03---dhaatuvijjaanam/3---dhaatuvijjaanam: Difference between revisions
03---dhaatuvijjaanam/3---dhaatuvijjaanam (view source)
Revision as of 13:01, 13 May 2021
, 3 years agono edit summary
(PDF uploaded) |
No edit summary |
||
Line 35:
<big>एतावता मूलधातौ निबन्धाः के के अपि च कैः कैः सूत्रैः इत्-संज्ञकाः वर्णाः विहिताः, इति अस्माभिः अधीतम् | तत्परं सत्वम्, नत्वम्, नुमागमः, उपधादीर्घः इत्येभिः कार्यैः परिपक्वो लौकिक-धातुः कथं जायते इत्यपि अवलोकितम् |</big>
<big>आहत्य एषु सर्वेषु कार्येषु, स्वराणां कृते एकं विशिष्टं ज्ञानम् अस्माभिः प्राप्तम्—अनुनासिकज्ञानम् इति | धातुषु अनुनासिकज्ञानेन एव अचाम् इत्-संज्ञा सम्भवति | अधुना तदाधारेण अग्रिमः सिद्धान्तः—स्वरविज्ञानेन पदव्यवस्था अपि च सेट्-अनिट्-व्यवस्था ज्ञायते | तर्हि धातुपाठे प्रथमप्रमुखविषयः लौकिक-धातुः कथं सञ्जायते इति; स च अस्माभिः परिशीलितः | अधुना द्वितीयप्रमुखविषयः—स्वरविज्ञानम् | तस्मिन् उपविषयद्वयम्—पदव्यवस्था इड्व्यवस्था च |</big>
<big><u>स्वरविज्ञानम्</u></big>
<big>इत्-संज्ञकेन अच्-वर्णेन धातुः किंपदी इति निर्णयः क्रियते, अपि च अनुबन्धलोपानन्तरम् अवशिष्टस्वरेण निर्णयः क्रियते अयं धातुः इट् अनिट् वा इति |</big>
Line 60 ⟶ 63:
<big>धातुषु अचः अधस्तात् या रेखा दृश्यते (यथा "अ॒" इति), सा रेखा अचः अनुदात्तत्वं सूचयति | आसँ॒ उपवेशने इत्यस्मिन् धातौ, सकारोत्तरवर्ती यः अकारः अस्ति, सः अकारः अनुदात्तः इति अधःस्थं चिह्नं सूचयति | धातुषु अचः उपरिष्टात् या रेखा दृश्यते (यथा "अ॑" इति), तया अचः स्वरितत्वं सूच्यते | यथा डुपच॑ष्* पाके इत्यस्मिन् धातौ, चकारोत्तरवर्ती यः अकारः अस्ति, सः अकारः स्वरितः इति उपरिस्थं चिह्नं सूचयति |</big>
<big>(*मम सङ्गणके ॑ ँ इत्यनयोः द्वयोः चिह्नयोः स्थलं साक्षात् स्वरस्य उपरि, अतः तयोः सहवासः समीचीनं न दृश्यते (आँ॑) | अतः अत्र यद्यपि उभयम् अपेक्षते, तथापि केवलं ॑ स्थापितम्; ँ न स्थापितम् |)</big>
<big>तर्हि उपरि चिह्नम् अस्ति चेत् स्वरः स्वरितः, अधः चिह्नम् अस्ति चेत्, अनुदात्तः | उपरि अपि नास्ति, अधः अपि नास्ति, तर्हि सः स्वरः उदात्तः | यथा व॒सँ-धातौ वकारोत्तरवर्ती यः अकारः अस्ति, तस्य अधः चिह्नम् अस्ति अतः सः अकारः अनुदात्तः | परन्तु शिषँ-धातौ शकारोत्तरवर्ती यः इकारः अस्ति, तस्य उपरि अपि अधः अपि चिह्नं नास्ति, अतः सः इकारः उदात्तः |</big>
<big>बहुत्र अनुदात्तः स्वरः अनुनासिकः अपि अस्ति, नाम चिह्नद्वयं अस्ति (अँ॒) | तथैव बहुत्र स्वरितः स्वरः अनुनासिकः अपि अस्ति, चिह्नद्वयसहितः इति (अँ॑) | परन्तु अनुदात्तः सर्वथा अनुनासिकः, अथवा स्वरितः सर्वथा अनुनासिकः, इति नियमः नास्ति एव | कदाचित् भवितुम् अर्हति, कदाचित् नाऽपि भवितुम् अर्हति |</big>
<big>एषां त्रयाणां संज्ञकस्वराणाम् उच्चारणभेदाः | '''उच्चैरुदात्तः''' (१.२.२९) इत्यनेन उदात्तः नाम ध्वनिः उपरि दिशि गच्छति | '''नीचैरनुदात्तः''' (१.२.३०) इत्यनेन अनुदात्तः नाम ध्वनिः अधो दिशि गच्छति | '''समाहारः स्वरितः''' (१.२.३१) इत्यनेन स्वरितः नाम ध्वनिः न उपरि न वा अधः | तर्हि उच्चारणभेदाः सन्ति, परन्तु इदानींतनकाले व्याकरणक्षेत्रे एतादृशः अभ्यासः प्रायः लुप्तः |</big>
<big>अधुना पाणिनीयधातुपाठे पदव्यवस्थाम् अवलोकयाम; अनन्तरम् इड्व्यवस्था दृश्यताम् |</big>
Line 82 ⟶ 91:
<big>'''a.''' आत्मनेपदत्वम्</big>
<big>'''अनुदात्तङित आत्मनेपदम्''' (१.३.१२) = यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्-संज्ञा भवति, सः धातुः आत्मनेपदी | अनुदात्तश्च ङ् च अनुदात्तङौ, तौ इतौ यस्य सः अनुदात्तङित् द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात् अनुदात्तङितः | अनुदात्तङितः पञ्चम्यन्तम्, आत्मनेपदं प्रथमान्तम्, द्विपदमिदं सूत्रम् | '''भूवादयो धातवः''' (१.३.१) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | टीकाकाराः सूचयन्ति यत् '''लस्य''' इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः '''आत्मनेपदम्''' इत्यस्मिन् | अनुवृत्ति-सहितसूत्रम्— '''अनुदात्तङितः धातोः लस्य आत्मनेपदम्''' |</big>
<big>'अनुदात्तेत्' नाम अनुदात्तः इत् यस्य सः (धातुः) | अनुदात्तेद्भ्यः धातुभ्यः ङिद्भ्यः धातुभ्यः च आत्मनेपदसंज्ञकाः प्रत्ययाः विधीयन्ते इति सूत्रार्थः | तर्हि यः धातुः अनुदात्तेत् भवति अथवा ङित् भवति, सः आत्मनेपदिधातुः अस्ति |</big>
<big>यथा उपर्युक्ते एधँ॒-धातौ अनुनासिकः (नाम इत्-संज्ञकः) अकारः अनुदात्तः अपि अस्ति, अतः एधँ॒-धातुः अनुदात्तेत् अस्ति, अतः आत्मनेपदी | तर्हि एधते इति लटि—न तु एधति | कम्पँ॒ धातुः अपि ईदृशः, अनुदात्तेत् | अतः आत्मनेपदी, कम्पते इति लटि |</big>
Line 93 ⟶ 104:
<big>'''b.''' उभयपदत्वम्</big>
<big>'''स्वरितञितः कर्त्रभिप्राये क्रियाफले''' (१.३.७२) = यस्य धातोः स्वरितस्वरस्य ञकारस्य च इत्-संज्ञा भवति, तस्य क्रियायाः फलं कर्तुः अस्ति चेत् धातुतः आत्मनेपदतिङ्प्रत्ययाः विहिताः; क्रियायाः फलं कर्तुः नास्ति चेत् धातुतः परस्मैपदतिङ्प्रत्ययाः विहिताः भवन्ति | नाम एतादृशः धातुः उभयपदी, इति सारांशः | स्वरितश्च ञ् च स्वरितञौ, तौ इतौ यस्य स स्वरितञित्, द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात् स्वरितञितः | कर्तारम् अभिप्रैति इति कर्त्रभिप्रायम् (फलम्) उपपद-तत्पुरुषः (यथा कुम्भकारः), तस्मिन् कर्त्रभिप्रये | क्रियायाः फलं क्रियाफलं षष्ठी-तत्पुरुषः, तस्मिन् क्रियाफले | स्वरितञितः पञ्चम्यन्तम्, कर्त्रभिप्राये सप्तम्यन्तम्, क्रियाफले सप्तम्यन्तम्, त्रिपदमिदं सूत्रम् | '''भूवादयो धातवः''' (१.३.१) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | '''लस्य''' इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः '''आत्मनेपदम्''' इत्यस्मिन् | अनुवृत्ति-सहितसूत्रम्— '''स्वरितञितः धातोः कर्त्रभिप्राये क्रियाफले लस्य आत्मनेपदम्''' |</big>
<big>धातुः यदि स्वरितेत् अस्ति (स्वरितः इत् यस्य सः) अथवा ञित् अस्ति, तर्हि धातुः उभयपदी भवति | यथा डुपचँ॑ष् पाके | अत्र चकारोत्तरवर्ती यः अकारः अस्ति, सः स्वरितः अस्ति, इत्-संज्ञकश्च | अतः धातुः स्वरितेत् अस्ति, उभयपदी च— लटि पचति, पचते |</big>
<big>प्राचीनकाले स्वरविज्ञानम् आसीत्, अतः तदाधारेण पदव्यवस्था ज्ञायते स्म | इदानींतनकाले डुपचँ॑ष्-धातुः उभयपदी अस्ति इति जानीमः; अपि च ञित् नास्ति, अतः स्वरितेत् स्यात् इति अनुमानं कुर्मः | एवम् ऊहां कृत्वा एव अद्यत्वे धातुपाठे एतादृशानि चिह्नानि कैश्चित् योजितानि | यथा अनुनासिकचिह्नानि न वर्तन्ते सामान्यधातुग्रन्थेषु, तथैव अनुदात्तस्वरितचिह्नानि अपि ग्रन्थेषु सामान्यतया न लभ्यन्ते | किन्तु केचन ऊहां कृत्वा स्थापितवन्तः; तेषु दीक्षितपुष्पा माता अस्मिन् क्षेत्रे नायिका |</big>
<big>अन्यत् उदाहरणं पश्येम, ञितः इति | डुकृञ् धातुः ञित् अस्ति | ञित् अतः अनेन सूत्रेण उभयपदी अस्ति— लटि करोति, कुरुते | वे॒ञ्, ह्वे॒ञ्, व्ये॒ञ् अपि उभयपदिनः |</big>
<big>उपर्युक्तयोः सूत्रयोः ज्ञानेन के के परस्मैपदिधातवः सन्ति इति अपि अवगम्यते | यः कोऽपि धातुः ङित् अपि नास्ति, अनुदात्तेत् अपि नास्ति, ञित् अपि नास्ति, स्वरितेत् अपि नास्ति, सः धातुः परस्मैपदी एव | धातुः उदात्तेत् अस्ति चेत्, परस्मैपदी | किन्तु उदात्तेत् नास्ति चेदपि, यदि ङित्, अनुदात्तेत्, ञित्, स्वरितेत् नास्ति, तर्हि सः धातुः परस्मैपदी एव | यथा रिषँ, गै॒, मुजँ, खुजुँ, णशँ, एते सर्वे धातवः अपि परस्मैपदिनः | परस्मैपदिधातूनां कृते पृथक् सूत्रम् अपि अस्ति | तच्च अग्रे दत्तम् अस्ति—</big>
<big>'''c.''' परस्मैपदत्वम्</big>
<big>'''शेषात्कर्तरि परस्मैपदम्''' (१.३.७८) = यत्र धातोः आत्मनेपदस्य कारणं नास्ति, तत्र कर्त्रर्थे परस्मैपदं भवति | आत्मनेपदनिमित्तहीनात् धातोः कर्तरि परस्मैपदं स्यात् | शेषात् पञ्चम्यन्तम्, कर्तरि सप्तम्यन्तम्, परस्मैपदं प्रथमान्तम्, त्रिपदमिदं सूत्रम् | '''भूवादयो धातवः''' (१.३.१) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | '''लस्य''' इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः '''परस्मैपदम्''' इत्यस्मिन् | अनुवृत्ति-सहित-सूत्रम्— '''शेषात् धातोः कर्तरि लस्य परस्मैपदम्''' |</big>
<big>अतः अनेन सूत्रेण अवशिष्टाः धातवः सर्वे परस्मैपदिनः | धातुः अनुदात्तेत्, ङित्, स्वरितेत्, ञित् च नास्ति चेत्, सः धातुः परस्मैपदिधातुः एव | ङितः अनुदात्तेतः धातवः एव आत्मनेपदिनः | ञितः स्वरितेतः धातवः एव उभयपदिनः | यदि अवशिष्टाः धातवः सर्वे परस्मैपदिनः, तर्हि सूत्रस्य का आवश्यकता ? इति चेत्, कर्तरि | कर्त्रर्थे अस्ति चेदेव धातुः परस्मैपदी | कर्मणि भावे परस्मैपदी न भवति इति सूचनार्थं सूत्रं विरचितम् |</big>
<big>पठँ-धातौ ठकारोत्तरवर्ती यः अकारः अस्ति, सः न अनुदात्तः न वा स्वरितः; चिह्नं नास्ति एव, अतः उदात्तः | उदात्तः अपि अनुनासिकः अपि अतः अयं धातुः उदात्तेत्; उदात्तेत् अतः परस्मैपदी | तथैव लिखँ धातुः | धावुँ (गतिशुद्ध्योः) इति उकारस्य उदाहरणम्— उकारः उदात्तः अनुनासिकः च, अतः धातुः उदात्तेत्; तर्हि परस्मैपदी | लटि धावति |</big>
<big>इदानीं क्षि॒ क्षये इति धातुः | इकारः अनुदात्तः अस्ति, अतः धातुः अनुदात्तेत्, आत्मनेपदी च किल, क्षयते इति रूपम् | इत्यस्मिन् अस्माकं भ्रान्तिः | कारणम्, अस्मिन् इकारे अनुनासिकचिह्नं नास्ति, अतः इत्-संज्ञकः नास्ति | तर्हि अनुदात्तेत् इति कथं वदेम ? धातौ अनुदात्त-इकारः इत्-संज्ञकः चेदेव खलु धातुः अनुदात्तेत् (अनुदात्तः इत् यस्य सः) इति वक्तुं शक्नुमः | तर्हि कः स्वरः अवशिष्यते, कः स्वरः च अपगच्छेत् इति अवधेयम् | स्वरेण पदनिर्णयः अस्माभिः कदा क्रियते ? यदा स्वरः शिष्यते इति न; यदा स्वरः इत्-संज्ञकः, नाम अपगच्छति, तदा एव क्रियते | क्षि॒ धातौ इकारः अनुदात्तः तु अस्ति, किन्तु इत्-संज्ञकः नास्ति | अतः क्षयति | अस्य धातोः इकारः इड्-व्यवस्थां सूचयति, न तु पदव्यवस्थाम् |</big>
<big>स्मृ॒-धातौ ऋकारः अनुदात्तः किन्तु अनुनासिकः न अतः अनुदात्तेत् न; अयं ऋकारः इड्-व्यवस्थां सूचयति, न तु पदव्यवस्थाम् | स्मृ धातुः अनुदात्तेत् अपि नास्ति, ङित् अपि नास्ति, स्वरितेत् अपि नास्ति, ञित् अपि नास्ति; अतः अयं धातुः परस्मैपदी | स्मरति इति लटि |</big>
<big><u>अभ्यासः</u></big>
<big>इमे धातवः सर्वे भ्वादिगणीयाः | सर्वप्रथमं धातुः आत्मनेपदी, उभयपदी, परस्मैपदी वा इति सूच्यताम् | तदा लौकिक-धातुः कः इति वदतु; तदा विकरणसहितम् अङ्गं किम्, तदा लट्-लकारस्य रूपम् |</big>
<big>उदा० वञ्चुँ इति धातुः | उदात्तेत् अतः परस्मैपदी | लौकिकधातुः वञ्च् | विकरणसहितम् अङ्गं वञ्च | लटि वञ्चति | वञ्चुँ → वञ्च् → (वञ्च् + शप्) → वञ्च → (वञ्च + ति) → वञ्चति |</big>
<big>मलँ॒, बुधिँ॑र् (बुधि॑र्), अक्षूँ , टुभ्राशृँ॒ , हृ॒ञ् , तॄ, दे॒ङ्, भृ॒ञ् , द्रै॒, इटँ, मिदृँ (दृ॑), जिषुँ, वृकँ॒, अटँ, वृधुँ॒</big>
<big>'''II.''' <u>इड्व्यवस्था</u></big>
<big>इट् नाम किम् | प्रायः अस्माभिः सर्वैः अवलोकितं स्यात् यत् तिङन्तेषु कृदन्तेषु च कुत्रचित् इकारः श्रूयते कुत्रचित् न | यथा तिङन्तेषु गमिष्यति इत्यत्र मकारोत्तरः इकारः अस्ति; द्रक्ष्यति इत्यत्र एवं कोऽपि इकारः नास्ति | कृदन्तेषु पठितुम् इत्यत्र ठकारोत्तरः इकारः अस्ति; कर्तुम् इत्यत्र एवं कोऽपि इकारः नास्ति | अस्य इकारस्य नाम इट्-आगमः (इडागमः) | तर्हि कुत्र इडागमः संयुज्यते अपि च कुत्र न, इत्यस्य विज्ञानस्य नाम इड्व्यवस्था | यत्र इडागमस्य योजनार्थं धातोः अनुकूलता वर्तते, तत्र धातुः सेट् इत्युच्यते | सेट् = इटा सह, बहुव्रीहिसमासः | (एतादृश-बहुव्रीहिसमासस्य 'यस्य सः, येन सः' इति शैली न भवति, किन्तु अन्यपदप्राधान्यम् अस्ति; प्रधानं न 'स', न वा 'इट्', अपि तु 'धातुः' |) यत्र एतादृशी अनुकूलता नास्ति, तत्र धातुः अनिट् इत्युच्यते | अनिट् = न इट् (इट् राहित्यं) यस्य सः | सामान्यतया धातुः सेट् अस्ति चेत् अपि च तस्मात् यः प्रत्ययः विहितः अस्ति सः अपि सेट् अस्ति चेत्, तर्हि तत्र इडनुकूलता विद्यते | नाम तस्यां दशायाम् इडागमः भवितुम् अर्हति | धातुप्रत्यययोः कश्चन इडानुकूलो नास्ति चेत्, सामान्यतया तत्र ईडनुकूलता नास्ति | अपवादाः सन्ति, किन्तु सामान्यनियमः अयम् |</big>
<big>इत्-संज्ञकेन अच्-वर्णेन धातुः किंपदी इति निर्णयः क्रियते, अपि च अवशिष्टस्वरेण निर्णयः क्रियते अयं धातुः इट् अनिट् वा इति अस्माभिः उक्तम् | इत्-संज्ञकानां वर्णानां निष्कासनानन्तरं यः स्वरः अवशिष्यते, तेन स्वरेण धातुः इट् वा अनिट् वा इति निर्णयः क्रियते | अनेन स्वरेण इड्-व्यवस्था ज्ञायते |</big>
<big>तर्हि अत्र इड्व्यवस्था कीदृशी इति द्रष्टव्यम् | वृत्तान्ते पठँ इति धातुः | ठकारोत्तरवर्ती यः अकारः अस्ति सः अनुनासिकः उदात्तः च, अतः धातुः परस्मैपदी | पकारोत्तरवर्ती यः अकारः अस्ति, सः अवशिष्टः स्वरः इति उच्यते | अयम् अकारः कीदृशः इति धेयम् | '''अवशिष्टः स्वरः अनुदात्तः चेत्, धातुः अनिट्''' | '''अयम् अवशिष्टः स्वरः उदात्तः स्वरितो वा, धातुः सेट्''' | पकारोत्तरवर्ती अकारः उदात्तः, अतः धातुः सेट् | गै॒ धातौ ऐकारः अनुदात्तः, अतः धातुः अनिट् | मे॒ङ् धातौ ङकारस्य इत्-संज्ञा, मे॒ अवशिष्यते | एकारः अनुदात्तः, अतः धातुः अनिट् | क्षिवुँ इति धातौ उकारः अनुनासिकः अतः तस्य इत्-सज्ञा लोपः च | क्षिव् इति अवशिष्यते | क्षकारोत्तरवर्ती यः इकारः सः उदात्तः, अतः धातुः सेट् | उपर्युक्तस्य नियमस्य कारणं यदि अवगन्तुम् इच्छेम, तर्हि सूत्रद्वयं द्रष्टव्यं भवति |</big>
<big><u>प्रत्ययस्य स्वभावः</u></big>
<big>'''आर्धधातुकस्येड्वलादेः''' (७.२.३५) = आर्धधातुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात् | इट्-आगमः टित् अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल् आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्, इट् प्रथमान्तम्, वलादेः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गात् वलादेः आर्धधातुकस्य इट्''' |</big>
<big>वलादिः नाम वल् प्रत्याहारः आदौ यस्य सः | वलि यकारं विहाय सर्वाणि व्यञ्जनानि | कस्यचित् आर्धधातुकप्रत्ययस्य आदौ यदि वल्-प्रत्याहारस्य कश्चन सदस्यः अस्ति, तर्हि इडागमः तस्य प्रत्यस्य आदौ आयाति | आदौ कथं ज्ञायते ? किमर्थं मध्ये अपि न, अन्ते अपि न ? '''आद्यन्तौ टकितौ''' (१.१.४६) इति सूत्रेण यः आगमः टित् अस्ति, सः यस्य आगमः अस्ति तस्य आदौ आयाति, कित् अस्ति चेत् यस्य आगमः अस्ति तस्य अन्ते आयाति | इट्-आगमः टित् अस्ति (टकारः इट् यस्य सः), अतः अनेन सूत्रेण इट्-आगमः प्रत्ययस्य आदौ आयाति | इडागमः प्रत्ययस्य आदौ न तु धातोः आदौ, यतोहि '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यनेन इडागमः प्रत्ययस्य आगमः (न तु धातोः) |</big>
<big>आर्धधातुकप्रत्ययः कः इति स्मर्यताम् | प्रत्येकं प्रत्ययः यः धातुतः विहितः, सः सार्वधातुकः आर्धधातुकः वा | प्रत्ययः तिङ् शित् वा चेत्, '''तिङ्-शित्सार्वधातुकम्''' (३.४.११३) इत्यनेन स च प्रत्ययः सार्वधातुकः | तिङ् शित् नास्ति चेत्, '''आर्धधातुकं शेषः''' (३.४.११४) इत्यनेन प्रत्ययः आर्धधातुकः |</big>
<big>तर्हि इडागमविधायकं सूत्रम् '''आर्धधातुकस्येड्वलादेः''' | अनेन धातुभ्यः वलादि-आर्धधातुकप्रत्ययः विधीयते चेत्, तस्य प्रत्ययस्य इडागमः भवति | नाम अनेन सूत्रेण यः कोऽपि आर्धधातुक-प्रत्ययः वलादिः अस्ति, सः प्रत्ययः सेट् | अयं नियमः तिङ्-प्रत्यय-प्रसङ्गे पर्याप्तम् | किन्तु धातुभ्यः विहिताः प्रत्ययाः द्विविधाः—तिङ् कृत् च | कृत्-प्रत्ययेषु द्वितीयप्रमुखसूत्रेण प्रत्ययः वशादिः चेत्, इडागमो निषिध्यते—</big>
<big>'''नेड् वशि कृति''' (७.२.८) = कृत्-प्रत्ययस्य आदौ वश्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो न भवति | '''यस्मिन् विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम् २९) इत्यनेन '''वशि कृति''' इत्युक्तौ वशादौ कृति (तादृशप्रत्ययः यस्य आदौ वश् स्यात्) | वश्-प्रत्याहारे वर्गीयव्यञ्जनानां तृतीयः, चतुर्थः, पञ्चमश्च सदस्याः, वकाररेफलकाराः च | नाम कृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः, द्वितीयः अथवा श्, ष्, स्, ह् चेत्, इडनुकूलः | न अव्ययपदम्, इट् प्रथमान्तं, वशि सप्तम्यन्तं, कृति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गात् न इट् वशि कृति''' |</big>
<big>अत्र नूतनप्रश्नः उदेति | '''आर्धधातुकस्येड्वलादेः''' इत्यनेन ''सर्वेभ्यः धातुभ्यः'' वलादि-आर्धधातुकप्रत्ययः विधीयते चेत्, तस्य प्रत्ययस्य इडागमः भवति | किन्तु तथा सर्वेभ्यः धातुभ्यः प्रत्ययः इडनुकूलः चेदपि कुत्रचित् इडागमः न भवति | वृत्तान्ते तुमुन्-प्रत्ययः | तुमुन् आर्धधातुकः (तिङ् शित् न), वलादिः किन्तु वशादि न (तकारः आदौ अस्ति; स च तकारः वलि अस्ति किन्तु वशि न); तर्हि '''आर्धधातुकस्येड्वलादेः''', '''नेड् वशि कृति''' इति सूत्राभ्यां सर्वेभ्यः धातुभ्यः तुमुन्-प्रत्यये विहिते सति प्रत्ययादौ इडागमः भवेत्—'इतुम्' इति रूपं, यथा पठितुम्, लेखितुम्, चिन्तयितुम् | किन्तु कृ-धातोः कर्तुम्, श्रु-धातोः श्रोतुम् इत्यनयोः इडामः नास्ति | किमर्थम् ? धातुः अपि इडनुकूलः न वा इति ज्ञेयम् |</big>
Line 159 ⟶ 193:
<big>'''एकाच उपदेशेऽनुदात्तात्''' (७.२.१०) = यः औपदेशिकधातुः एकाच् अपि अनुदात्तः अपि अस्ति, तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति | उपदेशे यो धातुरेकाज् अनुदात्तश्च तत आर्धधातुकस्येड् न | यस्मिन् धातौ एकः एव स्वरः वर्तते, सः धातुः एकाच् | उपदेशे नाम पाणिनेः धातुपाठे अयं धातुः अन्तर्भूतः | औपदेशिकधातुः यथा पठँ, लिखँ, डुपचँष्, न तु आतिदेशिकधातुः यथा प्रेरणार्थकणिचि पाठि, लेखि, पाचि | एकोऽच् यस्मिन् स एकाच् बहुव्रीहिः, तस्मात् एकाचः | एकाचः पञ्चम्यन्तम्, उपदेशे सप्तम्यन्तम्, अनुदात्तात् पञ्चम्यन्तं, त्रिपदमिदं सूत्रम् | '''ॠत इद् धातोः''' (७.१.१००) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः; '''नेड् वशि कृति''' (७.२.८) इत्यस्मात् '''न''', '''इट्''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे एकाचः अनुदात्तात् धातोः अङ्गात् न इट्''' |</big>
<big>अत्र यद्यपि "उपदेशे" इत्यनेन मूलधातुः इत्युक्तं, परन्तु "एकाच्" इत्यस्य कृते यदा स्वराणां गणनं भवति, तदा अनुबन्धेषु ये स्वराः सन्ति, ते गणने नान्तर्भूताः | यथा डुकृञ् इति धातौ यद्यपि उकारः अपि ऋकारः अपि स्तः, किन्तु उकारः अनुबन्धे अस्ति अतः तस्य गणनं न भवति | डुकृञ् एकाच् अस्ति |</big>
<big>इडागमनिषेधकं सूत्रम् इदम् | अनेन इडागमः तदा निषिध्यते यदा धातुः एकाच् अपि स्यात्, अनुदात्तः अपि स्यात् | अनेन ज्ञायते यत्—</big>
<big>१) अनेकाचः धातवः सर्वे सेटः भवन्ति | (अस्माकं परिचितेषु धातुषु आधिक्येन एकाचः धातवः एव सन्ति | सनन्तादिषु आतिदेशिकधातुषु अनेकाचः धातवः बहवः, परन्तु ते उपदेशे नान्तर्भूताः | उपदेशे केचन एव, यथा दरिद्रा-धातुः अनेकाच् |)</big>
Line 175 ⟶ 211:
<big>यथा डुकृञ् (डुकृ॒ञ्) धातुः | अयं धातुः एकाच् अपि अस्ति, अनुदात्तः अपि अस्ति | तदा तुमुन् प्रत्ययः—तुमुन् आर्धधातुकप्रत्ययः (तिङ् अपि नास्ति, शित् अपि नास्ति अतः आर्धधातुकप्रत्ययः—'''तिङ्-शित्सार्वधातुकम्'''; '''आर्धधातुकं शेषः''') | वलादिः अवशादिः अपि अस्ति | अतः '''आर्धधातुकस्येड्वलादेः''' इति सूत्रेण इडागमस्य प्राप्तिः अस्ति | किन्तु डुकृ॒ञ् एकाच् अनुदात्तः, अतः '''एकाच उपदेशेऽनुदात्तात्''' इति सूत्रं इडागमं निषेधयति | तदर्थं 'कर्तुम्' इति रूपं भवति (न तु 'करितुम्') |</big>
<u><big>उदाहरणम्</big></u>
Line 213 ⟶ 251:
<big>अग्रे गत्वा अस्य स्विद्-धातोः प्रयोगं कृत्वा यत् किमपि रूपम् अपेक्षितं—तिङन्तं स्यात् वा कृदन्तं स्यात्—प्रक्रियायां स्विद् इत्यस्य प्रयोगः करणीयः | स्विद् इति निरनुबन्धधातुः, प्रक्रियार्थम् सिद्धः |</big>
Line 234 ⟶ 275:
<big><u>परिसमाप्तिः</u></big>
<big>करपत्रत्रयेन अस्माभिः सम्पूर्णं धातुविज्ञानं प्राप्तम् | प्रथमे करपत्रे इत्-संज्ञा प्रकरणम्; कथम् अनुबन्धानां लोपः क्रियते | द्वितीये करपत्रे सत्वम्, नत्वम्, नुमागमः, उपधादीर्घः | करपत्रद्वयेन मूलधातुः प्रक्रियार्थं सिद्धः भवति | अस्मिन् तृतीये करपत्रे स्वरविज्ञानम्—पदव्यवस्था इड्व्यवस्था च | स्वरविज्ञानेन धातोः सम्पूर्णबोधः लभ्यते | अग्रे गत्वा मूलधातुः अस्माकम् आधारः | अनेन मूलधातुना सर्वेषां सार्वधातुकलकाराणां सिद्धिः, तत्पश्चात् आर्धधातुकलकाराणां सिद्धिः, परं कृदन्तानां सिद्धिः | अन्ते तद्धितान्तानां मूलाधारः अपि अयमेव मूलधातुः |</big>
Line 247 ⟶ 290:
<big><u>परिशिष्टम् - १</u></big>
<big>अत्र वंशी सुधा भगिनी अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या पदव्यवस्थां चित्रत्वेन निरूपितवती—</big>
[[File:धातुविज्ञानम् 3 पदव्यवस्था.jpg|center|frameless|482x482px]]
<big><u>परिशिष्टम् - २</u></big>
<big>अत्र वंशी सुधा भगिनी अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या इड्व्यवस्थां चित्रत्वेन निरूपितवती—</big>
[[File:धातुविज्ञानम् 3 इड्व्यवस्था.jpg|center|frameless|508x508px]]
|