04---aShTAdhyAyI-paricayaH/02---aShTAdhyAyyAH-samagradRuShTiH: Difference between revisions
04---aShTAdhyAyI-paricayaH/02---aShTAdhyAyyAH-samagradRuShTiH (view source)
Revision as of 23:52, 18 May 2021
, 3 years agoIncorporated reviewer comments
VNatarajan (talk | contribs) No edit summary |
VNatarajan (talk | contribs) (Incorporated reviewer comments) |
||
Line 31:
<big>अष्टाध्यायी अपि तथा—भाषायाः पाकशाला | यावती सामग्री अपेक्षिता भाषायाः निर्माणार्थं, सर्वं अस्मिन् ग्रन्थे अस्ति | परन्तु एकत्र न; श्रेणीम् अनुसृत्य पृथक् पृथक् कोशेषु स्थाप्यते | प्रत्येकं कोशस्य नाम 'प्रकरणम्' | णत्वप्रकरणं, द्वित्वप्रकरणं, सम्प्रसारणप्रकरणम् इत्यादिकम् |</big>
<big>भोजनस्य निर्माणार्थं केवलं सामग्री आवश्यकी इति न; मार्गनिर्देशोऽपि आवश्यकः | ओदनं निर्मातुं सर्वप्रथमं तण्डुलस्य प्रक्षालनं, तदा जले स्थापनं, तदा जलस्य क्वथनम्— एतादृशी सूचना अपेक्षिता | इयं पाककृतिः इति वदामः |</big>
Line 57 ⟶ 59:
<big>प्रक्रियायाः किञ्चन फलं तु अस्त्येव; अनेन पदनिर्माणक्रिया बुद्धा | परन्तु सूत्रस्य अवगमनार्थं, यत्र सूत्रबोधः लक्ष्यं, तत्र अस्माकं क्लेशो भवति यतः सूत्रं स्वयं सम्पूर्णं वाक्यं न | सूत्रस्य पूरणार्थं वाक्यम् अपेक्षितम्; तच्च वाक्यं न प्राप्यते प्रक्रियायाम् अपि तु प्रकरणे एव |</big>
<big>पाणिनेः ग्रन्थः प्रकरणस्य आधारेण विरचितः | यदा अष्टाध्यायी-क्रमेण सूत्राणि पठामः, तदा सौकर्येण वयं सूत्राणि पूरयितुं शक्नुमः येन प्रत्येकं सूत्रं पूर्णं वाक्यं स्यात् | अनेन सूत्रार्थः मनसि स्फुरितो विद्यते |</big>
<big>एकस्मिन् प्रकरणे वारं वारम् एकं कार्यं भवति | यत् पदं दत्तम् एकस्मिन् सूत्रे, तत् पुनः अग्रिमे सूत्रे साक्षात् न दीयते; पाठकैः अवगम्यते यत् सः अर्थः पुनः आयाति तस्मिन् सूत्रेऽपि | इयम् अनुवृत्तिः इति वदामः | अत्र अयं विषय इतोऽपि विस्तारितः—</big>
<big>पाणिनिः सूत्रस्य लघुत्वम् इच्छति | तदर्थं येषां सूत्राणां समानप्रकारक-कार्यं भवति, तानि सूत्राणि अष्टाध्याय्याम् एकस्मिन् स्थले सङ्गृहीतं भवन्ति | अनेन, एकस्मिन् स्थले (इत्युक्ते एकस्मिन् प्रकरणे) प्रथमे सूत्रे किञ्चन पदम् अस्ति, तत् पदं द्वितीये सूत्रे अपि यद्यपि अपेक्षते, तथापि पुनः साक्षात् न दीयते | अस्माभिः मनसि तत् पदम् आनेतव्यम् | यथा रामः वदति "अहम् आपणं गच्छामि" | श्यामः वदति "अहम् अपि" | वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत् श्यामस्य आशयः "अहम् अपि आपणं गच्छामि" इति | यद्यपि श्यामः केवलम् "अहम् अपि" इत्यवदत्, तथापि वयं तस्य अर्थं पूरयामः मनसि | तादृशम् अर्थपूरणं पाणिनिः इच्छति सूत्रविषये | यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि, तानि अनुवृत्तयः इत्युच्यन्ते |</big>
Line 67 ⟶ 72:
<big><br />
<u>प्रकरणम्</u></big>
<big>अत्र प्रथमम् उदाहरणम् अस्माकम परिचितम्, इत्संज्ञाप्रकरणम् | अस्मिन्, क्रमेण अष्ट सूत्राणि सन्ति, यस्मिन् प्रत्येकं सूत्रस्य बोधनार्थं पूर्वतनानाम् अपेक्षा | अनेन प्रकटं भवति यत् एषां अष्टानां सूत्राणाम् अवगमने, मनसि दृढीकरणे च अष्टाध्यायाम् एव पठनेन सौकर्यं, यत्र क्रमेण सूत्रेण प्राप्यन्ते |</big>
Line 95 ⟶ 102:
<big>८. '''तस्य लोपः''' (१.३.९) | अनुवृत्ति-सहितसूत्रम्— '''तस्य इतः लोपः''' | तत्र '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यस्मात् '''इत्''' इत्यस्य अनुवृत्तिः |</big>
<big> <u>किं सूत्रपर्यन्तं स्थूलाक्षराणाम् अनुवृत्तिः</u></big>
<big>१. भूवादयो '''धातवः''' (१.३.१) ९३</big>
Line 123 ⟶ 131:
<big>अस्य प्रकरणस्य द्वादशसु सूत्रेषु एव, संपूर्णतया संस्कृतभाषायां, कुत्र कुत्र द्वित्वम् अपेक्षते इति सूच्यते, अपि च यत्र कुत्रापि द्वित्वम् अपेक्षते, तच्च द्वित्वं कथं क्रियते इत्यपि सूच्यते अत्र |</big>
<big>१. '''एकाचो द्वे प्रथमस्य''' (६.१.१) = अधिकारसूत्रं, द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | सूत्रं स्वयं सम्पूर्णम् | जागृ → जा जागृ | पच् → पच् पच् | इ → इ इ |</big>
Line 162 ⟶ 171:
<big>प्रक्रिया-ग्रन्थेषु सूत्राणि इतस्ततः स्वीकृत्य पदनिर्माणं भवति | अनेन कारणेन सूत्रक्रमः भग्नो भवति | अनुवृत्तिः नैव प्रकटा | सूत्राणां बोधार्थं महान् सङ्घर्षः |</big>
<big>सारांशे पाणिनये स्वयं प्रकरणरीतिः रोचते खलु, तदा एव अयं मार्गः तेन स्वीकृतः | तस्य मार्गचयनस्य किञ्चन कारणं स्यात् ! तर्हि पाणिनेः पद्धतेः लाभम् आस्वादयाम |</big>
Line 170 ⟶ 180:
<big>अधः अष्टाध्याय्याः मानचित्रं किमिति अवलोकयाम |</big>
<big>अष्टाध्याय्याम् अष्टौ अध्यायाः सन्ति; प्रत्येकस्मिन् अध्याये चत्वारः पादाः | पादेषु सूत्राणि क्रमेण भवन्ति | प्रत्येकं सूत्रस्य स्वस्य सूत्रसङ्ख्या | सङ्ख्यायां भागत्रयम्— प्रथमा सङ्ख्या अध्यायस्य, द्वितीया सङ्ख्या पादस्य, तृतीया सङ्ख्या सूत्रस्य | यथा '''इको यणचि''' (६.१.७६); इदं सूत्रं षष्ठे अध्याये, तत्र प्रथमे पादे, सूत्रसङ्ख्या ७६ |</big>
Line 302 ⟶ 314:
<big>यथा गुणसन्धिः | विधायकसूत्रम्— '''आद्गुणः''' (६.१.८७) | अनुवृत्ति-सहित-सूत्रमेवम्— '''आत् अचि पूर्वपरयोः एकः गुणः''' '''संहितायाम्''' |</big>
<big>हल्-सन्धिः अष्टमाध्याये भवति | तत्रापि सन्धिः इत्यस्य कृते '''संहितायाम्''' अपेक्षते एव | परञ्च अत्र '''संहितायाम्''' षष्ठाध्यायस्य '''संहितायाम्''' (६.१.७१, ६.३.११४) इति ना | अष्टमाध्याये एव अन्यत् सूत्रं वर्तते '''तयोर्व्यावचि संहितायाम्''' (८.२.१०८) | अस्मात् सूत्रात् '''संहितायाम्''' इत्यस्य अधिकारः भवति ग्रन्थस्य अन्तपर्यन्तम् |</big>
Line 315 ⟶ 328:
<big>यथा रुत्वप्रकरणम् (८.३.१ - ८.३.१२) | अस्मिन् प्रकरणे वारं वारं रुत्वं ('''रु''') विहितं भवति, सर्वत्र पदान्ते | तदा रु → स्थाने विसर्गः → स्थाने सकारः | रु → ः → स् | अनेन सम् + कृ + घञ् → सँस्कारः / संस्कारः | सम् इति उपसर्गः; उपसर्गः स्वयं पदम् | अतः सम् इत्यस्य म् → रु → ः → स् | अस्मिन् प्रकरणे रु इत्यस्मात् पूर्वस्थितवर्णस्य विकल्पेन अनुनासिकादेशः / अपरस्मिन् पक्षे अनुस्वारः आगमः | ँ / ं | तथैव कस्मिन् + चित् → कस्मिँश्चित् / कस्मिंश्चित् | कान् + चित् → काँश्चित् / कांश्चित्</big>
<big>अस्य पाठस्य सारांशः अयं यत् अस्माकं मनसि कानिचन मुख्याधिकार-सूत्राणि सन्ति चेत्, तर्हि अष्टाध्याय्यां कीदृशकार्यं कुत्र भवति इति सौकर्येण ज्ञास्यामः | अनेन मार्गेण शीघ्रमेव सर्वं संस्कृतव्याकरणं बुद्धि-ग्रहणे आगच्छति |</big>
|