04---aShTAdhyAyI-paricayaH/02---aShTAdhyAyyAH-samagradRuShTiH: Difference between revisions
04---aShTAdhyAyI-paricayaH/02---aShTAdhyAyyAH-samagradRuShTiH (view source)
Revision as of 14:29, 17 May 2021
, 3 years agoIncorporated reviewer comments
VNatarajan (talk | contribs) (Added new pdf link) |
VNatarajan (talk | contribs) (Incorporated reviewer comments) |

Line 19:

समग्रसंस्कृतभाषायाः मानचित्रम् एकस्मिन् लघु-ग्रन्थे—अभूतपूर्वम् ! पाणिनिना अष्टाध्यायी विरचिता एवं रीत्या येन ग्रन्थो लघुतमः स्यात्, अपि च स्वयं संस्कृतस्स्यात् | अष्टाध्याय्याः मूलबीजं प्रकरणम् | यदा वयं सूत्राणि क्रमेण पठामः, तदा पश्यामः यत् सूत्राणि प्रकरणेषु—लघुषु उपभागेषु—आयोजितानि |
अद्यत्वे सामान्यतया व्याकरणछात्राः अष्टाध्ययीम् अपठित्वा सिद्धान्तकौमुद्यां निमग्नाः भवन्ति | सिद्धान्तकौमुदी प्रक्रियायाम् आधारिता |
Line 27 ⟶ 28:

प्रकरणं प्रक्रिया चेत्यनयोर्भेदः कः इति अस्माभिः बोध्यम् | माता पुष्पादीक्षिता सदा पाकशालायाः उदाहरणं ददाति | भोजनस्य निर्माणार्थं सामग्री आवश्यकी | तण्डुलः, जलम्, शाकः, पिष्टम्, हरिद्रा, आर्द्रकम् इत्यादिकम्—इदं सर्वं भोजनस्य सामग्री | पाकशालायां सर्वा सामग्री एकत्र न स्थाप्यते; पृथक्-पृथक् कोशेषु भवति | शाकः पृथक् कोशे, पिष्टं पृथक् कोशे, तण्डुलः पुनः पृथक् कोशे | सर्वा सामग्री एकस्मिन् एव कोशे एकत्र स्थाप्यते चेत्, अव्यवस्था भवति खलु; अतः सम्यक्तया, सावधानतया पृथक् पृथक् कोशेषु एकैकं वस्तु स्थाप्यते |
अष्टाध्यायी अपि तथा—भाषायाः पाकशाला | यावती सामग्री अपेक्षिता भाषायाः निर्माणार्थं, सर्वं अस्मिन् ग्रन्थे अस्ति | परन्तु एकत्र न; श्रेणीम् अनुसृत्य पृथक् पृथक् कोशेषु स्थाप्यते | प्रत्येकं कोशस्य नाम 'प्रकरणम्' | णत्वप्रकरणं, द्वित्वप्रकरणं, सम्प्रसारणप्रकरणम् इत्यादिकम् |
भोजनस्य निर्माणार्थं केवलं सामग्री आवश्यकी इति न; मार्गनिर्देशोऽपि आवश्यकः | ओदनं निर्मातुं सर्वप्रथमं तण्डुलस्य प्रक्षालनं, तदा जले स्थापनं, तदा जलस्य क्वथनम्— एतादृशी सूचना अपेक्षिता | इयं पाककृतिः इति वदामः |
भाषाक्षेत्रे प्रक्रिया तथैव भवति | पदस्य निर्माणार्थं (१) कानि सोपानानि सन्ति, अपि च (२) केन क्रमेण, इति सूचना 'प्रक्रिया' इत्युच्यते | जि + अ + ति → जयति— अस्य कार्यस्य कृते कानि सूत्राणि अपेक्षितानि, केन क्रमेण च इति 'प्रक्रिया' |
Line 51 ⟶ 54:

अत्र एका प्रक्रिया प्रदर्शिता | जयति इति पदं कथं निर्मीयते इति प्रदर्शितम् | सूत्राणां सङ्ख्याः दृश्यन्ताम्; इमानि सूत्राणि विभिन्नेभ्यः अध्यायेभ्यः पादेभ्यश्च स्वीकृतानि | अनेन कारणेन कस्माच्चित् सूत्रात् प्राक् कानि सूत्रणि वर्तन्ते, केषां च पदानाम् अनुवृत्तिः इति न ज्ञायते | तस्य फलम् इदं यत् प्रक्रियायाः प्रसङ्गे सूत्रस्य दर्शनेन तस्य अर्थः नैव अवगम्यते अस्माभिः |
प्रक्रियायाः किञ्चन फलं तु अस्त्येव; अनेन पदनिर्माणक्रिया बुद्धा | परन्तु सूत्रस्य अवगमनार्थं, यत्र सूत्रबोधः लक्ष्यं, तत्र अस्माकं क्लेशो भवति यतः सूत्रं स्वयं सम्पूर्णं वाक्यं न | सूत्रस्य पूरणार्थं वाक्यम् अपेक्षितम्; तच्च वाक्यं न प्राप्यते प्रक्रियायाम् अपि तु प्रकरणे एव |
पाणिनेः ग्रन्थः प्रकरणस्य आधारेण विरचितः | यदा अष्टाध्यायी-क्रमेण सूत्राणि पठामः, तदा सौकर्येण वयं सूत्राणि पूरयितुं शक्नुमः येन प्रत्येकं सूत्रं पूर्णं वाक्यं स्यात् | अनेन सूत्रार्थः मनसि स्फुरितो विद्यते |
एकस्मिन् प्रकरणे वारं वारम् एकं कार्यं भवति | यत् पदं दत्तम् एकस्मिन् सूत्रे, तत् पुनः अग्रिमे सूत्रे साक्षात् न दीयते; पाठकैः अवगम्यते यत् सः अर्थः पुनः आयाति तस्मिन् सूत्रेऽपि | इयम् अनुवृत्तिः इति वदामः | अत्र अयं विषय इतोऽपि विस्तारितः—
Line 64 ⟶ 69:
अत्र प्रथमम् उदाहरणम् अस्माकम परिचितम्, इत्संज्ञाप्रकरणम् | अस्मिन्, क्रमेण अष्ट सूत्राणि सन्ति, यस्मिन् प्रत्येकं सूत्रस्य बोधनार्थं पूर्वतनानाम् अपेक्षा | अनेन प्रकटं भवति यत् एषां अष्टानां सूत्राणाम् अवगमने, मनसि दृढीकरणे च अष्टाध्यायाम् एव पठनेन सौकर्यं, यत्र क्रमेण सूत्रेण प्राप्यन्ते |
अत्र क्रमेण चत्वारि सूत्राणि धातुषु अपि, प्रत्ययेषु अपि—
Line 74 ⟶ 80:
४. '''आदिर्ञिटुडवः''' (१.३.५) | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे धातोः आदयः''' '''ञिटुडवः इतः''' | तत्र '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यस्मात् सूत्रात् 'उपदेशे', 'इत्' इत्यनयोः अनुवृत्तिः; '''भूवादयो धातवः''' (१.३.१) इत्यस्मात् 'धातोः' इत्यस्य अनुवृत्तिः (वचनपरिणामं विभक्तिपरिणामं च कृत्वा) |
तदा अग्रे, क्रमेण त्रीणि सूत्राणि प्रत्ययेषु एव—
Line 82 ⟶ 89:
७. '''लशक्वतद्धिते''' (१.३.८) | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदि''' '''लशकु इत्''' '''अतद्धिते''' | तत्र '''षः प्रत्ययस्य''' (१.३.६) इत्यस्मात् 'प्रत्ययस्य', '''आदिर्ञिटुडवः''' (१.३.५) इत्यस्मात् 'आदिः', '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यस्मात् 'उपदेशे', 'इत्' |
अन्ते इत्-लोप-विधिः—
Line 106 ⟶ 114:
९. तस्य लोपः (१.३.९)
अत्र, सङ्क्षेपे प्रकरणस्य अन्यत् उदाहरणद्वयं दीयते, येन प्रकरण-सम्बद्ध-अनुवृत्तिः स्पष्टतया दृश्येत |
Line 111 ⟶ 120:

द्वित्वप्रकरणम् (६.१.१ – ६.१.१२)
अस्य प्रकरणस्य द्वादशसु सूत्रेषु एव, संपूर्णतया संस्कृतभाषायां, कुत्र कुत्र द्वित्वम् अपेक्षते इति सूच्यते, अपि च यत्र कुत्रापि द्वित्वम् अपेक्षते, तच्च द्वित्वं कथं क्रियते इत्यपि सूच्यते अत्र |
Line 149 ⟶ 159:

तर्हि आहत्य, पाणिनेः प्रकरण-रीत्या लेखनेन सूत्राणां लघुत्वं सिद्धम् अपि च तेषाम् आयोजनम् अतिस्पष्टम् | अस्माकं कृते प्रकरणाधारिणा अभ्यासेन सूत्र-नैपुण्यं जायते अपि च सामग्री कुत्र स्थिता इति ज्ञायते | अष्टाध्यायी-क्रमस्य पठनेन अनेके महान्तो लाभाः |
प्रक्रिया-ग्रन्थेषु सूत्राणि इतस्ततः स्वीकृत्य पदनिर्माणं भवति | अनेन कारणेन सूत्रक्रमः भग्नो भवति | अनुवृत्तिः नैव प्रकटा | सूत्राणां बोधार्थं महान् सङ्घर्षः |
Line 156 ⟶ 167:

'''B.''' अष्टाध्याय्याः मानचित्रम्
अधः अष्टाध्याय्याः मानचित्रं किमिति अवलोकयाम |
अष्टाध्याय्याम् अष्टौ अध्यायाः सन्ति; प्रत्येकस्मिन् अध्याये चत्वारः पादाः | पादेषु सूत्राणि क्रमेण भवन्ति | प्रत्येकं सूत्रस्य स्वस्य सूत्रसङ्ख्या | सङ्ख्यायां भागत्रयम्— प्रथमा सङ्ख्या अध्यायस्य, द्वितीया सङ्ख्या पादस्य, तृतीया सङ्ख्या सूत्रस्य | यथा '''इको यणचि''' (६.१.७६); इदं सूत्रं षष्ठे अध्याये, तत्र प्रथमे पादे, सूत्रसङ्ख्या ७६ |
एकैकस्मिन् अध्याये के के मुख्यविषयाः अन्तर्गताः इति यदा जानीमः, तदा कस्यचित् सूत्रसङ्ख्यायाः दर्शनेन तस्य सूत्रस्य कीदृशं कार्यं स्यात् इति अनुमानं कर्तुं अर्हामः | अधः एकैकस्य अध्यायस्य केचन प्रमुखविषयाः दत्ताः | सर्वं ज्ञात्वा नोक्तम्; किञ्च अधः यत् दत्तं बुद्धं चेत्, मनसि अष्टाध्याय्याः एका दृष्टिः सिद्धा भविष्यति |