04---aShTAdhyAyI-paricayaH/02---aShTAdhyAyyAH-samagradRuShTiH: Difference between revisions
04---aShTAdhyAyI-paricayaH/02---aShTAdhyAyyAH-samagradRuShTiH (view source)
Revision as of 14:30, 17 May 2021
, 3 years agoIncorporated reviewer comments
VNatarajan (talk | contribs) (Incorporated reviewer comments) |
VNatarajan (talk | contribs) (Incorporated reviewer comments) |

Line 278:

'''१. प्रत्ययः''' (३.१.१) = [अधिकारः ३.१.१ - ५.४.१६०] तृतीयः चतुर्थः पञ्चमः इत्येषु त्रिषु अध्यायेषु यत्र यत्र कस्यचित् विधानं भवति, तत्र तत्र '''प्रत्ययः''' आगत्य वदति यत् यस्य विधानं सञ्जातं, तस्य प्रत्यय-संज्ञा भवति | एषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति, तत्र सर्वत्र अस्य सूत्रस्य अधिकारः |
३.१.१ – ५.४.१६० इत्येषु यत्र यत्र विधानम् अस्ति, तत्र तत्र प्रत्येकं सूत्रस्य अर्थे एवम् अन्वयः यत् यत् विहितं, तस्य प्रत्यय-संज्ञा भवति | यथा '''वर्तमाने लट्''' (३.२.१२३); अस्मिन् सूत्रे '''प्रत्ययः''' इति सूत्रम् उपविश्य वदति यत् लट् विहितः अस्ति अतः तस्य प्रत्यय-संज्ञा भवति |
Line 283 ⟶ 284:

'''२. परश्च''' (३.१.२) = [अधिकारः ३.१.१ - ५.४.१६०] एषु एव त्रिषु अध्यायेषु यत्र यत्र '''प्रत्ययः''' इत्यनेन प्रत्यय-संज्ञा भवति, तत्र तत्र '''परश्च''' इति सूत्रम् अपि उपविश्य वदति यत् अयं प्रत्ययः प्रकृतेः अनन्तरम् आयाति |
यथा '''वर्तमाने लट्''' (३.२.१२३) = वर्तमानार्थे धातुतः लट् भवति [अग्रिमाधिकारसूत्रं '''धातोः'''], अपि च लटः प्रत्यय-संज्ञा भवति '''प्रत्ययः''' इत्यनेन | धातोः परे एव आयाति '''परश्च''' इत्यनेन | अनुवृत्ति-सहित-सूत्रम्— '''धातोः''' '''वर्तमाने लट् प्रत्ययः परश्च''' | -- यदि लटः प्रत्यय-संज्ञा नाभविष्यत्, तर्हि '''परश्च''' नागमिष्यत् | तस्यां दशायां लट् तु '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन धातोः प्राक् अभविष्यत् | भू + लट् इति न, अपि तु लट् + भू अभविष्यत् !
Line 288 ⟶ 290:

'''३. धातोः''' (३.१.९१) = [अधिकारः ३.१.९१ – ३.४.११७] तृतीये अध्याये कृदन्तानां तिङन्तानां च विधायकसूत्राणि भवन्ति | अस्मिन् तृतीये अध्याये '''धातोः''' सर्वत्र आगत्य वदति यत् यः कोपि प्रत्ययः विहितः, सः धातोः अनन्तरं विहितः | [३.१.२२ – ३.१.९० अन्यत् सूत्रं तदेव समानं कार्यं करोति '''धातो-रेकाचो-हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) |]
यथा '''निष्ठा'<nowiki/>'' (३.२.१०२) = निष्ठा एका संज्ञा अस्ति, क्त क्तवतु इत्यनयोः प्रत्यययोः कृते | सूत्रसङ्ख्यां पश्य— सूत्रसङ्ख्या-द्वारा बुद्धं यत् अस्मिन् सूत्रे '''''<nowiki/>''प्रत्ययः''', '''धातोः''', '''परश्च''' इत्येषाम् अधिकारः | तर्हि अनेन सूत्रेण क्त क्तवतु च भवतः, तयोश्च प्रत्यय-संज्ञा स्तः | अपि च '''परश्च''' इत्यनेन धातोः परं वहितौ | '''भूते''' (३.२.८४) इत्यस्यापि अधिकारः, अतः भूतार्थे भवति | अनुवृत्ति-सहित-सूत्रमेवम्— '<nowiki/>'''''धातोः''' निष्ठा भूते प्रत्ययः परश्च''' | उदा० कृ + क्तवतु → कृतवत्; पुंसि कृतवान् |
Line 296 ⟶ 299:

'''५. संहितायाम्''' (६.१.७१, ६.३.११४) = [अधिकारः ६.१.७१ – ६.१.१५६, अपि च ६.३.११४ – ६.३.१३९] अत्र स्वरसन्धि-विधायकसूत्राणि सन्ति— यथा यण्सन्धिः, गुणसन्धिः, वृद्धिसन्धिः, सवर्णदीर्घसन्धिः इत्यादयः | प्रत्येकस्मिन् सन्धि-विधायकसूत्रे '''संहितायाम्''' उपविश्य वदति यत् तदा सन्धिः भवति यदा वर्णयोः अतिसामीप्यं वर्तते, नाम अव्यवहिता स्थितिः |
यथा गुणसन्धिः | विधायकसूत्रम्— '''आद्गुणः''' (६.१.८७) | अनुवृत्ति-सहित-सूत्रमेवम्— '''आत् अचि पूर्वपरयोः एकः गुणः''' '''संहितायाम्''' |
Line 303 ⟶ 307:

'''६. अङ्गस्य''' (६.४.१) = [अधिकारः ६.४.१ - ७.४.९७] षष्ठाध्यायस्य चुतुर्थपादस्य आरम्भात् सप्तमाध्यायस्य अन्तपर्यन्तं यत् किमपि कार्यं विधीयते, तत् कार्यम् अनेन सूत्रेण अङ्गे एव भवति अतः अङ्गकार्यम् इत्युच्यते | यदा प्रत्ययः विधीयते, तदा तस्मात् प्रत्ययात् पूर्वं यावत् अस्ति, तत् सर्वंम् अङ्गम् इति |
उदाहरणार्थं भू + अ + ति → भव + ति → भवति | "भवति" इत्यस्य निर्माणसमये, "ति" इत्यस्य दृष्ट्या अङ्गं "भव" इति | "ति" इत्यस्मात् पूर्वं यावत् अस्ति, तत् सर्वं "ति" इत्यस्य कृते "अङ्गम्" | तर्हि अत्र अङ्गं नाम धातु-विकरणप्रत्यययोः संयुक्तरूपम् | यथा वद् + अ → वद, भू + अ → भव इत्यादीनि अङ्गानि | "भवति" इति उदाहरणे आरम्भे भू + अ (शप्) इति स्थितौ, "अ" (शप्) प्रत्ययस्य द्रुष्ट्या भू इति अङ्गम् | भू पूर्वम् अस्ति किल | शप्-प्रत्ययस्य प्रभावेन भू इत्यस्य अङ्गस्य गुणः भवति | भू + अ → भो + अ | इदं कार्यम् शप्-विकरणप्रत्ययं निमित्ती कृत्य भू इति अङ्गे भवति अतः इदम् '''अङ्गकार्यम्''' | सूत्रम् अस्ति '''सार्वधातुकार्धधातुकयोः''' (७.३.८४); अत्र '''अङ्गस्य''' इति सूत्रस्य अधिकारः | अनुवृत्ति-सहितं सूत्रमिदम्— '''सार्वधातुकार्धधातुकयोः गुणः अङ्गस्य''' | सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः वा परे अस्ति चेत्, अङ्गस्य गुणः भवति |
Line 308 ⟶ 313:

'''७. पदस्य''' (८.१.१६) = [अधिकारः ८.१.१६ – ८.३.५५] ८.१.१६ इत्यस्मात् आरभ्य ८.३.५५ पर्यन्तम् इदं सूत्रं एकैकस्मिन् विधिसूत्रे उपविश्य सूत्रार्थं पूरयति | अत्र '''अलोऽन्त्यस्य''' इत्यनेन परिभाषासूत्रेण अस्य अर्थो भवति "पदान्तस्य" | अतः यत् कार्यं विशेषतः पदान्ते भवति, तदस्य सूत्रस्य अधिकारे आयाति |
यथा रुत्वप्रकरणम् (८.३.१ - ८.३.१२) | अस्मिन् प्रकरणे वारं वारं रुत्वं ('''रु''') विहितं भवति, सर्वत्र पदान्ते | तदा रु → स्थाने विसर्गः → स्थाने सकारः | रु → ः → स् | अनेन सम् + कृ + घञ् → सँस्कारः / संस्कारः | सम् इति उपसर्गः; उपसर्गः स्वयं पदम् | अतः सम् इत्यस्य म् → रु → ः → स् | अस्मिन् प्रकरणे रु इत्यस्मात् पूर्वस्थितवर्णस्य विकल्पेन अनुनासिकादेशः / अपरस्मिन् पक्षे अनुस्वारः आगमः | ँ / ं | तथैव कस्मिन् + चित् → कस्मिँश्चित् / कस्मिंश्चित् | कान् + चित् → काँश्चित् / कांश्चित्