03---dhaatuvijjaanam/3---dhaatuvijjaanam: Difference between revisions
03---dhaatuvijjaanam/3---dhaatuvijjaanam (view source)
Revision as of 11:22, 13 May 2021
, 3 years agoPDF uploaded
No edit summary |
(PDF uploaded) |
||
Line 28:
<big>पाणिनीयशास्त्रम् अनुबन्धान् आश्रित्य, स्वरांश्च आश्रित्य प्रवर्तते | एतयोः ज्ञानम् अन्तरा पाणिनीयशास्त्रस्य अवगतिः न भवति | धातुषु प्रत्ययेषु च के अनुबन्धाः, अपि च धातुषु स्वरः कीदृशः (उदात्तः, अनुदात्तः, स्वरितो वा)—इदं सर्वम् आश्रित्य एव पाणिनीयशात्रं प्रवर्तते |</big>
Line 158 ⟶ 154:
<big>अत्र नूतनप्रश्नः उदेति | '''आर्धधातुकस्येड्वलादेः''' इत्यनेन ''सर्वेभ्यः धातुभ्यः'' वलादि-आर्धधातुकप्रत्ययः विधीयते चेत्, तस्य प्रत्ययस्य इडागमः भवति | किन्तु तथा सर्वेभ्यः धातुभ्यः प्रत्ययः इडनुकूलः चेदपि कुत्रचित् इडागमः न भवति | वृत्तान्ते तुमुन्-प्रत्ययः | तुमुन् आर्धधातुकः (तिङ् शित् न), वलादिः किन्तु वशादि न (तकारः आदौ अस्ति; स च तकारः वलि अस्ति किन्तु वशि न); तर्हि '''आर्धधातुकस्येड्वलादेः''', '''नेड् वशि कृति''' इति सूत्राभ्यां सर्वेभ्यः धातुभ्यः तुमुन्-प्रत्यये विहिते सति प्रत्ययादौ इडागमः भवेत्—'इतुम्' इति रूपं, यथा पठितुम्, लेखितुम्, चिन्तयितुम् | किन्तु कृ-धातोः कर्तुम्, श्रु-धातोः श्रोतुम् इत्यनयोः इडामः नास्ति | किमर्थम् ? धातुः अपि इडनुकूलः न वा इति ज्ञेयम् |</big>
<big><u>धातोः स्वभावः</u></big>
Line 170 ⟶ 167:
<big>२) ये धातवः एकाचः सन्ति, तेषु ये उदात्तः स्वरितः सन्ति, ते अपि सेटः | यतः अनुदात्तात् धातोः एव वलादि-आर्धधातुक-प्रत्ययस्य इडागमः निषिद्धः इति सूत्रेण उक्तम् | तर्हि अनुदात्ताः ये एकाचः धातवः सन्ति, ते अनिटः, अन्येऽपि सर्वे सेटः भवन्ति |</big>
<big>निष्कर्षत्वेन अनेन सूत्रेण अवगच्छेम यत् एकाच्-धातुषु अनुदात्ताः अनिटः; उदात्ताः स्वरिताः च सेटः इति |</big>
<big>'''आर्धधातुकस्येड्वलादेः''', '''नेड् वशि कृति''' इति सूत्राभ्यां प्रत्ययस्य वर्णनं क्रियते | तिङ्-प्रत्ययः आर्धधातुकः अपि वलादिः अपि चेत्, अयं प्रत्ययः इडागमानुकूलः | कृत्-प्रत्ययः वलादिः अवशादिः चेत्, अयं प्रत्ययः इडागमानुकूलः | धातुः यः कोऽपि भवतु नाम, प्रत्ययः इडागमानुकूलः अस्ति चेत्, इडागमस्य प्रसक्तिः अस्ति एव | तदा '''एकाच उपदेशेऽनुदात्तात्''' इति सूत्रं धातोः वर्णनं करोति | अनेन सूत्रेण वलाद्यार्धधातुकप्रत्ययानुगुणम् इडागमस्य प्रसक्तिः चेदपि यत्र धातुः एकाच् अनुदात्तः, तत्र इडागमो निषिध्यते |</big>
<big>यथा डुकृञ् (डुकृ॒ञ्) धातुः | अयं धातुः एकाच् अपि अस्ति, अनुदात्तः अपि अस्ति | तदा तुमुन् प्रत्ययः—तुमुन् आर्धधातुकप्रत्ययः (तिङ् अपि नास्ति, शित् अपि नास्ति अतः आर्धधातुकप्रत्ययः—'''तिङ्-शित्सार्वधातुकम्'''; '''आर्धधातुकं शेषः''') | वलादिः अवशादिः अपि अस्ति | अतः '''आर्धधातुकस्येड्वलादेः''' इति सूत्रेण इडागमस्य प्राप्तिः अस्ति | किन्तु डुकृ॒ञ् एकाच् अनुदात्तः, अतः '''एकाच उपदेशेऽनुदात्तात्''' इति सूत्रं इडागमं निषेधयति | तदर्थं 'कर्तुम्' इति रूपं भवति (न तु 'करितुम्') |</big>
Line 214 ⟶ 213:
<big>अग्रे गत्वा अस्य स्विद्-धातोः प्रयोगं कृत्वा यत् किमपि रूपम् अपेक्षितं—तिङन्तं स्यात् वा कृदन्तं स्यात्—प्रक्रियायां स्विद् इत्यस्य प्रयोगः करणीयः | स्विद् इति निरनुबन्धधातुः, प्रक्रियार्थम् सिद्धः |</big>
<big><u>धातूनां प्रवृत्तिः</u></big>
Line 238:
<big>Swarup – May 2013 (updated Nov 2014)</big>▼
<big>[https://static.miraheze.org/samskritavyakaranamwiki/1/1b/%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A4%AE%E0%A5%8D%E2%80%8C_-_%E0%A5%A9.pdf धातुविज्ञानम् - ३]</big>
= <small>परिशिष्टम् - १</small> =▼
<big>अत्र वंशी सुधा भगिनी अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या पदव्यवस्थां चित्रत्वेन निरूपितवती—</big>
[[File:धातुविज्ञानम् 3 पदव्यवस्था.jpg|center|frameless]]
= <small>परिशिष्टम् - २</small> =▼
<big>अत्र वंशी सुधा भगिनी अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या इड्व्यवस्थां चित्रत्वेन निरूपितवती—</big>▼
[[File:धातुविज्ञानम् 3 इड्व्यवस्था.jpg|center|frameless]]▼
▲<big>अत्र वंशी सुधा भगिनी अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या इड्व्यवस्थां चित्रत्वेन निरूपितवती—</big>
▲[[File:धातुविज्ञानम् 3 इड्व्यवस्था.jpg|center|frameless]]
|