10 - पाणिनीयव्याकरण-परिचयः २ - अष्टाध्याय्याः समग्रदृष्टिः
अयं विषयः संस्कृतभारत्याः जाह्नवी-शिबिरे उपस्थापितः August 31, 2014; तत्र इदं करपत्रं सर्वेभ्यः दत्तम् |
समग्रसंस्कृतभाषायाः मानचित्रम् एकस्मिन् लघु-ग्रन्थे—अभूतपूर्वम् ! पाणिनिना अष्टाध्यायी विरचिता एवं रीत्या येन ग्रन्थो लघुतमः स्यात्—सूत्राणि अतिन्यूनानि स्युः—अपि च विषयः सम्पूर्णस्स्यात् | तदर्थम् अष्टाध्याय्याः अन्तः कश्चन जटिलतर्कोऽस्ति | ग्रन्थस्य सिद्ध्यर्थम् (१) अनुवृत्तिः सर्वत्र अनुस्यूता भवेत्, (२) विषय-सम्बद्ध-प्रकरणानि रक्षितानि स्युः, (३) सूत्राणां बलाबलम् समन्वितं स्यात् | अष्टाध्याय्याः मूलबीजं प्रकरणम् | गते पाठे प्रकरणं नाम किम् इति ज्ञातम् | यदा वयं सूत्राणि क्रमेण पठामः, तदा पश्यामः यत् सूत्राणि प्रकरणेषु—लघुषु उपभागेषु—आयोजितानि | सम्प्रति मुख्यप्रकरणानि कुत्र सन्ति इति पश्येम |
एकवारं सर्वग्रन्थम् अवलोकयामश्चेत् प्रमुखविषयाः कुत्र स्थिताः इति ज्ञास्यामः | इयं समग्रदृष्टिः मनसि अस्ति चेत्, सूत्रसङ्ख्यायाः दर्शनेन अनुमानं कर्तुं शक्यम् अमुकेन सूत्रेण कीदृशं कार्यं भवेत् |
A. अष्टाध्याय्याः मानचित्रम्
अधः अष्टाध्याय्याः मानचित्रं किमिति अवलोकयाम |
अष्टाध्याय्याम् अष्टौ अध्यायाः सन्ति; प्रत्येकस्मिन् अध्याये चत्वारः पादाः | पादेषु सूत्राणि क्रमेण भवन्ति | प्रत्येकं सूत्रस्य स्वस्य सूत्रसङ्ख्या | सङ्ख्यायां भागत्रयम्— प्रथमा सङ्ख्या अध्यायस्य, द्वितीया सङ्ख्या पादस्य, तृतीया सङ्ख्या सूत्रस्य | यथा इको यणचि (६.१.७६); इदं सूत्रं षष्ठे अध्याये, तत्र प्रथमे पादे, सूत्रसङ्ख्या ७६.
एकैकस्मिन् अध्याये के के मुख्यविषयाः अन्तर्गताः इति यदा जानीमः, तदा कस्यचित् सूत्रसङ्ख्यायाः दर्शनेन तस्य सूत्रस्य कीदृशं कार्यं स्यात् इति अनुमानं कर्तुं अर्हामः | अधः एकैकस्य अध्यायस्य केचन प्रमुखविषयाः दत्ताः | सर्वं ज्ञात्वा नोक्तम्; किञ्च अधः यत् दत्तं बुद्धं चेत्, मनसि अष्टाध्याय्याः एका दृष्टिः सिद्धा भविष्यति |
प्रथमः अध्यायः =
१. संज्ञासूत्राणि
यथा—
वृद्धिरादैच् (१.१.१) = वृद्धि-संज्ञा, अदेङ्गुणः (१.१.२) = गुण-संज्ञा, तत्पुरुषः समानाधिकरणः कर्मधारयः (१.२.४२) = कर्मधारय-संज्ञा, अर्थवदधातुरप्रत्ययः प्रातिपदिकम् (१.२.४५) = प्रातिपदिक-संज्ञा, भूवादयो धातवः (१.३.१) = धातु-संज्ञा, सुप्तिङन्तं पदम् (१.४.१४) = पद-संज्ञा, कारकसंज्ञाः साधकतमं करणम् (१.४.४२) कर्तुरीप्सितमं कर्म (१.४.४९), स्वतन्त्रः कर्ता (१.४.५४) = कर्तृ-संज्ञा; विभक्तिश्च (१.४.१०४) = विभक्ति-संज्ञा |
यस्मात् प्रत्ययविधिस्तदादिप्रत्ययेऽङ्गम् (१.४.१३) = अङ्गसंज्ञा | यदा कदापि प्रत्ययः विधीयते, तदा तस्मात् प्रत्ययात् पूर्वं यावत् अस्ति, तत् सर्वं तस्य प्रत्ययस्य अङ्गम् | यथा भू + ण्वुल् | अत्र ण्वुल् इति प्रत्ययः; ण्वुल् प्रत्ययस्य अङ्गं "भू", यतः सः प्रत्ययात् पूर्वं वर्तते | अधुना "खादन्" इति पश्यतु; अत्र प्रत्ययद्वयम् अस्ति— खाद् + शप् + शतृ | शप्-प्रत्ययात् पूर्वं खाद् अस्ति, अतः शप्-प्रत्ययस्य अङ्गं "खाद्" | परन्तु शतृ-प्रत्ययात् पूर्वं "खाद् + शप्" अस्ति, अतः शतृ-प्रत्ययस्य अङ्गं "खाद् + शप्" | खाद् + शप् → अनुबन्धलोपे → खाद् + अ → "खाद" इति शतृ-प्रत्ययस्य अङ्गम् |
२. सार्वत्रिक-नियमाः
परिभाषा-सूत्राणि = स्वयं कार्यं न कुर्वन्ति, परन्तु अपरेषु सूत्रेषु निर्देशं ददति |
तस्मिन्निति निर्दिष्टे पूर्वस्य (१.१.६६) = सप्तमीविभक्तिः इत्यनेन कार्यं साक्षात् पूर्वं स्यात् |
तस्मादित्युत्तरस्य (१.१.६७) = पञ्चमीविभक्तिः इत्यनेन कार्यं साक्षात् परे स्यात् |
विप्रतिषेधे परं कार्यम् (१.४.२) = समानकाले तुल्यबले सूत्रे कार्यं कर्तुम् आयातश्चेत्, परसूत्रस्य कार्यं पूर्वं भवति | ग्रन्थात् आरभ्य अष्टमाध्यायस्य प्रथमपादपर्यन्तं यस्य सूत्रस्य सूत्रसङ्ख्या अधिका, तस्य बलं भवति |
अतिदेश-सूत्राणि = धातुभ्यः विहितेषु केषुचित् प्रत्ययेषु स्वभाव-विकारः |
सार्वधातुकमपित् (१.२.४) = यः कोऽपि प्रत्ययः सार्वधातुकः च अपित् च सः ङिद्वत् भवति | क्क्ङिति च (१.१.५) इति सूत्रेण यः प्रत्ययः गित्, कित्, ङित् च अस्ति, तत् निमित्तीकृत्य इकः स्थाने गुणः च वृद्धिः च न भवति | गुणवृद्धिनिषेधः |
द्वितीयः अध्यायः =
१. समासाधिकारः— सर्वे समासाः विहिताः (अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वः) |
२. विभक्तीनां विधानम्— क्रमेण द्वितीया, चतुर्थी, तृतीया, पञ्चमी, सप्तमी, प्रथमा, षष्ठी इति विभक्तयः |
३. धात्वादेशः— आर्धधातुके (२.४.३५) = प्रत्ययः आर्धधातुकः चेत्, मूलधातोः स्थाने अन्यत् रूपम् आयाति |
अस्तेर्भूः (२.४.५२) = अस्-धातोः परं प्रत्ययः आर्धधातुकः चेत्, अस् स्थाने भू आदेशः | अस् + तव्यत् → भू + तव्य → भवितव्यम् | अस् + यत् → भू + यत् → भो + य → भव्यम् |
४. लुक्प्रकरणम्— अस्मिन् प्रकरणे प्रत्ययस्य लोपः भवति |
अदिप्रभृतिभ्यः शपः (२.४.७२) = शपः लोपः | भा + ति → भा + शप् + ति → शपः लोपः → भाति
जुहोत्यादिभ्यः श्लुः (२.४.७५) = शपः लोपः | धातोः द्वित्वम् | दा + ति → दा + शप् + ति → शपः लोपः, धातोः द्वित्वम् → दादा + ति → ददाति |
तृतीयः चतुर्थः पञ्चमः च अध्यायाः प्रत्ययाध्यायाः इत्युच्यन्ते | अत्र धातुभ्यः प्रातिपदिकेभ्यश्च सर्वे प्रत्ययाः विहिताः भवन्ति |
तृतीयः अध्यायः =
धातुभ्यः ये ये प्रत्ययाः विहिताः ते सर्वे अत्र उक्ताः
१. सनादयः प्रत्ययाः
२. विकरण-प्रत्ययाः
३. कृत्-प्रत्ययाः [भूतार्थे, वर्तमानार्थे, भविष्यतार्थे च]
४. लकार-प्रत्ययाः [भूतार्थे, वर्तमानार्थे, भविष्यतार्थे च]
५. कर्मणि भावे च कृत्-प्रत्ययाः, लकार-प्रत्ययाः
६. स्त्रियां कृत्-प्रत्ययाः
चतुर्थः अध्यायः =
प्रातिपदिकेभ्यः ये ये प्रत्ययाः विहिताः ते सर्वे अत्र उक्ताः
स्त्रियां ये प्रत्ययाः
तद्धिताधिकारः
पञ्चमः अध्यायः =
१. तद्धितप्रत्ययाः
विभक्तिसंज्ञकाः प्रत्ययाः
अव्ययसंज्ञकाः प्रत्ययाः
२. समासान्ताधिकारः | उत्तरपदस्य प्रत्ययाः | दीर्घः पन्थाः → दीर्घपथः | सर्वा रात्रिः → सर्वरात्रः |
षष्ठाध्यायः =
१. द्वित्वप्रकरणम् | दा → दादा → → ददाति
२. सम्प्रसारणम्
३. सन्धिः - संहिताधिकारः | अत्र स्वरसन्धि-विधायकसूत्राणि सन्ति | (यण्सन्धिः, गुणसन्धिः, वृद्धिसन्धिः, सवर्णदीर्घसन्धिः इत्यादयः) | सन्धि-माध्यमेन यः कोऽपि विकारः भवति, सः वर्णकार्यम् इत्युच्यते | यतः विकारस्य कारणं वर्णम् एव | यथा इको यणचि (६.१.७७, लघु० १५) = इकः स्थाने यण्-आदेशः भवति अचि परे (संहितायां विषये) | अत्र इक्-स्थाने यण्-आदेशः भवति कदा ? यदा अच् परे अस्ति | कोऽपि स्वरः परे अस्ति चेत्, पूर्वं स्थितस्य इक्-स्थाने यण् भवति | अतः परे स्थितः अच्-वर्णः अस्य कार्यस्य निमित्तम् अस्ति | निमित्तं वर्णः, अतः इदं कार्यं वर्ण-निमित्तकं कार्यम्— वर्णकार्यम् |
४. चतुर्थः पादः - अङ्गाधिकारः ६.४.१ - ७.४.९७ | अयम् अङ्गाधिकारः अतीव महत्वपूर्णः | एतैः सूत्रैः सर्वम् अङ्गकार्यं भवति | अङ्गं नाम किम् इति अस्माभिः दृष्टम् | यदा प्रत्ययः अङ्गस्य विकारस्य कारणं भवति, तदा अयं विकारः अङ्गकार्यम् इत्युच्यते |
यथा भू + ण्वुल् | अत्र ण्वुल् इति प्रत्ययः; ण्वुल् प्रत्ययस्य अङ्गं "भू" इत्युक्तम् | भू + ण्वुल् (अक) → अक इत्यस्य कारणेन भू-धातौ वृद्धिः भवति → भौ + अक → आव्-आदेशः (सन्धिः) → भावकः | भू-धातोः ऊकारस्य वृद्धिः अङ्गकार्यम् |
कृ + अक → वृद्धिः → कार् + अक → कारकः
कृ + तृच् → गुणः → कर् + तृ → कर्तृ (कर्ता)
कृ + क्त्वा → गुणवृद्धिनिषेधः → कृत्वा
उपरि दृष्टं वृद्धिः, गुणः, गुणवृद्धिनिषेधः च इदं सर्वम् अङ्गकार्यं, यतः तस्य कारणं/हेतुः/निमित्तं परे स्थितः प्रत्ययः |
स्वरः | इ, ई | उ, ऊ | ऋ, ॠ |
---|---|---|---|
गुणः | ए | ओ | अर् |
वृद्धिः | ऐ | औ | आर् |
सप्तमाध्यायः =
अङ्गकार्यम्
१. अङात् परस्य प्रत्ययादेशः
२. इडागम-प्रकरणम् | यथा “खादितवान्" इत्यस्मिन् खाद्-धातु + इ [इडागमः] + क्तवतु |
३. सार्वधातुकप्रत्यये परे अङ्गकार्यम् | सार्वधातुकार्धधातुकयोः (७.३.८४), पुगन्तलघूपधस्य च (७.३.८६)
४. वृद्धि-प्रकरणम् (ञ्णिति, किति, तद्धितेषु)
५. अभ्यासकार्य-प्रकरणम् (यत् कार्यं भवति द्वित्वानन्तरम्) | यथा—दा → दादा → ददा → ददाति
अष्टमाध्यायः
१. पदस्य इत्यधिकारः ८.१.१३ – ८.३.५५
२. पूर्वत्रासिद्धत्वाधिकारः
३. हल्-सन्धिः
४. विसर्ग-सन्धिः
५. षत्वप्रकरणम्
६. णत्वप्रकरणम् | फलम् → फलानि किन्तु पुष्पम् → पुष्पाणि |
दीक्षितपुष्पायाः अष्टाध्यायीसूत्रपाठस्य पृष्ठसङ्ख्याः ११ – २८, प्रत्येकम् अध्यायस्य पादस्य च सारांशः इतोऽपि विस्तरेण उक्तः |
B. अधिकारसूत्राणि
केषाञ्चित् मुख्य-अधिकारसूत्राणां कार्यक्षेत्रं जानीमश्चेत्, सर्वाष्टाध्यायी-आकृतिः सौकर्येणे मनसि तिष्ठति | अधिकारसूत्रम् इत्युक्तौ तादृशं सूत्रं यस्य पूर्ण-रूपेण अनुवृत्तिः भवति बहुषु सूत्रेषु | अधः कानिचन प्रमुखाधिकारसूत्राणि दत्तानि; तेषां कार्यक्षेत्रम् अपि सूचितम्, नाम कस्मात् सूत्रात् आरभ्य किं सूत्र-पर्यन्तं तस्य प्रभावः | धेयं यत् उपरतने मानचित्रे, अधिकारसूत्रेषु च निकटसम्बन्धो वर्तते |
१. प्रत्ययः (३.१.१) = [अधिकारः ३.१.१ - ५.४.१६०] तृतीयः चतुर्थः पञ्चमः इत्येषु त्रिषु अध्यायेषु यत्र यत्र कस्यचित् विधानं भवति, तत्र तत्र प्रत्ययः आगत्य वदति यत् यस्य विधानं सञ्जातं, तस्य प्रत्यय-संज्ञा भवति | एषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति, तत्र सर्वत्र अस्य सूत्रस्य अधिकारः |
३.१.१ – ५.४.१६० इत्येषु यत्र यत्र विधानम् अस्ति, तत्र तत्र प्रत्येकं सूत्रस्य अर्थे एवम् अन्वयः यत् यत् विहितं, तस्य प्रत्यय-संज्ञा भवति | यथा वर्तमाने लट् (३.२.१२३); अस्मिन् सूत्रे प्रत्ययः इति सूत्रम् उपविश्य वदति यत् लट् विहितः अस्ति अतः तस्य प्रत्यय-संज्ञा भवति |
२. परश्च (३.१.२) = [अधिकारः ३.१.१ – ५.४.१६०] एषु एव त्रिषु अध्यायेषु यत्र यत्र प्रत्ययः इत्यनेन प्रत्यय-संज्ञा भवति, तत्र तत्र परश्च इति सूत्रम् अपि उपविश्य वदति यत् अयं प्रत्ययः प्रकृतेः अनन्तरम् आयाति |
यथा वर्तमाने लट् (३.२.१२३) = वर्तमानार्थे धातुतः लट् भवति [अग्रिमाधिकारसूत्रं धातोः], अपि च लटः प्रत्यय-संज्ञा भवति प्रत्ययः इत्यनेन | धातोः परे एव आयाति परश्च इत्यनेन | अनुवृत्ति-सहित-सूत्रम्— धातोः वर्तमाने लट् प्रत्ययः परश्च |
– अस्मिन् सूत्रे यदि लटः प्रत्यय-संज्ञा नाभविष्यत्, तर्हि परश्च नागमिष्यत् | तस्यां दशायां लट् तु आद्यन्तौ टकितौ (१.१.४६) इत्यनेन धातोः प्राक् अभविष्यत् | भू + लट् इति न, अपि तु लट् + भू अभविष्यत् !
३. धातोः (३.१.९१) = [अधिकारः ३.१.९१ – ३.४.११७] तृतीये अध्याये कृदन्तानां तिङन्तानां च विधायकसूत्राणि भवन्ति | अस्मिन् तृतीये अध्याये धातोः सर्वत्र आगत्य वदति यत् यः कोऽपि प्रत्ययः विहितः, सः धातोः अनन्तरं विहितः |
यथा निष्ठा (३.२.१०२) = निष्ठा एका संज्ञा अस्ति, क्त क्तवतु इत्यनयोः प्रत्यययोः कृते | सूत्रसङ्ख्यां पश्य— सूत्रसङ्ख्या-द्वारा बुद्धं यत् अस्मिन् सूत्रे प्रत्ययः, धातोः, परश्च इत्येषाम् अधिकारः | तर्हि अनेन सूत्रेण क्त क्तवतु च भवतः, तयोश्च प्रत्यय-संज्ञा स्तः | अपि च परश्च इत्यनेन धातोः परं वहितौ | भूते (३.२.८४) इत्यस्यापि अधिकारः, अतः भूतार्थे भवति | अनुवृत्ति-सहित-सूत्रमेवम्— धातोः निष्ठा भूते प्रत्ययः परश्च | उदा० कृ + क्तवतु → कृतवत्; पुंसि कृतवान् |
(धातोरेकाचो-हलादेः क्रियासमभिहारे यङ् (३.१.२२) = [अधिकारः ३.१.२२ – ३.१.९०] अनेन सूत्रेण धातु-प्रत्ययाः सनादयः, विकरणप्रत्ययाः शबादयः च धातुभ्यः विहिताः |)
४. ङ्याप्प्रातिपदिकात् (४.१.१) = [अधिकारः ४.१.१ – ५.४.१६०] चतुर्थे पञ्चमे चाध्याययोः यावन्तः प्रत्यायाः विहिताः, ते सर्वे प्रातिपदिकेभ्यः, ङ्यन्तेभ्यः, आबन्तेभ्यः वा आयान्ति | ङ्यन्तरूपाणि आबन्तरूपाणि च स्त्रीलिङ्गरूपाणि इति | तर्हि आहत्य चतुर्थे पञ्चमे चाध्याययोः सर्वे सुबन्तविधायकसूत्राणि सन्ति; तेषु सर्वेषु यत् किमपि विहितं, प्रत्ययः इत्यनेन यः विहितः, तस्य नाम प्रत्ययः | अपि च यः विहितः, सः सर्वत्र प्रातिपदिकात्, ङ्यन्तात्, आबन्तात् वा विहितः भवति |
५. संहितायाम् (६.१.७१, ६.३.११४) = [अधिकारः ६.१.७१ – ६.१.१५६, अपि च ६.३.११४ – ६.३.१३९] अत्र स्वरसन्धि-विधायकसूत्राणि सन्ति— यथा यण्सन्धिः, गुणसन्धिः, वृद्धिसन्धिः, सवर्णदीर्घसन्धिः इत्यादयः | प्रत्येकस्मिन् सन्धि-विधायकसूत्रे संहितायाम् उपविश्य वदति यत् तदा सन्धिः भवति यदा वर्णयोः अतिसामीप्यं वर्तते, नाम अव्ह्यवहिता स्थितिः |
यथा गुणसन्धिः | विधायकसूत्रम्— आद्गुणः (६.१.८७) | अनुवृत्ति-सहित-सूत्रमेवम्— आत् अचि पूर्वपरयोः एकः गुणः संहितायाम् |
हल्-सन्धिः अष्टमाध्याये भवति | तत्रापि सन्धिः इत्यस्य कृते संहितायाम् अपेक्ष्यते एव | परञ्च अत्र संहितायाम् षष्ठाध्यायस्य संहितायाम् (६.१.७१, ६.३.११४) इति ना | अष्टमाध्याये एव अन्यत् सूत्रं वर्तते तयोर्व्यावचि संहितायाम् (८.२.१०८) | अस्मात् सूत्रात् संहितायाम् इत्यस्य अधिकारः भवति ग्रन्थस्य अन्तपर्यन्तम् |
६. अङ्गस्य (६.४.१) = [अधिकारः ६.४.१ - ७.४.९७] षष्ठाध्यायस्य चुतुर्थपादस्य आरम्भात् सप्तमाध्यायस्य अन्तपर्यन्तं यत् किमपि कार्यं विधीयते, तत् कार्यम् अनेन सूत्रेण अङ्गे एव भवति अतः अङ्गकार्यम् इत्युच्यते | यदा प्रत्ययः विधीयते, तदा तस्मात् प्रत्ययात् पूर्वं यावत् अस्ति, तत् सर्वंम् अङ्गम् इति |
पूर्वम् अस्माभिः दृष्टं यत् अत्र अङ्गकार्यं प्रवर्तते—
कृ + अक → वृद्धिः → कार् + अक → कारकः
कृ + तृच् → गुणः → कर् + तृ → कर्तृ (कर्ता)
उभयत्र अङ्गस्य अधिकारः, अतः सूत्रयोः अङ्गस्य आगत्य उपविशति | अनेन ज्ञायते यत् एतत् कार्यम् अङ्गकार्यम्
अचो ञ्णिति (७.२.११५) = अङ्गम् अजन्तं चेत्, अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | मृजेर्वृद्धिः (७.२.११४) इत्यस्मात् वृद्धिः इत्यस अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— अङ्गस्य अचः वृद्धिः ञ्णिति | अलोऽन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः |
सार्वधातुकार्धधातुकयोः (७.३.८४) = सार्वधातुके आर्धधातुके च प्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति | मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य इत्यस्य अधिकारः | इको गुणवृद्धी इत्यस्मात् परिभाषा-सूत्रात् इकः आयाति यत्र स्थानी नोक्तम् | अलोऽन्त्यस्य इत्यनेन अन्तिमस्य इक्-वर्णस्य गुणः | अनुवृत्ति-सहित-सूत्रमिदम्— अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |
७. पदस्य (८.१.१६) = [अधिकारः ८.१.१६ – ८.३.५५] ८.१.१६ इत्यस्मात् आरभ्य ८.३.५५ पर्यन्तम् इदं सूत्रं एकैकस्मिन् विधिसूत्रे उपविश्य सूत्रार्थं पूरयति | अत्र अलोऽन्त्यस्य इत्यनेन परिभाषासूत्रेण अस्य अर्थो भवति "पदान्तस्य" | अतः यत् कार्यं विशेषतः पदान्ते भवति, तदस्य सूत्रस्य अधिकारे आयाति |
यथा रुत्वप्रकरणम् (८.३.१ - ८.३.१२) | अस्मिन् प्रकरणे वारं वारं रुत्वं (रु) विहितं भवति, सर्वत्र पदान्ते | तदा रु → स्थाने विसर्गः → स्थाने सकारः | रु → ः → स् | अनेन सम् + कृ + घञ् → सँस्कारः / संस्कारः | सम् इति उपसर्गः; उपसर्गः स्वयं पदम् | अतः सम् इत्यस्य म् → रु → ः → स् | अस्मिन् प्रकरणे रु इत्यस्मात् पूर्वस्थितवर्णस्य विकल्पेन अनुनासिकादेशः / अपरस्मिन् पक्षे अनुस्वारः आगमः | ँ / ं | तथैव कस्मिन् + चित् → कस्मिँश्चित् / कस्मिंश्चित् | कान् + चित् → काँश्चित् / कांश्चित् |
अस्य पाठस्य सारांशः अयं यत् अस्माकं मनसि कानिचन मुख्याधिकार-सूत्राणि सन्ति चेत्, तर्हि अष्टाध्याय्यां कीदृशकार्यं कुत्र भवति इति सौकर्येण ज्ञास्यामः | अनेन मार्गेण शीघ्रमेव सर्वं संस्कृतव्याकरणं बुद्धि-ग्रहणे आगच्छति |
C. अभ्यासः
सूत्रं, सूत्रार्थं, सूत्रसङ्ख्यां च दृष्ट्वा सूत्रे कानि अधिकारसूत्राणि तस्मिन् उपविशन्ति (सन्ति चेत्), कीदृशं कार्यं (संज्ञा-विधानम्, प्रत्यय विधानम्, वर्णकार्यम्, अङ्गकार्यम्) च तेन सिद्ध्यति इति उच्यताम् |
ण्वुल्तृचौ (३.१.१३३) = धातुतः ण्वुल् तृच् च विहितौ |
सुपि च (७.३.१०२) = ह्रस्व-अकारान्ताङ्गस्य अन्ते स्थितः अकारः दीर्घो भवति यञादि-सुप्-प्रत्यये परे | वृक्ष + भ्याम् → वृक्ष् + आ + भ्याम् → वृक्षाभ्याम् |
अजाद्यतष्टाप् (४.१.४) = अजादिगणीयेभ्यः ह्रस्व-अकारान्तेभ्यः च शब्देभ्यः स्त्रीत्वविवक्षायां टाप्-प्रत्ययः भवति |
क्तक्तवतू निष्ठा (१.१.२६) = क्त-प्रत्ययः, क्तवतु-प्रत्ययश्च निष्ठा-संज्ञकौ भवतः |
हुश्नुवोः सार्वधातुके (६.४.८७) = (किति ङिति) अजादि-सार्वधातुकप्रत्यये परे हु-धातोः, अपि च श्नु-प्रत्ययान्तस्य असंयोगपूर्वस्य, उकारस्य स्थाने यण्-आदेशः भवति |
तव्यत्तव्यानीयरः (३.१.९६) = धातुभ्यः तव्यत्, तव्य, अनीयर् च प्रत्ययाः भवन्ति |
अत उपधायाः (७.२.११६) = उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे |
आद्गुणः (६.१.८७) = अ-वर्णात् अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः भवति |
पुगन्तलघूपधस्य च (७.३.८६, लघु० ४५१) = सार्वधातुकप्रत्यये परे, आर्धधतुकप्रत्यये परे च अङ्गस्य उपधायां लघु-इकः गुणः (अपि च पुगन्ताङ्गस्य इकः गुणः) |
वृद्धिरेचि (६.१.८८) = अवर्णात् एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञक-एकादेशः भवति |
बहुवचने झल्येत् (७.३.१०३) = अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य स्थाने एकारादेशो भवति झलादि-बहुवचनार्थ-सुप्-प्रत्यये परे | अनुवृत्ति-सहित-सूत्रम्— बहुवचने झलि सुपि अङ्गस्य अतः एत् | वृक्ष + सुप् → वृक्ष् + ए + सु → वृक्षेषु |
अचो यत् (३.१.९७) = अजन्तधातुभ्यः यत्-प्रत्ययः भवति |
स्तोः श्चुना श्चुः (८.४.४०) = सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन
सार्वधातुकार्धधातुकयोः (७.३.८४) = सार्वधातुके आर्धधातुके च प्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति |
अस्मिन् पाठद्वये पाणिनेः अध्यापनविधिः “systems approach” कथम् इत्यस्य बोधनार्थं द्वौ बिन्दू परिशीलितौ—
१) प्रकरण-प्रक्रिया-भेदः
२) अष्टाध्याय्याः मानचित्रम्
इमं पाठनविधिम् अवलम्ब्य व्याकरणाध्ययनं प्रवर्तते चेत्, प्रगतिः शीघ्रमेव भवति !
Presentation_2_-_पाणिनीयव्याकरण-परिचयः_२_-_अष्टाध्याय्याः_समग्रदृष्टिः.pdf
Swarup – August 2014