04---aShTAdhyAyI-paricayaH/02---aShTAdhyAyyAH-samagradRuShTiH: Difference between revisions

no edit summary
(Added new pdf link)
No edit summary

(18 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE:02 - अष्टाध्याय्याः समग्रदृष्टिः}}
ध्वनिमुद्रणानि -
{| class="wikitable mw-collapsible mw-collapsed"
!'''ध्वनिमुद्रणानि -'''

|'''2016 वर्गः'''

|१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/27_prakriyA-prakaraNaM-ca_2016-05-18.mp3 prakriyA-prakaraNaM-ca_2016-05-18]

|२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/28_prakriyA-prakaraNa-bhedaH__it-sangyA-prakaraNam__dvitvaprakaraNam_2016-05-25.mp3 prakriyA-prakaraNa-bhedaH_+_it-sangyA-prakaraNam_+_dvitvaprakaraNam_2016-05-25]

|३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/29_prakaraNa-cintanam-Natvam__aShTAdhyAyyAH-mAnacitram---adhyAyAH-1-2-3_2016-06-01.mp3 prakaraNa-cintanam-Natvam_+_aShTAdhyAyyAH-mAnacitram---adhyAyAH-1-2-3_2016-06-01]

|४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/30_aShTAdhyAyyAH-samagra-dRuShTiH---sarve-adhyAyAH_2016-06-08.mp3 aShTAdhyAyyAH-samagra-dRuShTiH---sarve-adhyAyAH_2016-06-08]

|'''2014 वर्गः'''

|१) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/05_ashtadhyayyah_samagradrushtih_2014-06-25.mp3 aShTAdhyAyyAH_samagradRuShTiH_ 2014-06-25]

समग्रसंस्कृतभाषायाः मानचित्रम्‌ एकस्मिन्‌ लघु-ग्रन्थे—अभूतपूर्वम्‌ ! पाणिनिना अष्टाध्यायी विरचिता एवं रीत्या येन ग्रन्थो लघुतमः स्यात्‌, अपि च स्वयं संस्कृतस्स्यात्‌ | अष्टाध्याय्याः मूलबीजं प्रकरणम्‌ | यदा वयं सूत्राणि क्रमेण पठामः, तदा पश्यामः यत्‌ सूत्राणि प्रकरणेषु—लघुषु उपभागेषु—आयोजितानि |
2016 वर्गः

१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/27_prakriyA-prakaraNaM-ca_2016-05-18.mp3 prakriyA-prakaraNaM-ca_2016-05-18]

अद्यत्वे सामान्यतया व्याकरणछात्राः अष्टाध्ययीम्‌अष्टाध्यायीम्‌ अपठित्वा सिद्धान्तकौमुद्यां निमग्नाः भवन्ति | सिद्धान्तकौमुदी प्रक्रियायाम्‌ आधारिता |
२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/28_prakriyA-prakaraNa-bhedaH__it-sangyA-prakaraNam__dvitvaprakaraNam_2016-05-25.mp3 prakriyA-prakaraNa-bhedaH_+_it-sangyA-prakaraNam_+_dvitvaprakaraNam_2016-05-25]

३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/29_prakaraNa-cintanam-Natvam__aShTAdhyAyyAH-mAnacitram---adhyAyAH-1-2-3_2016-06-01.mp3 prakaraNa-cintanam-Natvam_+_aShTAdhyAyyAH-mAnacitram---adhyAyAH-1-2-3_2016-06-01]

४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/30_aShTAdhyAyyAH-samagra-dRuShTiH---sarve-adhyAyAH_2016-06-08.mp3 aShTAdhyAyyAH-samagra-dRuShTiH---sarve-adhyAyAH_2016-06-08]

2014 वर्गः

[https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/05_ashtadhyayyah_samagradrushtih_2014-06-25.mp3 aShTAdhyAyyAH_samagradRuShTiH_ 2014-06-25]

समग्रसंस्कृतभाषायाः मानचित्रम्‌ एकस्मिन्‌ लघु-ग्रन्थे—अभूतपूर्वम्‌ ! पाणिनिना अष्टाध्यायी विरचिता एवं रीत्या येन ग्रन्थो लघुतमः स्यात्‌, अपि च स्वयं संस्कृतस्स्यात्‌ | अष्टाध्याय्याः मूलबीजं प्रकरणम्‌ | यदा वयं सूत्राणि क्रमेण पठामः, तदा पश्यामः यत्‌ सूत्राणि प्रकरणेषु—लघुषु उपभागेषु—आयोजितानि |

अद्यत्वे सामान्यतया व्याकरणछात्राः अष्टाध्ययीम्‌ अपठित्वा सिद्धान्तकौमुद्यां निमग्नाः भवन्ति | सिद्धान्तकौमुदी प्रक्रियायाम्‌ आधारिता |

Line 27 ⟶ 30:

प्रकरणं प्रक्रिया चेत्यनयोर्भेदः कः इति अस्माभिः बोध्यम्‌ | माता पुष्पादीक्षिता सदा पाकशालायाः उदाहरणं ददाति | भोजनस्य निर्माणार्थं सामग्री आवश्यकी | तण्डुलः, जलम्‌, शाकः, पिष्टम्‌, हरिद्रा, आर्द्रकम् इत्यादिकम्‌—इदं सर्वं भोजनस्य सामग्री | पाकशालायां सर्वा सामग्री एकत्र न स्थाप्यते; पृथक्‌-पृथक्‌ कोशेषु भवति | शाकः पृथक्‌ कोशे, पिष्टं पृथक्‌ कोशे, तण्डुलः पुनः पृथक्‌ कोशे | सर्वा सामग्री एकस्मिन्‌ एव कोशे एकत्र स्थाप्यते चेत्‌, अव्यवस्था भवति खलु; अतः सम्यक्तया, सावधानतया पृथक्‌ पृथक्‌ कोशेषु एकैकं वस्तु स्थाप्यते |

अष्टाध्यायी अपि तथा—भाषायाः पाकशाला | यावती सामग्री अपेक्षिता भाषायाः निर्माणार्थं, सर्वं अस्मिन्‌ ग्रन्थे अस्ति | परन्तु एकत्र न; श्रेणीम्‌ अनुसृत्य पृथक्‌ पृथक्‌ कोशेषु स्थाप्यते | प्रत्येकं कोशस्य नाम 'प्रकरणम्‌' | णत्वप्रकरणं, द्वित्वप्रकरणं, सम्प्रसारणप्रकरणम्‌ इत्यादिकम्‌ |

भोजनस्य निर्माणार्थं केवलं सामग्री आवश्यकी इति न; मार्गनिर्देशोऽपि आवश्यकः | ओदनं निर्मातुं सर्वप्रथमं तण्डुलस्य प्रक्षालनं, तदा जले स्थापनं, तदा जलस्य क्वथनम्— एतादृशी सूचना अपेक्षिता | इयं पाककृतिः इति वदामः |

भाषाक्षेत्रे प्रक्रिया तथैव भवति | पदस्य निर्माणार्थं (१) कानि सोपानानि सन्ति, अपि च (२) केन क्रमेण, इति सूचना 'प्रक्रिया' इत्युच्यते | जि + अ + ति → जयति— अस्य कार्यस्य कृते कानि सूत्राणि अपेक्षितानि, केन क्रमेण च इति 'प्रक्रिया' |
Line 50 ⟶ 57:

अत्र एका प्रक्रिया प्रदर्शिता | जयति इति पदं कथं निर्मीयते इति प्रदर्शितम्‌ | सूत्राणां सङ्ख्याः दृश्यन्ताम्‌; इमानि सूत्राणि विभिन्नेभ्यः अध्यायेभ्यः पादेभ्यश्च स्वीकृतानि | अनेन कारणेन कस्माच्चित्‌ सूत्रात्‌ प्राक्‌ कानि सूत्रणिसूत्राणि वर्तन्ते, केषां च पदानाम्‌ अनुवृत्तिः इति न ज्ञायते | तस्य फलम्‌ इदं यत्‌ प्रक्रियायाः प्रसङ्गे सूत्रस्य दर्शनेन तस्य अर्थः नैव अवगम्यते अस्माभिः |

प्रक्रियायाः किञ्चन फलं तु अस्त्येव; अनेन पदनिर्माणक्रिया बुद्धा | परन्तु सूत्रस्य अवगमनार्थं, यत्र सूत्रबोधः लक्ष्यं, तत्र अस्माकं क्लेशो भवति यतः सूत्रं स्वयं सम्पूर्णं वाक्यं न | सूत्रस्य पूरणार्थं वाक्यम्‌ अपेक्षितम्‌; तच्च वाक्यं न प्राप्यते प्रक्रियायाम्‌ अपि तु प्रकरणे एव |

पाणिनेः ग्रन्थः प्रकरणस्य आधारेण विरचितः | यदा अष्टाध्यायी-क्रमेण सूत्राणि पठामः, तदा सौकर्येण वयं सूत्राणि पूरयितुं शक्नुमः येन प्रत्येकं सूत्रं पूर्णं वाक्यं स्यात्‌ | अनेन सूत्रार्थः मनसि स्फुरितो विद्यते |

एकस्मिन्‌ प्रकरणे वारं वारम् एकं कार्यं भवति | यत्‌ पदं दत्तम्‌ एकस्मिन्‌ सूत्रे, तत्‌ पुनः अग्रिमे सूत्रे साक्षात्‌ न दीयते; पाठकैः अवगम्यते यत्‌ सः अर्थः पुनः आयाति तस्मिन्‌ सूत्रेऽपि | इयम्‌ अनुवृत्तिः इति वदामः | अत्र अयं विषय इतोऽपि विस्तारितः—

पाणिनिः सूत्रस्य लघुत्वम्‌ इच्छति | तदर्थं येषां सूत्राणां समानप्रकारक-कार्यं भवति, तानि सूत्राणि अष्टाध्याय्याम्‌ एकस्मिन्‌ स्थले सङ्गृहीतं भवन्ति | अनेन, एकस्मिन्‌ स्थले (इत्युक्ते एकस्मिन्‌ प्रकरणे) प्रथमे सूत्रे किञ्चन पदम्‌ अस्ति, तत् पदं द्वितीये सूत्रे अपि यद्यपि अपेक्षते, तथापि पुनः साक्षात्‌ न दीयते | अस्माभिः मनसि तत्‌ पदम्‌ आनेतव्यम्‌ | यथा रामः वदति "अहम्‌ आपणं गच्छामि" | श्यामः वदति "अहम्‌ अपि" | वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत्‌ श्यामस्य आशयः "अहम्‌ अपि आपणं गच्छामि" इति | यद्यपि श्यामः केवलम्‌ "अहम्‌ अपि" इत्यवदत्‌, तथापि वयं तस्य अर्थं पूरयामः मनसि | तादृशम्‌ अर्थपूरणं पाणिनिः इच्छति सूत्रविषये | यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि, तानि अनुवृत्तयः इत्युच्यन्ते |
Line 63 ⟶ 75:
प्रकरणम्‌

अत्र प्रथमम्‌ उदाहरणम्‌ अस्माकमअस्माकं परिचितम्‌, इत्संज्ञाप्रकरणम्‌ | अस्मिन्‌, क्रमेण अष्ट सूत्राणि सन्ति, यस्मिन्‌ प्रत्येकं सूत्रस्य बोधनार्थं पूर्वतनानाम्‌ अपेक्षा | अनेन प्रकटं भवति यत्‌ एषां अष्टानां सूत्राणाम्‌ अवगमने, मनसि दृढीकरणे च अष्टाध्यायाम्‌अष्टाध्याय्याः एव पठनेन सौकर्यं, यत्र क्रमेण सूत्रेण प्राप्यन्ते |

अत्र क्रमेण चत्वारि सूत्राणि धातुषु अपि, प्रत्ययेषु अपि—
Line 74 ⟶ 89:

४. '''आदिर्ञिटुडवः''' (१.३.५) | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे धातोः आदयः''' '''ञिटुडवः इतः''' | तत्र '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यस्मात्‌ सूत्रात्‌ 'उपदेशे', 'इत्‌' इत्यनयोः अनुवृत्तिः; '''भूवादयो धातवः''' (१.३.१) इत्यस्मात्‌ 'धातोः' इत्यस्य अनुवृत्तिः (वचनपरिणामं विभक्तिपरिणामं च कृत्वा) |

तदा अग्रे, क्रमेण त्रीणि सूत्राणि प्रत्ययेषु एव—
Line 82 ⟶ 98:

७. '''लशक्वतद्धिते''' (१.३.८) | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदि''' '''लशकु इत्''' '''अतद्धिते''' | तत्र '''षः प्रत्ययस्य''' (१.३.६) इत्यस्मात्‌ 'प्रत्ययस्य', '''आदिर्ञिटुडवः''' (१.३.५) इत्यस्मात्‌ 'आदिः', '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यस्मात्‌ 'उपदेशे', 'इत्‌' |

अन्ते इत्‌-लोप-विधिः—
Line 87 ⟶ 104:
८. '''तस्य लोपः''' (१.३.९) | अनुवृत्ति-सहितसूत्रम्— '''तस्य इतः लोपः''' | तत्र '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यस्मात्‌ '''इत्‌''' इत्यस्य अनुवृत्तिः |

किं सूत्रपर्यन्तं स्थूलाक्षराणाम्‌ अनुवृत्तिः

१. भूवादयो '''धातवः''' (१.३.१)                                                     ९३
Line 106 ⟶ 124:

९. तस्य लोपः (१.३.९)

अत्र, सङ्क्षेपे प्रकरणस्य अन्यत्‌ उदाहरणद्वयं दीयते, येन प्रकरण-सम्बद्ध-अनुवृत्तिः स्पष्टतया दृश्येत |
Line 111 ⟶ 130:

द्वित्वप्रकरणम्‌ (६.१.१ – ६.१.१२)

अस्य प्रकरणस्य द्वादशसु सूत्रेषु एव, संपूर्णतया संस्कृतभाषायां, कुत्र कुत्र द्वित्वम्‌ अपेक्षते इति सूच्यते, अपि च यत्र कुत्रापि द्वित्वम्‌ अपेक्षते, तच्च द्वित्वं कथं क्रियते इत्यपि सूच्यते अत्र |

१. '''एकाचो द्वे प्रथमस्य''' (६.१.१) = अधिकारसूत्रं, द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | सूत्रं स्वयं सम्पूर्णम्‌ | जागृ → जा जागृ | पच्‌ → पच्‌ पच्‌ | इ → इ इ |
Line 124 ⟶ 145:
५. '''उभे अभ्यस्तम्''' (६.१.५) | '''उभे द्वे अभ्यस्तम्''' | संज्ञासूत्रम्‌ |

६. '''जक्षितादयःजक्षित्यादयः षट्‌''' (६.१.६) | '''जक्षित्यादयः षट्‌ अभ्यस्तम्‌''' | अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन्‌ सप्त धातवः सन्ति— जक्ष्‌, जागृ, दरिद्रा, चकास्‌, शास्‌, दीधीङ्‌, वेवीङ्‌ च | तेषां द्वित्वाभावेऽपि अभ्यस्त-संज्ञा |

७. '''तुजादीनां दीर्घोऽभ्यासस्य''' (६.१.७) | सूत्रं स्वयं सम्पूर्णम्‌ | तुज्‌ इव धातूनाम्‌ अभ्यासस्य स्वरः दीर्घः | वेदे एव | तुज्‌ + कानच्‌ → '''लिटः कानज्वा''' (३.२.६) इत्यनेन वेदे लिटः स्थाने कानच्‌ विकल्पेन → तूतुजानः (ऋग्वेदे १.३.६)
Line 149 ⟶ 170:

तर्हि आहत्य, पाणिनेः प्रकरण-रीत्या लेखनेन सूत्राणां लघुत्वं सिद्धम् अपि च तेषाम्‌ आयोजनम्‌ अतिस्पष्टम्‌ | अस्माकं कृते प्रकरणाधारिणा अभ्यासेन सूत्र-नैपुण्यं जायते अपि च सामग्री कुत्र स्थिता इति ज्ञायते | अष्टाध्यायी-क्रमस्य पठनेन अनेके महान्तो लाभाः |

प्रक्रिया-ग्रन्थेषु सूत्राणि इतस्ततः स्वीकृत्य पदनिर्माणं भवति | अनेन कारणेन सूत्रक्रमः भग्नो भवति | अनुवृत्तिः नैव प्रकटा | सूत्राणां बोधार्थं महान्‌ सङ्घर्षः |

सारांशे पाणिनये स्वयं प्रकरणरीतिः रोचते खलु, तदा एव अयं मार्गः तेन स्वीकृतः | तस्य मार्गचयनस्य किञ्चन कारणं स्यात्‌ ! तर्हि पाणिनेः पद्धतेः लाभम्‌ आस्वादयाम |
Line 156 ⟶ 179:

'''B.''' अष्टाध्याय्याः मानचित्रम्‌

अधः अष्टाध्याय्याः मानचित्रं किमिति अवलोकयाम |

अष्टाध्याय्याम्‌ अष्टौ अध्यायाः सन्ति; प्रत्येकस्मिन्‌ अध्याये चत्वारः पादाः | पादेषु सूत्राणि क्रमेण भवन्ति | प्रत्येकं सूत्रस्य स्वस्य सूत्रसङ्ख्या | सङ्ख्यायां भागत्रयम्— प्रथमा सङ्ख्या अध्यायस्य, द्वितीया सङ्ख्या पादस्य, तृतीया सङ्ख्या सूत्रस्य | यथा '''इको यणचि''' (६.१.७६); इदं सूत्रं षष्ठे अध्याये, तत्र प्रथमे पादे, सूत्रसङ्ख्या ७६ |

एकैकस्मिन्‌ अध्याये के के मुख्यविषयाः अन्तर्गताः इति यदा जानीमः, तदा कस्यचित्‌ सूत्रसङ्ख्यायाः दर्शनेन तस्य सूत्रस्य कीदृशं कार्यं स्यात्‌ इति अनुमानं कर्तुं अर्हामः | अधः एकैकस्य अध्यायस्य केचन प्रमुखविषयाः दत्ताः | सर्वं ज्ञात्वा नोक्तम्‌; किञ्च अधः यत्‌ दत्तं बुद्धं चेत्‌, मनसि अष्टाध्याय्याः एका दृष्टिः सिद्धा भविष्यति |
Line 166 ⟶ 193:
प्रथमः अध्यायः =

संज्ञासूत्राणि, परिभाषासूत्राणि च |

Line 224 ⟶ 251:
३. सन्धिः - संहिताधिकारः | अत्र स्वरसन्धि-विधायकसूत्राणि सन्ति | (यण्‌सन्धिः, गुणसन्धिः, वृद्धिसन्धिः, सवर्णदीर्घसन्धिः इत्यादयः)

४. चतुर्थः पादः - अङ्गाधिकारः ६.४.१ - ७.४.९७ [अङ्गं किम्‌ इति न ज्ञायते चेत्‌, इदं [[05---sArvadhAtukaprakaraNam-adantam-aGgam/01---aGgam-iti-viSayaH|करपत्रं]] पठ्यताम्‌ | अङ्गकार्यं कीदृशम्‌ इत्यस्य कृते अग्रे अस्मिनअस्मिन् करपत्रे विषयः इतोऽपि विस्तारितः |]

Line 231 ⟶ 258:
अङ्गकार्यम्‌

१. अङात्‌अङ्गात्‌ परस्य प्रत्ययादेशः

२. इडागम-प्रकरणम्‌ | यथा “खादितवान्‌" इत्यस्मिन्‌ खाद्‌-धातुधातुः + इ [इडागमः] + क्तवतु |

३. सार्वधातुकप्रत्यये परे अङ्गकार्यम्‌ | '''सार्वधातुकार्धधातुकयोः''' (७.३.८४), '''पुगन्तलघूपधस्य च''' (७.३.८६)
Line 244 ⟶ 271:
अष्टमाध्यायः

१. '''पदस्य''' इत्यधिकारः ८.१.१३१६ – ८.३.५५

२. पूर्वत्रासिद्धत्वाधिकारः
Line 265 ⟶ 292:

'''१. प्रत्ययः''' (३.१.१) = [अधिकारः ३.१.१ - ५.४.१६०] तृतीयः चतुर्थः पञ्चमः इत्येषु त्रिषु अध्यायेषु यत्र यत्र कस्यचित्‌ विधानं भवति, तत्र तत्र '''प्रत्ययः''' आगत्य वदति यत्‌ यस्य विधानं सञ्जातं, तस्य प्रत्यय-संज्ञा भवति | एषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति, तत्र सर्वत्र अस्य सूत्रस्य अधिकारः |

३.१.१ – ५.४.१६० इत्येषु यत्र यत्र विधानम्‌ अस्ति, तत्र तत्र प्रत्येकं सूत्रस्य अर्थे एवम्‌ अन्वयः यत्‌ यत्‌ विहितं, तस्य प्रत्यय-संज्ञा भवति | यथा '''वर्तमाने लट्‌''' (३.२.१२३); अस्मिन्‌ सूत्रे '''प्रत्ययः''' इति सूत्रम्‌ उपविश्य वदति यत्‌ लट्‌ विहितः अस्ति अतः तस्य प्रत्यय-संज्ञा भवति |
Line 270 ⟶ 298:

'''२. परश्च''' (३.१.२) = [अधिकारः ३.१.१ - ५.४.१६०] एषु एव त्रिषु अध्यायेषु यत्र यत्र '''प्रत्ययः''' इत्यनेन प्रत्यय-संज्ञा भवति, तत्र तत्र '''परश्च''' इति सूत्रम्‌ अपि उपविश्य वदति यत्‌ अयं प्रत्ययः प्रकृतेः अनन्तरम्‌ आयाति |

यथा '''वर्तमाने लट्‌''' (३.२.१२३) = वर्तमानार्थे धातुतः लट्‌ भवति [अग्रिमाधिकारसूत्रं '''धातोः'''], अपि च लटः प्रत्यय-संज्ञा भवति '''प्रत्ययः''' इत्यनेन | धातोः परे एव आयाति '''परश्च''' इत्यनेन | अनुवृत्ति-सहित-सूत्रम्— '''धातोः''' '''वर्तमाने लट्‌ प्रत्ययः परश्च''' | -- यदि लटः प्रत्यय-संज्ञा नाभविष्यत्‌, तर्हि '''परश्च''' नागमिष्यत्‌ | तस्यां दशायां लट्‌ तु '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन धातोः प्राक्‌ अभविष्यत्‌ | भू‌ + लट्‌ इति न, अपि तु लट्‌ + भू अभविष्यत्‌ !
Line 276 ⟶ 305:
'''३. धातोः''' (३.१.९१) = [अधिकारः ३.१.९१ – ३.४.११७] तृतीये अध्याये कृदन्तानां तिङन्तानां च विधायकसूत्राणि भवन्ति | अस्मिन्‌ तृतीये अध्याये '''धातोः''' सर्वत्र आगत्य वदति यत्‌ यः को‍पि प्रत्ययः विहितः, सः धातोः अनन्तरं विहितः | [३.१.२२ – ३.१.९० अन्यत्‌ सूत्रं तदेव समानं कार्यं करोति '''धातो-रेकाचो-हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) |]

यथा '''निष्ठा'<nowiki/>'' (३.२.१०२) = '''''निष्ठा एका संज्ञा अस्ति, क्त क्तवतु इत्यनयोः प्रत्यययोः कृते | सूत्रसङ्ख्यां पश्य— सूत्रसङ्ख्या-द्वारा बुद्धं यत्‌ अस्मिन्‌ सूत्रे '''''<nowiki/>''प्रत्ययः''', '''धातोः''', '''परश्च''' इत्येषाम्‌ अधिकारः''''' | '''''तर्हि अनेन सूत्रेण क्त क्तवतु च भवतः, तयोश्च प्रत्यय-संज्ञा स्तः''''' | '''''अपि च '''परश्च''' इत्यनेन धातोः परं वहितौविहितौ''''' | '''भूते''' (३.२.८४) इत्यस्यापि अधिकारः, अतः भूतार्थे भवति | अनुवृत्ति-सहित-सूत्रमेवम्‌— '<nowiki/>'''''धातोः''' निष्ठा भूते प्रत्ययः परश्च''' | उदा० कृ + क्तवतु → कृतवत्‌; पुंसि कृतवान्‌ |

Line 283 ⟶ 313:

'''५. संहितायाम्‌''' (६.१.७१, ६.३.११४) = [अधिकारः ६.१.७१ – ६.१.१५६, अपि च ६.३.११४ – ६.३.१३९] अत्र स्वरसन्धि-विधायकसूत्राणि सन्ति— यथा यण्‌सन्धिः, गुणसन्धिः, वृद्धिसन्धिः, सवर्णदीर्घसन्धिः इत्यादयः | प्रत्येकस्मिन्‌ सन्धि-विधायकसूत्रे '''संहितायाम्‌''' उपविश्य वदति यत्‌ तदा सन्धिः भवति यदा वर्णयोः अतिसामीप्यं वर्तते, नाम अव्यवहिता स्थितिः |

यथा गुणसन्धिः | विधायकसूत्रम्— '''आद्‌गुणः''' (६.१.८७) | अनुवृत्ति-सहित-सूत्रमेवम्‌— '''आत्‌ अचि पूर्वपरयोः एकः गुणः''' '''संहितायाम्‌''' |

हल्‌-सन्धिः अष्टमाध्याये भवति | तत्रापि सन्धिः इत्यस्य कृते '''संहितायाम्‌''' अपेक्षते एव | परञ्च अत्र '''संहितायाम्‌''' षष्ठाध्यायस्य '''संहितायाम्‌''' (६.१.७१, ६.३.११४) इति ना | अष्टमाध्याये एव अन्यत्‌ सूत्रं वर्तते '''तयोर्व्यावचि संहितायाम्‌''' (८.२.१०८) | अस्मात्‌ सूत्रात्‌ '''संहितायाम्‌''' इत्यस्य अधिकारः भवति ग्रन्थस्य अन्तपर्यन्तम्‌ |
Line 291 ⟶ 323:
'''६. अङ्गस्य''' (६.४.१) = [अधिकारः ६.४.१ - ७.४.९७] षष्ठाध्यायस्य चुतुर्थपादस्य आरम्भात्‌ सप्तमाध्यायस्य अन्तपर्यन्तं यत्‌ किमपि कार्यं विधीयते, तत्‌ कार्यम्‌ अनेन सूत्रेण अङ्गे एव भवति अतः अङ्गकार्यम्‌ इत्युच्यते | यदा प्रत्ययः विधीयते, तदा तस्मात्‌ प्रत्ययात्‌ पूर्वं यावत्‌ अस्ति, तत्‌ सर्वंम्‌ अङ्गम्‌ इति |

उदाहरणार्थं भू + अ + ति → भव + ति → भवति | "भवति" इत्यस्य निर्माणसमये, "ति" इत्यस्य दृष्ट्या अङ्गं "भव" इति | "ति" इत्यस्मात्‌ पूर्वं यावत्‌ अस्ति, तत्‌ सर्वं "ति" इत्यस्य कृते "अङ्गम्‌" | तर्हि अत्र अङ्गं नाम धातु-विकरणप्रत्यययोः संयुक्तरूपम्‌‌ | यथा वद्‌ + अ → वद, भू + अ → भव इत्यादीनि अङ्गानि | "भवति" इति उदाहरणे आरम्भे भू + अ (शप्‌) इति स्थितौ, "अ" (शप्‌) प्रत्ययस्य द्रुष्ट्या भू इति अङ्गम्‌ | भू पूर्वम्‌ अस्ति किल | शप्‌-प्रत्ययस्य प्रभावेन भू इत्यस्य अङ्गस्य गुणः भवति | भू + अ → भो + अ | इदं कार्यम्‌ शप्‌-विकरणप्रत्ययं निमित्ती कृत्यनिमित्तीकृत्य भू इति अङ्गे भवति अतः इदम्‌ '''अङ्गकार्यम्‌''' | सूत्रम्‌ अस्ति '''सार्वधातुकार्धधातुकयोः''' (७.३.८४); अत्र '''अङ्गस्य''' इति सूत्रस्य अधिकारः | अनुवृत्ति-सहितं सूत्रमिदम्— '''सार्वधातुकार्धधातुकयोः गुणः अङ्गस्य''' | सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः वा परे अस्ति चेत्‌, अङ्गस्य गुणः भवति |

'''७. पदस्य''' (८.१.१६) = [अधिकारः ८.१.१६ – ८.३.५५] ८.१.१६ इत्यस्मात्‌ आरभ्य ८.३.५५ पर्यन्तम्‌ इदं सूत्रं एकैकस्मिन्‌ विधिसूत्रे उपविश्य सूत्रार्थं पूरयति | अत्र '''अलोऽन्त्यस्य''' इत्यनेन परिभाषासूत्रेण अस्य अर्थो भवति "पदान्तस्य" | अतः यत्‌ कार्यं विशेषतः पदान्ते भवति, तदस्य सूत्रस्य अधिकारे आयाति |

यथा रुत्वप्रकरणम्‌ (८.३.१ - ८.३.१२) | अस्मिन्‌ प्रकरणे वारं वारं रुत्वं ('''रु''') विहितं भवति, सर्वत्र पदान्ते | तदा रु → स्थाने विसर्गः → स्थाने सकारः | रु → ः → स्‌ | अनेन सम्‌ + कृ‌ + घञ्‌ → सँस्कारः / संस्कारः | सम्‌ इति उपसर्गः; उपसर्गः स्वयं पदम्‌ | अतः सम्‌ इत्यस्य म्‌ → रु → ः → स्‌ | अस्मिन्‌ प्रकरणे रु इत्यस्मात्‌ पूर्वस्थितवर्णस्य विकल्पेन अनुनासिकादेशः / अपरस्मिन्‌ पक्षे अनुस्वारः आगमः | ँ / ं | तथैव कस्मिन्‌ + चित्‌ → कस्मिँश्चित्‌ / कस्मिंश्चित्‌ | कान्‌ + चित्‌ → काँश्चित्‌ / कांश्चित्‌

अस्य पाठस्य सारांशः अयं यत्‌ अस्माकं मनसि कानिचन मुख्याधिकार-सूत्राणि सन्ति चेत्‌, तर्हि अष्टाध्याय्यां कीदृशकार्यं कुत्र भवति इति सौकर्येण ज्ञास्यामः | अनेन मार्गेण शीघ्रमेव सर्वं संस्कृतव्याकरणं बुद्धि-ग्रहणे आगच्छति |
Line 303 ⟶ 338:

page_and_link_managers, Administrators
5,097

edits