कर्त्रभिप्रये | क्रियायाः फलं क्रियाफलं षष्ठी-तत्पुरुषः, तस्मिन्‌ क्रियाफले | स्वरितञितः पञ्चम्यन्तम्‌, कर्त्रभिप्राये सप्तम्यन्तम्‌, क्रियाफले सप्तम्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''भूवादयो धातवः''' (१.३.१) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | '''लस्य''' इति पदम्‌ आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः '''आत्मनेपदम्‌''' इत्यस्मिन्‌ | अनुवृत्ति-सहितसूत्रम्— '''स्वरितञितः धातोः कर्त्रभिप्राये क्रियाफले लस्य आत्मनेपदम्‌''' |</big>
 
Line 115 ⟶ 112:
 
==== <big>'''c.''' परस्मैपदत्वम्‌</big> ====
 
 
 
<big>'''शेषात्कर्तरि परस्मैपदम्‌''' (१.३.७८) = यत्र धातोः आत्मनेपदस्य कारणं नास्ति, तत्र कर्त्रर्थे परस्मैपदं भवति | आत्मनेपदनिमित्तहीनात्‌ धातोः कर्तरि परस्मैपदं स्यात्‌ | शेषात्‌ पञ्चम्यन्तम्‌, कर्तरि सप्तम्यन्तम्‌, परस्मैपदं प्रथमान्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''भूवादयो धातवः''' (१.३.१) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | '''लस्य''' इति पदम्‌ आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः '''परस्मैपदम्‌''' इत्यस्मिन्‌ | अनुवृत्ति-सहित-सूत्रम्‌— '''शेषात्‌ धातोः कर्तरि लस्य परस्मैपदम्‌''' |</big>
 
 
 
<big>अतः अनेन सूत्रेण अवशिष्टाः धातवः सर्वे परस्मैपदिनः | धातुः अनुदात्तेत्‌, ङित्‌, स्वरितेत्‌, ञित्‌ च नास्ति चेत्‌, सः धातुः परस्मैपदिधातुः एव | ङितः अनुदात्तेतः धातवः एव आत्मनेपदिनः | ञितः स्वरितेतः धातवः एव उभयपदिनः | यदि अवशिष्टाः धातवः सर्वे परस्मैपदिनः, तर्हि सूत्रस्य का आवश्यकता ? इति चेत्‌, कर्तरि | कर्त्रर्थे अस्ति चेदेव धातुः परस्मैपदी | कर्मणि भावे परस्मैपदी न भवति इति सूचनार्थं सूत्रं विरचितम्‌ |</big>
 
 
 
<big>पठँ-धातौ ठकारोत्तरवर्ती यः अकारः अस्ति, सः न अनुदात्तः न वा स्वरितः; चिह्नं नास्ति एव, अतः उदात्तः | उदात्तः अपि अनुनासिकः अपि अतः अयं धातुः उदात्तेत्‌; उदात्तेत्‌ अतः परस्मैपदी | तथैव लिखँ धातुः | धावुँ (गतिशुद्ध्योः) इति उकारस्य उदाहरणम्‌— उकारः उदात्तः अनुनासिकः च, अतः धातुः उदात्तेत्‌; तर्हि परस्मैपदी | लटि धावति |</big>
 
 
 
<big>इदानीं क्षि॒ क्षये इति धातुः | इकारः अनुदात्तः अस्ति, अतः धातुः अनुदात्तेत्‌, आत्मनेपदी च किल, क्षयते इति रूपम्‌ | इत्यस्मिन् अस्माकं भ्रान्तिः | कारणम्‌, अस्मिन्‌ इकारे अनुनासिकचिह्नं नास्ति, अतः इत्‌-संज्ञकः नास्ति | तर्हि अनुदात्तेत्‌ इति कथं वदेम ? धातौ अनुदात्त-इकारः इत्‌-संज्ञकः चेदेव खलु धातुः अनुदात्तेत्‌ (अनुदात्तः इत्‌ यस्य सः) इति वक्तुं शक्नुमः | तर्हि कः स्वरः अवशिष्यते, कः स्वरः च अपगच्छेत्‌ इति अवधेयम्‌ | स्वरेण पदनिर्णयः अस्माभिः कदा क्रियते ? यदा स्वरः शिष्यते इति न; यदा स्वरः इत्‌-संज्ञकः, नाम अपगच्छति, तदा एव क्रियते | क्षि॒ धातौ इकारः अनुदात्तः तु अस्ति, किन्तु इत्‌-संज्ञकः नास्ति | अतः क्षयति | अस्य धातोः इकारः इड्‌-व्यवस्थां सूचयति, न तु पदव्यवस्थाम्‌ |</big>
 
 
 
<big>स्मृ॒-धातौ ऋकारः अनुदात्तः किन्तु अनुनासिकः न अतः अनुदात्तेत्‌ न; अयं ऋकारः इड्‌-व्यवस्थां सूचयति, न तु पदव्यवस्थाम्‌ | स्मृ धातुः अनुदात्तेत्‌ अपि नास्ति, ङित्‌ अपि नास्ति, स्वरितेत्‌ अपि नास्ति, ञित्‌ अपि नास्ति; अतः अयं धातुः परस्मैपदी | स्मरति इति लटि |</big>
 
==== <big><u>अभ्यासः</u></big> ====
 
<big>इमे धातवः सर्वे भ्वादिगणीयाः | सर्वप्रथमं धातुः आत्मनेपदी, उभयपदी, परस्मैपदी वा इति सूच्यताम्‌ | तदा लौकिक-धातुः कः इति वदतु; तदा विकरणसहितम्‌ अङ्गं किम्‌, तदा लट्‌-लकारस्य रूपम्‌ |</big>
Line 149 ⟶ 151:
 
=== <big><u>प्रत्ययस्य स्वभावः</u></big> ===
 
 
 
<big>'''आर्धधातुकस्येड्वलादेः''' (७.२.३५) = आर्धधातुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात्‌ | इट्‌-आगमः टित्‌ अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्‌-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल्‌ आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्‌, इट्‌ प्रथमान्तम्‌, वलादेः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गात् वलादेः आर्धधातुकस्य इट्‌''' |</big>
 
 
 
<big>वलादिः नाम वल्‌ प्रत्याहारः आदौ यस्य सः | वलि यकारं विहाय सर्वाणि व्यञ्जनानि | कस्यचित्‌ आर्धधातुकप्रत्ययस्य आदौ यदि वल्‌-प्रत्याहारस्य कश्चन सदस्यः अस्ति‌, तर्हि इडागमः तस्य प्रत्यस्य आदौ आयाति | आदौ कथं ज्ञायते ? किमर्थं मध्ये अपि न, अन्ते अपि न ? '''आद्यन्तौ टकितौ''' (१.१.४६) इति सूत्रेण यः आगमः टित्‌ अस्ति, सः यस्य आगमः अस्ति तस्य आदौ आयाति, कित्‌ अस्ति चेत्‌ यस्य आगमः अस्ति तस्य अन्ते आयाति | इट्‌-आगमः टित्‌ अस्ति (टकारः इट्‌ यस्य सः), अतः अनेन सूत्रेण इट्‌-आगमः प्रत्ययस्य आदौ आयाति | इडागमः प्रत्ययस्य आदौ न तु धातोः आदौ, यतोहि '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यनेन इडागमः प्रत्ययस्य आगमः (न तु धातोः) |</big>
 
 
 
<big>आर्धधातुकप्रत्ययः कः इति स्मर्यताम्‌ | प्रत्येकं प्रत्ययः यः धातुतः विहितः, सः सार्वधातुकः आर्धधातुकः वा | प्रत्ययः तिङ्‌ शित् वा‌ चेत्‌, '''तिङ्-शित्‌सार्वधातुकम्''' (३.४.११३) इत्यनेन स च प्रत्ययः सार्वधातुकः | तिङ्‌ शित् नास्ति चेत्‌, '''आर्धधातुकं शेषः''' (३.४.११४) इत्यनेन प्रत्ययः आर्धधातुकः |</big>
 
 
 
<big>तर्हि इडागमविधायकं सूत्रम्‌ '''आर्धधातुकस्येड्वलादेः''' | अनेन धातुभ्यः वलादि-आर्धधातुकप्रत्ययः विधीयते चेत्‌, तस्य प्रत्ययस्य इडागमः भवति | नाम अनेन सूत्रेण यः को‍ऽपि आर्धधातुक-प्रत्ययः वलादिः अस्ति, सः प्रत्ययः सेट्‌ | अयं नियमः तिङ्‌-प्रत्यय-प्रसङ्गे पर्याप्तम्‌ | किन्तु धातुभ्यः विहिताः प्रत्ययाः द्विविधाः—तिङ्‌ कृत्‌ च | कृत्‌-प्रत्ययेषु द्वितीयप्रमुखसूत्रेण प्रत्ययः वशादिः चेत्‌, इडागमो निषिध्यते—</big>
 
 
 
<big>'''नेड्‌ वशि कृति''' (७.२.८) = कृत्‌-प्रत्ययस्य आदौ वश्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो न भवति | '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन '''वशि कृति''' इत्युक्तौ वशादौ कृति (तादृशप्रत्ययः यस्य आदौ वश्‌ स्यात्‌) | वश्‌-प्रत्याहारे वर्गीयव्यञ्जनानां तृतीयः, चतुर्थः, पञ्चमश्च सदस्याः, वकाररेफलकाराः च | नाम कृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः, द्वितीयः अथवा श्‌, ष्‌, स्‌, ह्‌ चेत्‌, इडनुकूलः | न अव्ययपदम्‌, इट्‌ प्रथमान्तं, वशि सप्तम्यन्तं, कृति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गात् न इट्‌ वशि कृति''' |</big>
 
 
 
Line 169 ⟶ 177:
 
=== <big><u>धातोः स्वभावः</u></big> ===
 
<big>'''एकाच उपदेशेऽनुदात्तात्‌''' (७.२.१०) = यः औपदेशिकधातुः एकाच्‌ अपि अनुदात्तः अपि अस्ति, तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति | उपदेशे यो धातुरेकाज्‌ अनुदात्तश्च तत आर्धधातुकस्येड्‌ न | यस्मिन्‌ धातौ एकः एव स्वरः वर्तते, सः धातुः एकाच्‌ | उपदेशे नाम पाणिनेः धातुपाठे अयं धातुः अन्तर्भूतः | औपदेशिकधातुः यथा पठँ, लिखँ, डुपचँष्‌, न तु आतिदेशिकधातुः यथा प्रेरणार्थकणिचि पाठि, लेखि, पाचि | एकोऽच्‌ यस्मिन्‌ स एकाच्‌ बहुव्रीहिः, तस्मात्‌ एकाचः | एकाचः पञ्चम्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अनुदात्तात्‌ पञ्चम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''ॠत इद्‌ धातोः''' (७.१.१००) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः; '''नेड्‌ वशि कृति''' (७.२.८) इत्यस्मात्‌ '''न''', '''इट्‌''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''उपदेशे एकाचः अनुदात्तात्‌ धातोः अङ्गात्‌ न इट्‌''' |</big>
 
Line 185 ⟶ 192:
 
<big>यथा डुकृञ्‌ (डुकृ॒ञ्‌) धातुः | अयं धातुः एकाच्‌ अपि अस्ति, अनुदात्तः अपि अस्ति | तदा तुमुन्‌ प्रत्ययः—तुमुन्‌ आर्धधातुकप्रत्ययः (तिङ्‌ अपि नास्ति, शित्‌ अपि नास्ति अतः आर्धधातुकप्रत्ययः—'''तिङ्-शित्‌सार्वधातुकम्'''; '''आर्धधातुकं शेषः''') | वलादिः अवशादिः अपि अस्ति | अतः '''आर्धधातुकस्येड्वलादेः''' इति सूत्रेण इडागमस्य प्राप्तिः अस्ति | किन्तु डुकृ॒ञ्‌ एकाच्‌ अनुदात्तः, अतः '''एकाच उपदेशेऽनुदात्तात्''' इति सूत्रं इडागमं निषेधयति | तदर्थं 'कर्तुम्' इति रूपं भवति (न तु 'करितुम्') |</big>
 
 
 
<u><big>उदाहरणम्‌</big></u>
Line 219 ⟶ 224:
|<big><nowiki>इति धातौ अवशिष्टस्वरः इकारः | स च इकारः उदात्तः यतोहि मूलधातौ तस्मिन्‌ इकारे किमपि चिह्नं नास्ति | अयं धातुः एकाच्‌ अपि अस्ति | </nowiki>'''एकाच उपदेशेऽनुदात्तात्‌'''<nowiki> इत्यनेन इडागमस्य निषेधः नास्ति | अतः अयं धातुः सेट्‌ |</nowiki></big>
|}
 
 
 
Line 246 ⟶ 252:
 
<big>रु॒ङ्‌ गतिरेषणयोः, णिदृँ॑ (णि दृँ दृ॑) कुत्सासन्निकर्षयोः), ईषँ॒ गतिहिंसादर्शनेषु, व॒हँ॑ (व॒, हँ ह॑) प्रापणे, वि॒षुँ सेचने, वे॒ञ्‌ तन्तुसन्ताने, मस्कँ॒ गतौ, र॒भँ॒ राभस्ये, चकँ तृप्तौ, क्षि॒ क्षये, राजृँ॑ (रा, जृँ जृ॑) दीप्तौ, घ॒स्‌ऌँ अदने, शुठिँ शोषणे, कै॒ शब्दे</big>
 
 
<big><u>परिसमाप्तिः</u></big>
Line 263 ⟶ 270:
 
[[File:धातुविज्ञानम् 3 इड्व्यवस्था.jpg|center|frameless]]
 
धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.
 
teachers
810

edits