page_and_link_managers, Administrators
5,154
edits
m (Protected "07 - दिवादिगणः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))) |
No edit summary |
||
(18 intermediate revisions by the same user not shown) | |||
Line 30:
<big>'''दिवादिभ्यः श्यन्''' (३.१.६९) = दिवादिगणे स्थितेभ्यः धातुभ्यः श्यन्-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | दिव् आदिर्येषां ते, दिवादयः बहुव्रीहिसमासः, तेभ्यः दिवादिभ्यः | दिवादिभ्यः पञ्चम्यन्तं, श्यन् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''कर्तरि शप्''' (३.१.६८) इत्यस्मात् '''कर्तरि''' इत्यस्य अनुवृत्तिः; '''सार्वधातुके यक्''' (३.१.६७) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः; '''
Line 37:
<big>अयं श्यन्-प्रत्ययः शित् इति कारणतः '''तिङ्शित्सार्वधातुकम्''' (३.४.११३) इति सूत्रेण सार्वधातुकप्रत्ययः | तस्मात् कारणात्, श्यन्-प्रत्यये परे, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) '''पुगन्तलघूपधस्य च''' (७.३.८६) इति सूत्राभ्यां गुणकार्यं विहितम् | परन्तु श्यन् अपित्, अतः '''सार्वधातुकमपित्''' (१.२.४) इति सूत्रेण ङिद्वत् | ङिद्वत् अतः '''क्क्ङिति च''' (१.१.५) इति कारणतः यत्र यत्र गुण-कार्यं विहितम्, तत्र तत्र निषिद्धम् |</big>
<big>'''सार्वधातुकमपित्''' (१.२.४) = अपित् सार्वधातुकम् ङित् इव अस्ति | सार्वधातुकम् प्रथमान्तम्, अपित् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्मात् '''ङित्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— '''सार्वधातुकम् अपित् ङित्''' |</big>
Line 47 ⟶ 45:
<big>प्रश्नः उदेति यत् श्यन्-प्रत्ययस्य आगमनात् प्रागेव किमर्थं न गुणकार्यं भवतु ? यथा दिव्-धातुः + तिप् | तिप् तु सार्वधातुकः अतः अनेन किमर्थं न गुणः ? उत्तरम् अस्ति यत् श्यनः विधानं नित्यम्, तिपः गुणकार्यम् अनित्यम् इति कारणेन गुणकार्यं निषिद्धम् | '''पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः''' (परिभाषा ३८) | अनया पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् भवति; परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति; नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत् भवति; अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत् भवति |</big>
Line 63 ⟶ 59:
<big>१) अङ्गान्ते उपधायां च इकः गुणः निषिद्धः | दिवादौ पी + श्यन् + ते → पीयते | पुष् + श्यन् + ति → पुष्यति | '''क्क्ङिति च''' (१.१.५) |</big>
<big>२) अनिदित्-धातूनाम् उपधायां न्-लोपः | येषां धातूनाम् इत्-संज्ञकः इत् (ह्रस्वः इकारः) नास्ति, तेषां धातूनाम् उपधायां नकारः अस्ति चेत्, तस्य लोपो भवति | भ्रंश् + श्यन् + ति → भ्रश्यति | भ्रंश् + श्यन् + शतृ → भ्रश्यत् | '''अनिदितां हल उपधायाː क्ङिति''' (६.४.२४) |</big>
<big>३) सम्प्रसारणिनां धातूनाम् सम्प्रसारणम् | यण्-स्थाने इक्-आदेशः (यण्-सन्धौ यथा भवति, तस्य विपरीतक्रमः), किति ङिति प्रत्यये परे | व्यध् + श्यन् + ति → विध्यति | '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) |</big>
<br>
<big>अन्यानि कित्-ङित्-निमित्तकानि कार्याणि यथासङ्गं वक्ष्यन्ते |</big>
<big>सम्प्रति धातूनाम् आयोजनशैली एकवारं स्मारणीया | एकैकस्मिन् पाठे अनया शैल्या धातूनां चिन्तनं प्रवर्तिष्यते |</big>
<big><u>धातवः चतुर्दशविधाः</u></big>
Line 80 ⟶ 77:
<big>एकवारम् धातूनां आयोजन-पद्धतिः का, किमर्थं च इति स्मरणीया |</big>
<big>वयं जानीमः यत् पाणिनेः सूत्राणि आधारीकृत्य प्रातिपदिकानि तदन्तपदम् अनुसृत्य आयोजितानि—पुंसि अकारान्तशब्दाः, देव इव; इकारान्तशब्दाः, मुनि इव; उकारान्तशब्दाः, गुरु इव; ऋकारान्तशब्दाः, कर्तृ इव | स्त्रियां लता, नदी, मति, धेनु, मातृ; क्लीबे वन, मधु, वारि अपि तथा | नाम देवशब्दः बहूनां शब्दानां प्रतिनिधिः, अतः देवशब्दं जानीमश्चेत्, बहून् शब्दान् जानीमः एव | अपि च प्रक्रियादृष्ट्या, सिद्धान्तकौमुद्यां प्रातिपदिकानां कृते तादृशी व्यवस्था अस्ति एव | रामशब्दस्य व्युत्पत्तिः प्रदर्शिता; इयं च व्युत्पत्तिः सर्वेषाम् अकारान्त-पुंलिङ्गशब्दानां कृते प्रतिनिधिः | तथैव अग्रेऽपि सर्वेषां प्रातिपदिकानां कृते |</big>
Line 85 ⟶ 83:
<big>परन्तु यद्यपि धातूनां कृते अपि पाणिनीयसूत्राणि तथैव व्यवस्थापितानि, तथापि एतावता केनापि तादृशम् आयोजनं न कृतम् | न सिद्धान्तकौमुद्यां, न वा अन्यत्र | अधुनैव प्रथमवारम् ऐतिहासिकी पद्धतिः अक्रियत मात्रा दीक्षितपुष्पया | तया सर्वे द्विसहस्रं धातवः चतुर्दशसु भागेषु विभक्ताः— नव अजन्तधातूनां श्रेण्यः, पञ्च च हलन्तधातूनां श्रेण्यः | अजन्तधातवः अन्त्यक्रमेण आयोजिताः; हलन्तधातवः उपधा-क्रमेण विभक्ताः | किमर्थं तथा ? पाणिनेः सूत्राणि तथा सन्ति | अजन्तधातूनां कृते सूत्राणां कार्यम् अन्तिमस्वरम् अनुसृत्य भवति | अतः मात्रा एवमेव रीत्या अजन्तधातवः विभक्ताः—अकारान्ताः, आकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ॠकारान्ताः, एजन्ताः च | हलन्तधातूनां कृते पाणिनेः सूत्राणां कार्यं उपधाम् अनुसृत्य भवति | नाम अन्तिमवर्णात् प्राक् यः वर्णः, तम् अनुसृत्य इति | अतः तत्र हलन्तधातूनां कृते अदुपधाः, इदुपधाः, उदुपधाः, ऋदुपधाः, शेषधातवः चेति |</big>
<big>अधुना दिवादिगणे सार्वधातुकलकाराणां रूपाणि कथं भवन्ति इति वीक्षताम् | दिवादिगणः प्रथमधातुगणसमूहे, नाम अस्मिन् गणे अङ्गं सर्वत्र अदन्तम् | श्यन्-प्रत्ययस्य शकारस्य इत्-संज्ञा '''लशक्वतद्धिते''' (१.३.८) इति सूत्रेण, नकारस्य इत्-संज्ञा '''हलन्त्यम्''' (१.३.३) इति सूत्रेण, '''तस्य लोपः''' (१.३.९) इत्यनेन तयोर्लोपः; य इत्यवश्यिष्यते | दिवादिगणीयः धातुः यः कोऽपि भवतु नाम, अङ्गस्य अन्ते "य" इत्यस्य अकारः भवति एव | यथा नृत् + य → नृत्य |</big>
<big>पूर्वमेव अस्माभिः सार्वधातुकलकारेषु (लट्, लोट्, लङ्, विधिलिङ् इत्येषु) तिङ्-प्रत्ययाः साधिताः | [https://samskritavyakaranam.miraheze.org/wiki/05---sArvadhAtukaprakaraNam-adantam-aGgam/05---aGgasya-siddha-tiGpratyayAnAM-ca-saMyojanam पूर्वतनेपाठे] अदन्ताङ्ग-तिङ्प्रत्यययोः संयोजनं कथं भवति परस्मैपदे आत्मनेपदे च इति अवलोकितम् | अधुना दिवादिगणे यावन्तः धातवः सन्ति, तेषां सर्वेषां धातूनां कृते अङ्ग-निर्माण-विधिः अस्माभिः ज्ञायेत | अङ्गस्य सामान्य-चिन्तनं किं, विशेष-चिन्तनं किम् इति ज्ञेयम् | एकवारम् अङ्गं निर्मितं, ततः अग्रे चतुर्णां लकाराणां कृते अवशिष्टं सर्वं (सिद्धतिङ्प्रत्ययाः के, अपि च अङ्ग-तिङ्प्रत्यय-संयोजनविधिः) अस्माभिः ज्ञायते एव | अतः आहत्य, अधुना केवलम् अदन्तम् अङ्गम् अपेक्ष्यते; हस्ते अङ्गम् अस्ति चेत्, लटि, लोटि, लङि, विधिलिङि च तिङन्तबुद्धिः प्राप्ता |</big>
<big>तर्हि अस्माकं कुञ्चिका अस्ति अङ्गम्; अङ्गं ज्ञायते चेत्, लटि, लोटि, लङि, विधिलिङि च सर्वाणि रूपाणि ज्ञायन्ते |</big>
Line 100 ⟶ 97:
{| class="wikitable"
|+
!<big>लटि सिद्ध-प्रत्ययाः—</big>
!
!<big>लट्-लकारे तिङन्तरूपाणि—</big>
|-
|<big>ति तः अन्ति</big>
|
|<big>नश्यति नश्यतः नश्यन्ति</big>
|-
|<big>सि थः थ</big>
|
|<big>नश्यसि नश्यथः नश्यथ</big>
|-
|<big>मि वः मः </big>
|
|<big>नश्यामि नश्यावः नश्यामः</big>
|}
{| class="wikitable"
!<big>लोटि सिद्ध-प्रत्ययाः—</big>
!
!<big> लोट्-लकारे तिङन्तरूपाणि—</big>
|-
|<big> तु, तात् ताम् अन्तु</big>
|
|<big>नश्यतु / नश्यतात् नश्यताम् नश्यन्तु</big>
|-
|<big>०, तात् तम् त </big>
|
|<big>नश्य/नश्यतात् नश्यतम् नश्यत</big>
|-
|<big>आनि आव आम </big>
|
| <big>नश्यानि नश्याव नश्याम</big>
|}
{| class="wikitable"
!
<big>लङि सिद्ध-प्रत्ययाः— </big>
!
!<big> लङ्-लकारे तिङन्तरूपाणि—</big>
|-
|<big>त् ताम् अन् </big>
|
|<big>अनश्यत् अनश्यताम् अनश्यन्</big>
|-
|<big>स् तम् त</big>
|
|<big>अनश्यः अनश्यतम् अनश्यत</big>
|-
|<big>अम् व म</big>
|
|<big>अनश्यम् अनश्याव अनश्याम</big>
|}
{| class="wikitable"
!<big>विधिलिङि सिद्ध-प्रत्ययाः— </big>
!
!<big>विधिलिङ्-लकारे तिङन्तरूपाणि—</big>
|-
|<big> इत् इताम् इयुः </big>
|
| <big> नश्येत् नश्येताम् नश्येयुः</big>
|-
|<big> इः इतम् इत </big>
|
| <big>नश्येः नश्येतम् नश्येत</big>
|-
|<big>इयम् इव इम </big>
|
| <big>नश्येयम् नश्येव नश्येम</big>
|}
<big>दिवादिगणे, आत्मनेपदे विद्-धातुः, अङ्गम् अस्ति विद् + श्यन् → विद्य</big>
{| class="wikitable"
!<big>लटि सिद्ध-प्रत्ययाः—</big>
!
!<big>लट्-लकारे तिङन्तरूपाणि—</big>
|-
|<big>ते इते अन्ते</big>
|
|<big>विद्यते विद्येते विद्यन्ते</big>
|-
|<big>से इथे ध्वे</big>
|
|<big>विद्यसे विद्येथे विद्यध्वे</big>
|-
|<big>ए वहे महे</big>
|
|<big>विद्ये विद्यावहे विद्यामहे</big>
|}
{| class="wikitable"
!<big>लोटि सिद्ध-प्रत्ययाः—</big>
!
!<big> लोट्-लकारे तिङन्तरूपाणि—</big>
|-
|<big>ताम् इताम् अन्ताम् </big>
|
|<big>विद्यताम् विद्येताम् विद्यन्ताम्</big>
|-
| <big> स्व इथाम् ध्वम् </big>
|
|<big>विद्यस्व विद्येथाम् विद्यध्वम्</big>
|-
| <big> ऐ आवहै आमहै </big>
|
|<big>विद्यै विद्यावहै विद्यामहै</big>
|}
{| class="wikitable"
!
<big>लङि सिद्ध-प्रत्ययाः— </big>
!
!<big> लङ्-लकारे तिङन्तरूपाणि—</big>
|-
| <big>त इताम् अन्त </big>
|
|<big>अविद्यत अविद्येताम् अविद्यन्त</big>
|-
|<big> थाः इथाम् ध्वम्</big>
|
|<big>अविद्यथाः अविद्येथाम् अविद्यध्वम्</big>
|-
|<big> इ वहि महि</big>
|
|<big>अविद्ये अविद्यावहि अविद्यामहि</big>
|}
{| class="wikitable"
!<big>विधिलिङि सिद्ध-प्रत्ययाः— </big>
!
!<big>विधिलिङ्-लकारे तिङन्तरूपाणि—</big>
|-
|<big>ईत ईयाताम् ईरन् </big>
|
| <big>विद्येत विद्येयाताम् विद्येरन्</big>
|-
|<big>ईथाः ईयाथाम् ईध्वम् </big>
|
|<big> विद्येथाः विद्येयाथाम् विद्येध्वम्</big>
|-
|<big>ईय ईवहि ईमहि </big>
|
| <big> विद्येय विद्येवहि विद्येमहि</big>
|}
<big>अग्रे केवलम् अङ्गं च लट्-लकारस्य प्रथमपुरुषैकवचनान्तरूपं दीयते | ततः चतुर्णां लकारणां सर्वाणि रूपाणि ज्ञायन्ते |</big>
Line 212 ⟶ 262:
<big>'''A.''' <u>सामान्यधातवः</u> (115 धातवः)</big>
<big>एषां धातूनां कृते किमपि कार्यं नास्ति | केवलं वर्णमेलनम् | इगन्तधातुः वा लघु-इगुपधधातुः वा चेत् '''सार्वधातुकमपित्''' (१.२.४), '''क्क्ङिति च''' (१.१.५) इत्याभ्यां गुणनिषेधः |</big>
Line 223 ⟶ 271:
<big>माङ् माने (मापनार्थे) → मा → मा + श्यन् → माय इति अङ्गम् → माय + ते → लटि मायते</big>
Line 230 ⟶ 277:
<big>सर्वे आत्मनेपदिनः | गुणनिषेधत्वात् अत्रापि किमपि अङ्गकार्यं नास्ति | अपि च ई + य इत्यनयोः संयोजनेन सन्धिकार्यं नास्ति | अतः केवलं वर्णमेलनम्—</big>
<big>पीङ् पाने → पी + श्यन् → पी + य → पीय इति अङ्गम् → पीय + ते → पीयते (पिबति इत्यर्थः)</big>
Line 250 ⟶ 298:
<big>लीङ् श्लेषणे → ली + श्यन् → लीय → लीयते (विलीनः भवति)</big>
<big><u>ऊकारान्तधातवः</u> (2 धातू)</big>
<big>द्वावपि आत्मनेपदिनौ |</big>
Line 262 ⟶ 309:
<big>दूङ् परितापे → दूय → दूयते (दुःखी भवति)</big>
<big><u>अदुपधधातवः</u> (19 धातवः)</big>
Line 279 ⟶ 324:
<big>रध् → रध्य → रध्यति, मन् → मन्य → मन्यते, तप् → तप्य → तप्यति, शप् → शप्य → शप्यति, णभ → नभ् → नभ्य → नभ्यति, अस् → अस्य → अस्यति, जस् → जस्य → जस्यति, तस् → तस्य → तस्यति, दस् → दस्य → दस्यति, वस् → वस्य → वस्यति, मस् → मस्य → मस्यति, स्नस् → स्नस्य → स्नस्यति, नह् → नह्य → नह्यति</big>
Line 301 ⟶ 345:
<big>क्षिप प्रेरणे (तुदादौ क्षिपति, चुरादौ क्षिपयति) → क्षिप् + श्यन् → क्षिप्य → क्षिप्य + ति → क्षिप्यति</big>
<big>तिम् आर्द्रीभावे → तिम्य → तिम्यति</big>
<big>स्तिम् आर्द्रीभावे → स्तिम्य → स्तिम्यति</big>
<big>क्लिश उपतापे (क्लेश-प्राप्तिः) → क्लिश् → क्लिश् + श्यन् → क्लिश्य इति अङ्गम् → क्लिश्य + ते → क्लिश्यते</big>
<big>लिश
<big>श्लिष आलिङ्गने → श्लिष् → श्लिष्य → श्लिष्यति</big>
<big>इष गतौ → इष् → इष्य → इष्यति</big>
Line 315 ⟶ 359:
<big>रिष हिंसायाम् → रिष् → रिष्य → रिष्यति</big>
<big>बिस प्रेरणे → बिस् → बिस्य → बिस्यति</big>
<big>ष्णिह प्रीतौ → स्निह् + श्यन् → स्निह्य इति अङ्गम् → स्निह्य + ति → स्निह्यति</big>
Line 358 ⟶ 401:
<big>कृश तनूकरणे (कृशः भवति) → कृश् + श्यन् → कृश्य इति अङ्गम् → कृश्य + ति → कृश्यति</big>
<big>तृष् पिपासायाम् → तृष्यति, गृध् अभिकाङ्क्षायाम् → गृध्यति, दृप् हर्षमोहनयोः → दृप्यति, भृश् अधः पतने → भृश्यति, वृश् आवरणे → वृश्यति, मृष् तितिक्षायाम् → मृष्यति/ते</big>
Line 370 ⟶ 411:
<big>दीपी दीप्तौ (प्रकाशते) → दीप् + श्यन् → दीप्य इति अङ्गम् → दीप्य + ति → दीप्यति</big>
<big>पूरी आप्यायने (पूरणे) →
<big>व्रीड् चोदने, लज्जायां च → व्रीड्यति, राध् वर्धनं→ राध्यति, स्तीम् आर्द्रीभावे → स्तीम्यति</big>
Line 384 ⟶ 423:
<big>यस्य धातोः ह्रस्व-इकारस्य इत्-संज्ञा भवति, सः धातुः इदित् इति उच्यते | यः धातुः इदित्, नास्ति, सः अनिदित् इत्युच्यते | अनिदितां धातूनाम् उपधायाः नकारस्य लोपः भवति किति ङिति प्रत्यये परे | दिवादिगणे तादृशौ द्वौ धातू स्तः, रञ्ज रागे → रञ्ज्, भ्रंशु अधःपतने → भ्रंश् च | श्यन् ङिद्वत् अतः श्यनि परे अनयोः धात्वोः न-लोपो भवति |</big>
<big>धातुपाठे अनुस्वारः, वर्गीयव्यञ्जनानां पञ्चमसदस्याः च, इमे सर्वे मूले दन्त्य-नकारः एव इति बोध्यम् | तदा सन्धिकार्येण नकारस्य स्थाने अनुस्वारः, ततः अग्रे च यथासङ्गम् अनुस्वारस्य स्थाने अन्यानि वर्गीयव्यञ्जनानि आयान्ति |</big>
<big>अतः दिवादिगणे रञ्ज्-धातोः मूलरूपम् अस्ति वस्तुतः रन्ज्; भ्रंश्-धातोः मूलरूपम् अस्ति भ्रन्श् | यथा—</big>
Line 395 ⟶ 434:
<big>रञ्ज् → '''दिवादिभ्यः श्यन्''' (३.१.६९) इत्यनेन दिवादौ श्यन् भवति कर्त्रर्थे सार्वधातुकप्रत्यये परे →
<big>अयं रञ्ज्-धातुः भ्वादौ अपि अस्ति | तत्र शप् इति विकरणं; शप् च न कित् न वा ङित् अतः '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इति सूत्रेण नलोपः न भवति | परन्तु तत्रापि नलोपः इष्टः, अतः पानिणिना तदर्थं विशिष्टसूत्रं विरचितम्—</big>
<big>'''रञ्जेश्च''' (६.४.२६) = रञ्ज्-धातोः अपि नकारस्य लोपः भवति शपि परे | रञ्जेः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात् '''नलोपः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''रञ्जेः च अङ्गस्य नलोपः शपि''' |</big>
<big>भ्वादिगणे रजति/रजते इति रूपे भवतः |</big>
Line 409 ⟶ 448:
<big>भ्रन्श् → '''नश्चापदान्तस्य झलि''' इत्यनेन झलि परे अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः → भ्रंश् | शकारः ययि नास्ति, अतः परसवर्णादेशः न भवति | तर्हि धातुः भ्रंश्, परन्तु उपधायां नकारः अस्ति इति बोध्यम् |</big>
<big>भ्रंश् → '''दिवादिभ्यः श्यन्''' (३.१.६९) इत्यनेन दिवादौ श्यन् भवति कर्त्रर्थे सार्वधातुकप्रत्यये परे → भ्रन्श् + श्यन् → '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इत्यनेन ङिति प्रत्यये परे उपधायां स्थितस्य नकारस्य लोपः → भ्रश् + य → भ्रश्य इति अङ्गम् → भ्रश्य + ति → भ्रश्यति</big>
<big>अयं भ्रंश्-धातुः भ्वादौ अपि अस्ति | तत्र न-लोपः न भवति, भ्रंशते इति रूपम् |</big>
<big>'''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्-संज्ञा नास्ति, तेषाम् उपधायां नकारः अस्ति चेत्, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत् इत् अस्ति येषां ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम् अनिदिताम् | क् च ङ् च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन् क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात् '''न''', '''लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति''' |</big>
<big>अनुस्वारादेशः— '''नश्चापदान्तस्य झलि''' |</big>
<big>'''नश्चापदान्तस्य झलि''' (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | '''मोऽनुस्वारः''' (८.३.२३) इत्यस्मात् '''मः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अपदान्तस्य मः नः च अनुस्वारः''' '''झलि संहितायाम्''' |</big>
<big>परसवर्णादेशः— '''अनुस्वारस्य ययि परसवर्णः''' |</big>
Line 432 ⟶ 472:
<big>'''परसवर्णः''' इत्युक्ते अनुस्वारात् परः यः वर्णः, तस्य सवर्णः | सवर्णः नाम अनुस्वारात् परः यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते | अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु | परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः ? '''स्थानेऽन्तरतमः''' (१.१.५०) सूचयति यत् यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्टो भवतु | वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव | अतः '''स्थानेऽन्तरतमः''' इत्यस्य साहाय्येन '''अनुस्वारस्य ययि परसवर्णः''' इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशो भवति | यथा—अंग → अङ्ग, मंच → मञ्च, मंता → मन्ता |</big>
<big>धेयम्— श्, ष्, स्, ह् इति वर्णाः '''यय्'''-प्रत्याहारे न सन्ति इति कारणेन एषु परेषु अनुस्वारस्य परसवर्णादेशो नैव भवति | यथा—रंस्यते = रंस्यते, नंस्यति = नंस्यति, संगंस्यते = संगंस्यते |</big>
Line 440 ⟶ 480:
<big>(१) स्थानम्</big>
<big>मुखे स्थानस्य सादृश्यम् अनुसृत्य आदेशो निर्णीयते | यथा—</big>
Line 445 ⟶ 486:
<big>'''अकः सवर्णे दीर्घः''' (६.१.१०१) = अक्-वर्णात् सवर्णे अचि परे पूर्वपरयोः स्थाने दीर्घसंज्ञक-एकादेशः स्यात् | अनुवृत्ति-सहितसूत्रम्— '''अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः''' '''संहितायाम्''' |</big>
<big>दण्ड + अग्रम् → दण्डाग्रम् | अत्र द्वौ अपि अकारौ कण्ठ्यौ, नाम कण्ठे उत्पन्नौ | अतः तयोः स्थाने यः दीर्घादेशो भवति, सोऽपि कण्ठः भवेत् सम्भवति चेत् | तत्र दीर्घः आकारः कण्ठ्यः, अतः स एव आदेशो भवति |</big>
Line 452 ⟶ 494:
<big>(२) गुणः</big>
<big>'गुणः' इत्युक्ते ध्वनिः; व्याकराणदृष्ट्या तस्य प्रकाशो भवति प्रयत्नेन | तत्र द्वैविध्यम् अस्ति— आभ्यन्तरप्रयत्नः बाह्यप्रयत्नः च | कुत्रचित् आदेशस्य निर्धारणं न स्थानेन सम्भवति, न वा अर्थेन | तत्र कुत्रचित् प्रयत्नः निर्णायकः, यथा—</big>
Line 462 ⟶ 501:
<big>'''चजोः कु घिण्ण्यतोः''' (७.३.५२) = चकारस्य जकारस्य च स्थाने कवर्गादेशो भवति घिति ण्यति च |</big>
<big>पच् + घञ् → '''चजोः कु घिण्ण्यतोः''' (७.३.५२) → पाकः</big>
Line 467 ⟶ 507:
<big>त्यज् + घञ् → '''चजोः कु घिण्ण्यतोः''' (७.३.५२) → त्यागः</big>
<big>अत्र चकारः तालव्यः वर्णः | जकारः अपि तथा | कवर्गस्य वर्णाः सर्वे कण्ठ्याः | अतः स्थानस्य आधारेण निर्णयः न शक्यः | तदर्थं गुणः, नाम प्रयत्नः, द्रष्टव्यः | चकारस्य प्रयत्नः विवारः, श्वासः, अघोषः, अल्पप्राणः | कवर्गस्य पञ्चसु सदस्येषु ककारः एव तथा; अतः चकारस्य स्थाने ककारादेशः भवति | जकारस्य प्रयत्नः संवारः, नादः, घोषः, अल्पप्राणः | कवर्गस्य पञ्चसु सदस्येषु गकारः एव तथा; अतः जकारस्य स्थाने गकारादेशः भवति |</big>
Line 474 ⟶ 515:
<big>(३) प्रमाणम्</big>
<big>प्रमाणम् इत्युक्ते दैर्घ्यम् | प्रमाण-शब्दे 'मानम्' अन्तर्भूतं वर्तते किल, तदर्थं तादृशः अर्थः स्वीकृतः | मानं नाम मापनम् | कुत्रचित् प्रमाणेन एव निर्धारणप्राप्तिः भवति, यथा—</big>
<big>'''अदसोऽसेर्दादु दो मः''' (८.२.८०) = यस्य अन्ते सकारो नास्ति, एतादृशस्य अदस्-शब्दस्य दकारोत्तरवर्णस्य स्थाने उकारादेशः ऊकारादेशः च; दकारस्य च स्थाने मकारादेशो भवति |</big>
Line 489 ⟶ 529:
<big>अत्र ह्रस्व-अकारस्य स्थाने ह्रस्व-उकारः; दीर्घ-आकारस्य स्थाने दीर्घ-ऊकारः |
Line 498 ⟶ 536:
<big>कुत्रचित् उच्चारणस्थान-सादृश्येन आदेशस्य निर्णयो न शक्यते | यदा स्थानेन न सम्भवति, तदा अर्थः, गुणः, प्रमाणं च एषु त्रिषु अन्यतमः निर्णयस्य आधारः भवति |</big>
<big>अर्थस्य प्रसङ्गे यथा—</big>
<big>'''पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु''' (६.१.६२) = पद्, दत्, नस्, मास्, हृत्, निश्,
<big>अनेन सूत्रेण द्वितीयविभक्तेः बहुवचनात् [शस्] आरभ्य सप्तमीविभक्तेः बहुवचनं [सुप्] यावत् एते आदेशाः विकल्पेन भवन्ति |</big>
Line 524 ⟶ 562:
<big>किन्तु केषां पदानां स्थाने भवन्ति इति नोक्तम् | अत्र '''स्थानेऽन्तरतमः''' (१.१.५०) इति सूत्रेण तदा आदेशः योग्यः भवति यदा स्थानिनः अर्थं प्रकटयितुं प्रभवति | अनेन एते उक्ताः आदेशाः क्रमेण एषाम् एव स्थानिनः भवन्ति— पाद, दन्त, नासिका, मास, हृदय, निशा, असृज्, यूष, दोष, यकृत्, शकृत्, उदक, आसन इति | यथा पद् चरणार्थे भवति, अतः स्थानिनोऽपि तादृशार्थः भवेत्; तस्मात् पाद इति स्थानी | एवमेव अग्रे सर्वत्र |</big>
<big>तदर्थं पाद-शब्दस्य रूपाणि एवं भवन्ति—</big>
Line 548 ⟶ 584:
<big>एवमेव अग्रेऽपि | दन्त-शब्दस्य विकल्पेन शस् इत्यस्मात् आरभ्य दत्-शब्दः इत्यादिकम् |</big>
<big>एषु स्थलेषु मुखे स्थानं किम् इत्यनेन निर्णयः न भवितुम् अर्हति स्म | तस्मात् अर्थः इति आधारः अपेक्षितः |</big>
Line 553 ⟶ 590:
<big><u>सारांशः</u></big>
<big>तर्हि आहत्य '''स्थानेऽन्तरतमः''' (१.१.५०) इति सूत्रेण सादृश्यम् उपस्थाप्यते चतुर्भिः माध्यमैः— स्थानं, गुणः, प्रमाणम्, अर्थः च | किन्तु एषु चतुर्षु प्रमुखम् अस्ति स्थानम् | कथं ज्ञायते ? काशिकाकारः वदति यत् पूर्वसूत्रात् '''षष्ठी स्थानेयोगा''' (१.१.४९) इत्यस्मात् 'स्थाने' इत्यस्य अनुवर्तनं भवितुम् अर्हति स्म; तस्मिन् एव लाघवम् आसीत् | तर्हि किमर्थं पाणिनिना तस्य अनुवर्तनं न स्वीकृतम् ? पुनः 'स्थाने' विलिख्य ददाति '''स्थानेऽन्तरतमः''' (१.१.५०) इति सूत्रे, चतुर्षु स्थानस्य प्राधान्यदर्शनार्थम् | अतः यत्र यत्र स्थानेन निर्धारणम् शक्यं, तत्र तत्र स्थानेन एव कर्तव्यम् | यत्र च न सम्भवति, तत्र अन्येषु त्रिषु—गुणः, प्रमाणम्, अर्थः इत्येषु—अन्यतमेन सादृश्यं साधनीयम् |</big>
Line 562 ⟶ 600:
<big>यथा वदिँ इति इदित् धातुः | '''इदितो नुम् धातोः''' (७.१.५८) इत्यनेन नुमागमः, वन्द् इति धातुः | अस्य न्-लोपः न भवति |</big>
<big>वदिँ → वद् → वन्द् → वंद् → वन्द्</big>
<big>वदिँ → वद् '''उपदेशेऽजनुनासिक इत्'''</big>
Line 583 ⟶ 621:
<big>'''इदितो नुम् धातोः''' (७.१.५८) = इदितः धातोः नुम् आगमो भवति | इदित् इत्युक्ते इत् इत् यस्य सः | तत्र प्रथमः इत् नाम ह्रस्वः इकारः | द्वितीयः इत् नाम इत्-संज्ञा | ह्रस्व इकारस्य इत्-संज्ञा यस्य, सः धातुः इदित् | इत् इत् यस्य स इदित्, तस्य इदितः, बहुव्रीहिः | इदितः षष्ठ्यन्तं, नुम् प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''इदितो धातोः नुम्''' |</big>
<big>प्रश्नः उदेति-- यदि वदिँ-धातौ नकारादेशः भवति एव, तर्हि किमर्थं वन्द् मूलधातुः न स्यात् ? तथैव यदि लबि मकारः आयाति एव, तर्हि किमर्थं लम्ब् इत्येव मूलधातुः न स्यात् ? उत्तरम् अस्ति यत् तत्र कतिचन कार्याणि सन्ति | यथा '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इत्यनेन यः धातुः इदित् नास्ति, तस्य धातोः उपधायां स्थितस्य नकारस्य लोपः स्यात् किति ङिति परे | परन्तु इदित् चेत् अस्माभिः यः नकारः आनीतः, तस्य नकारस्य लोपः कस्यामपि दशायां न भवति | साक्षत् आरम्भतः नकारः अस्ति चेत्, तस्य लोपः किति ङिति च भवति | यथा बन्ध-धातौ नकारः उपस्थितः मूलधातौ, अतः किति ङिति परे नकारलोपः | ल्युटि "बन्धनं" (नकारः उपस्थितः यतोहि ल्युट् प्रत्ययः कित् अपि नास्ति, ङित् अपि नास्ति); परन्तु क्तान्तरूपं "बद्ध" (नकारलोपः यतोहि क्त प्रत्ययः कित् अस्ति) | लबि धातोः '''इदितो नुम् धातोः''' इत्यनेन नुम् आगमः → लम्ब् | अस्य नकारस्य लोपः किति ङिति न भवति— यथा क्तान्तरूपं लम्बितः |</big>
Line 590 ⟶ 629:
<big>सम्प्रसारण-संज्ञा भवति यत्र यणः स्थाने इक्-आदेशः भवति | धातौ एतादृशं कार्यं भवति चेत्, सः धातुः सम्प्रसारणी | दिवादिगणे एकः सम्प्रसारणी धातुः अस्ति— व्यध ताडने | अधस्तनेन सूत्रेण ('''ग्रहि ज्या''' इत्यनेन) किति ङिति प्रत्यये परे, सम्प्रसारणं भवति— नाम यणः स्थाने इक् |</big>
<big>सम्प्रसारणम्—</big>
Line 603 ⟶ 643:
<big>व्यध्-धातौ तादृशौ द्वौ वर्णौ स्तः— वकारः यकारश्च | अत्र '''न सम्प्रसारणे सम्प्रसारणम्''' (६.१.३७) इति सूत्रेण परस्य एव सम्प्ररासणं भवति, न तु पूर्वस्य | अतः व्यध्-धातौ यकारस्य सम्प्रसारणम् |</big>
<big>व्यध ताडने → व्यध् + श्यन् → '''न सम्प्रसारणे सम्प्रसारणम्''' इति सूत्रेण सम्प्रसारणे परे पूर्वं स्थितस्य वकारस्य सम्प्रसारणं न भवति → '''ग्रहि ज्या''' इति सूत्रेण सम्प्रसारण-आदेशः → व्-इ-अ-ध् + य → '''सम्प्रसारणाच्च''' (६.१.१०८) इति सूत्रेण सम्प्रसारण-संज्ञक-वर्णात् परं अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः → विध् + य → विध्य इति अङ्गम् → विध्य + ति → विध्यति</big>
Line 608 ⟶ 649:
<big>व्यध्-धातोः एव व्याधः यः मृगयां करोति | छिद्रं करोति इति विध्यति |</big>
<big>'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) = ग्रह्, ज्या, वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तं, ङिति सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यस्मात् '''किति''' इत्यस्य अनुवृत्तिः; '''ष्यङः सम्प्रसारणम्''' '''पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात् '''सम्प्रसारणम्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च''' '''सम्प्रसारणम्''' |</big>
Line 618 ⟶ 660:
<big>ज्या (क्र्यादौ) → जिनाति [वृद्धः, जीर्णः भवति] जीनः</big>
<big>
<big>व्यध् (दिवादौ) → विध्यति [छिनत्ति] विद्धः</big>
Line 631 ⟶ 673:
<big>भ्रस्ज् (तुदादौ) → भृज्जति [to fry, parch, roast] भृष्टः</big>
Line 638 ⟶ 679:
<big>'''सम्प्रसारणाच्च''' (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् परम् अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात् पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''इको यणचि''' (६.१.७७) इत्यस्मात् '''अचि''', '''अमि पूर्वः''' (६.१.१०७) इत्यस्मात् '''पूर्वः''' इत्यनयोः अनुवृत्तिः भवतः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम्''' |</big>
<big>'''न सम्प्रसारणे सम्प्रसारणम्''' (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति | न अव्ययपदं, सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— '''न सम्प्रसारणे सम्प्रसारणम्''' |</big>
Line 647 ⟶ 689:
<big>दिवादिगणे जॄष्, झॄष् वयोहानौ (जीर्णः भवति) इमौ द्वौ धातू ॠकारान्तौ, समानार्थकौ च | '''हलन्त्यम्''', '''तस्य लोपः''' इत्याभ्यां जॄ, झॄ |</big>
<big>जॄ + श्यन् → जॄ + य → '''ॠत इद् धातोः''' इत्यनेन ॠदन्तस्य धातोः ह्रस्व-इकारादेशः → जि + य → '''उरण् रपरः''' (१.१.५१) इत्यनेन ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः → जिर् + य → य हलादिः अतः '''हलि च''' (८.२.७७) इत्यनेन हलि परे रेफान्तस्य धातोः उपधायां स्थितः इक्-वर्णः दीर्घः → जीर् + य → जीर्य इति अङ्गम् → जीर्य + ति → जीर्यति</big>
Line 656 ⟶ 699:
<big>जि + य ''' उरण् रपरः''' (१.१.५१)</big>
<big>
<big>
<big>जीर्य + ति → लटि जीर्यति</big>
<big>झॄ + श्यन् → '''ॠत इद् धातोः''' → झि + य → '''उरण् रपरः''' →
<big>'''ॠत इद् धातोः''' (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति (किति ङिति प्रत्यये परे) | अस्मिन् सूत्रे निमित्तं नोक्तं; यत्र यत्र अवसरः तत्र तत्र प्राप्तिः; कित्-ङित् भिन्नप्रत्ययः परश्चेत्, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन '''ॠतः''' इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम् | ऋतः षष्ठ्यन्तम्, इत् प्रथमान्तम्, धातोः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ॠतः धातोः अङ्गस्य इत्''' |</big>
Line 669 ⟶ 713:
<big>'''षष्ठी स्थानेयोगा''' (१.१.४९) = षष्ठीविभक्तेः अन्यार्थाभावे 'स्थाने' इत्यर्थो भवति | स्थानेन योगो यस्याः, बहुव्रीहिः | परिभाषासूत्रम् |</big>
<big>'''अलोऽन्त्यस्य''' (१.१.५२) = षष्ठीविभक्ति-द्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः, सः आदेशः अन्त्यस्य अल्-वर्णस्य स्थाने भवति | परिभाषासूत्रम् | अलः षष्ठ्यन्तम्, अन्त्यस्य षष्ठ्यन्तम्, द्विपदमिदं सूत्रम् | '''षष्ठी स्थानेयोगा''' (१.१.४९) इत्यस्मात् '''षष्ठी''', '''स्थाने''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''षष्ठ्या अन्त्यस्य अलः स्थाने''' (विद्यमानः आदेशः) |</big>
Line 674 ⟶ 719:
<big>'''येन विधिस्तदन्तस्य''' (१.१.७२) = विशेषणं तदन्तस्य अपि भवति, स्वस्यापि भवति | सोऽन्ते यस्य स तदन्तः, तस्य तदन्तस्य बहुव्रीहिः | परिभाषासूत्रम् | विधीयते इति विधिः | येन तृतीयान्तम्, विधिः प्रथमान्तम्, तदन्तस्य षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | '''स्वं रूपं शब्दस्याऽशब्दसंज्ञा''' (१.१.६८) इत्यस्मात् '''स्वम्''', '''रूपम्''' इत्यनयोः अनुवृत्तिः | विभक्तिपरिणामः इत्यनेन षष्ठ्यन्ते भवतः, '''स्वस्य रूपस्य''' | अनुवृत्ति-सहितसूत्रम्— '''येन विधिः तदन्तस्य स्वस्य रूपस्य''' (च) |</big>
<big>'''उरण् रपरः''' (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति | ऋकारेण त्रिंशत्-प्रकारकः ऋकारः भवति इति बोध्यम् | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्, अण् प्रथमान्तम्, रपरः प्रथमान्तम्, त्रिपदमिदं सूत्रम् | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात् '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''उः स्थाने अण् रपरः''' |</big>
Line 679 ⟶ 725:
<big>'''हलि च''' (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति हलि परे | हलि सप्तम्यन्तम्, च अव्ययपदम्, द्विपदमिदं सूत्रम् | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः; '''र्वोरुपधाया दीर्घ इकः''' (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः '''र्वोः''' इत्यनेन येषाम् धातूनाम् अन्ते रेफः वकारश्च, तेषामपि ग्रहणम् | अनुवृत्ति-सहितसूत्रम्— '''हलि च र्वोः धातोः उपधायाः इकः दीर्घः''' |</big>
Line 686 ⟶ 731:
<big>दिवादिगणे चत्वारः वकारान्तधातवः सन्ति— दिवुँ (दिव्), षिवुँ (सिव्), स्त्रिवुँ (स्त्रिव्), ष्ठिवुँ (ष्ठिव्) |</big>
<big>दिवुँ क्रीडा-विजिगीषा-व्यवहार-द्युति-स्तुति-मोदमद-स्वप्न-कान्ति-गतिषु (स्वीकरोति, क्रीडति, इच्छति, जेतुम् इच्छति, निद्राति, गच्छति, तेजस्वी भवति, प्रशंसां करोति, प्रसन्नो भवति, व्यवहारं करोति)</big>
Line 691 ⟶ 737:
<big>षिवुँ तन्तुसन्ताने (सीवनं करोति [sew], रोपयति)</big>
<big>
<big>ष्ठिवुँ निरसने (to spit)</big>
Line 697 ⟶ 743:
<big>'''हलि च''' (८.२.७७) इत्यनेन यः धातुः वकारान्तः, तस्य उपधायां स्थितः इक्-वर्णः दीर्घो भवति हलि परे | श्यन् इति विकरणप्रत्ययः हलादिः (यकारादिः) च अपित् च, अतः सूत्रस्य प्रसक्तिरस्ति | यदि श्यन् पित् अभविष्यत्, तर्हि '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः अभविष्यत् | गुणकार्याभावे, '''हलि च''' आगत्य कार्यं करोति |</big>
<big>दिव् + श्यन् → '''हलि च''' इत्यनेन वकारान्त-धातोः हलि परे, उपधायां स्थितः इक्-वर्णः दीर्घः → दीव् + य → दीव्य इति अङ्गम् → दीव्य + ति → दीव्यति</big>
Line 702 ⟶ 749:
<big>सिव् + श्यन् → '''हलि च,''' इक्-वर्णः दीर्घः → सीव् + य → सीव्य → सीव्य + ति → सीव्यति</big>
<big>
<big>ष्ठिव् + श्यन् → '''
<big>'''सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः''' इति वार्तिकं, '''धात्वादेः षः सः''' (६.१.६४) इत्यस्य निषेधकम् = नामधातूनां, ष्ठिवु, ष्वष्क अनयोः धात्वोः च षकारस्य स्थाने सकारादेशो न भवति | षोडीयते (नामधातुः) | षण्डीयते (नामधातुः) | ष्ठीवति | ष्वष्कते |</big>
Line 715 ⟶ 761:
<big>ञिमिदाँ स्नेहने (स्निग्धः भवति, to melt, dissolve) → '''आदिर्ञिटुडवः''' (१.३.५), '''उपदेशेऽजनुनासिक इत्''' (१.३.२), '''तस्य लोपः''' (१.३.९) इत्येभिः अनुबन्धलोपे मिद् इति धातुः |</big>
<big>'''मिदेर्गुणः''' (७.३.८२) = मिद्-धातोः गुणः भवति शिति प्रत्यये परे | मिदेः षष्ठ्यन्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम् | श्यन्-प्रत्ययस्य अपित्त्वात् '''क्क्ङिति च''' (१.१.५) इत्यनेन गुण-निषेधः, किन्तु '''मिदेर्गुणः''' (७.३.८२) तस्य अपवादभूतसूत्रम्; अनेन गुणः भवति | '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) इत्यस्मात् '''शिति''' इत्यस्य अनुवृत्तिः | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण '''इकः''' आयाति यत्र स्थानी नोक्तम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''मिदेः अङ्गस्य इकः गुणः शिति''' |</big>
Line 720 ⟶ 767:
<big>मिद् + श्यन् → '''मिदेर्गुणः''' (७.३.८२) इत्यनेन शिति परे गुणः → मेद् + य → मेद्य इति अङ्गम् → मेद्य + ति → मेद्यति</big>
Line 726 ⟶ 772:
<big>जनीँ प्रादुर्भावे (उत्पन्नो भवति,
<big>'''ज्ञाजनोर्जा''' (७.३.७९) = ज्ञा (क्र्यादिगणे), जन् (दिवादिगणे) चेत्यनयोः जा-आदेशो भवति शिति प्रत्यये परे | आदेशः अनेकाल् अतः '''अनेकाल्शित् सर्वस्य''' (१.१.५५) इत्यनेन आदेशः सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | ज्ञाश्च जन् च तयोरितरेतरद्वन्द्वः ज्ञाजनौ, तयोः ज्ञाजनोः | ज्ञाजनोः षष्ठ्यन्तं, जा लुप्तप्रथमाकं पदं, द्विपदमिदं सूत्रम् | '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) इत्यस्मात् '''शिति''' इत्यस्य अनुवृतिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ज्ञाजनोः अङ्गस्य जा शिति''' |</big>
Line 732 ⟶ 779:
<big>'''अनेकाल्शित् सर्वस्य''' (१.१.५५) = आदेशः अनेकाल् (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः) अथवा शित् चेत्, सर्वस्थानिनः स्थाने भवति, न तु अन्त्यवर्णस्य | यस्य स्थाने आदेशः आदिष्टः, सः स्थानी | इदं सूत्रम् '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः; अनेकः अल् यस्य सः अनेकाल् बहुब्रीहिः; शकारः इत् यस्य सः शित् बहुब्रीहिः; अनेकाल् च शित् च अनेकाल्शित् समाहारद्वन्द्वः | अनेकाल् प्रथमान्तं, शित् प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात् '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अनेकाल्शित् सर्वस्य स्थाने''' |</big>
<big>जन्-धातुः आत्मनेपदी—</big>
Line 737 ⟶ 785:
<big>जनीँ → अनुबन्धलोपे जन् → जन् + श्यन् → '''ज्ञाजनोर्जा''' इत्यनेन शिति परे जा-आदेशः → जा + य → जाय इति अङ्गम् → जाय + ते → जायते</big>
Line 744 ⟶ 791:
<big>चत्वारः धातवः सन्ति— दो, शो, छो, षो | दो अवखण्डने (विभागे भग्नं करोति); शो तनूकरणे (तीक्ष्णं करोति, कृशं करोति); छो छेदने (कर्तयति); षो अन्तकर्मणि (पूरयति, समापयति) |</big>
<big>'''ओतः श्यनि''' ( ७.३.७१) इत्यनेन धात्वङ्गान्तस्य ओकारस्य लोपो भवति श्यनि परे |</big>
Line 761 ⟶ 806:
<big>'''ओतः श्यनि''' ( ७.३.७१) = धात्वङ्गस्य ओकारस्य लोपो भवति श्यनि परे | '''अलोऽन्त्यस्य''' (१.१.५२) इति परिभाषा-सूत्रस्य साहाय्येन आदेशः अन्त्यस्य अल्-वर्णस्य स्थाने भवति— धात्वन्ते एव ओकारस्य लोपः | ओतः षष्ठ्यन्तम्, श्यनि सप्तम्यन्तम्, द्विपदमिदं सूत्रम् | '''घोर्लोपो लेटि वा''' (७.३.७०) इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''श्यनि ओतः अङ्गस्य लोपः''' |</big>
Line 768 ⟶ 812:
<big>'''शमामष्टानां दीर्घः श्यनि''' (७.३.७४) = शमादीनाम् अष्टानां धातूनां दीर्घत्वं श्यनि परे | दिवादिगणे कश्चन अन्तर्गणः अस्ति शमादिगणः नाम्ना, यस्मिन् अष्ट धातवः सन्ति | श्यनि परे एषां धातूनाम् उपधायां स्थितः अकारः दीर्घो भवति | '''अचश्च''' (१.२.२८) इत्यस्य साहाय्येन अचः एव दीर्घत्वम् | शमां षष्ठ्यन्तम्, अष्टानां षष्ठ्यन्तं, दीर्घः प्रथमान्तं, श्यनि सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | शमाम् इत्यस्य बहुवचनेन शमादिः इति अर्थग्रहणम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''शमाम् अष्टानाम् अङ्गानां अचः दीर्घः श्यनि''' |</big>
<big>'''अचश्च''' (१.२.२८) = यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र '''अचः''' इति षष्ठ्यन्तं पदम् आगत्य उपस्थितं भवति | परिभाषा-सूत्रम् | अचः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''ऊकालोऽज्झ्रस्वदीर्घप्लुतः''' (१.२.२७) इत्यस्मात् '''अच्''', '''ह्रस्वदीर्घप्लुतः''' इत्यनयोः अनुवृत्तिः | तत्र विभक्तिपरिणामेन तृतीयान्तं भवति, '''ह्रस्वदीर्घप्लुतैः''' ('''शब्दैः''') | अनुवृत्ति-सहितसूत्रम्— '''ह्रस्वदीर्घप्लुतैः अचः च अच्''' |</big>
Line 773 ⟶ 818:
<big>'''ऊकालोऽज्झ्रस्वदीर्घप्लुतः''' (१.२.२७) इति संज्ञासूत्रम् | अनेन 'उ' इत्यस्य नाम ह्रस्वः, 'ऊ' इत्यस्य नाम दीर्घः, 'ऊ३' इत्यस्य नाम प्लुतः | ततः अग्रिमं सूत्रम् '''अचश्च''' (१.२.२८) वक्ति यत् यत्र यत्र एतैः शब्दैः आदेशः इष्टः, तत्र तत्र अचः स्थाने एव अयम् आदेशो भवति |</big>
Line 792 ⟶ 835:
<big>मदीँ हर्षे (प्रसन्नः भवति) → मद् → मद् + श्यन् → '''शमामष्टानां दीर्घः श्यनि''' इत्यनेन दीर्घत्वम् → माद् + य → माद्य इति अङ्गम् → माद्य + ति → माद्यति</big>
Line 799 ⟶ 841:
<big>धातुपाठे, भ्वादिगणे दिवादिगणे च द्वौ धातू उभयत्र स्तः— ष्ठिवु, क्लमु च | उभयत्र च उपधायां स्थितस्य स्वरस्य दीर्घत्वं, किञ्च उभयत्र इदं दीर्घत्वं सिध्यति भिन्नसूत्राभ्यां यद्यपि भ्वादिगणे यत् विशिष्टं सूत्रम् उक्तं, '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५), तस्य प्रसक्तिर्भवितुम् अर्हति स्म दिवादावपि श्यन्-प्रत्ययस्य शित्त्वात् | अस्माकं वर्गे द्वे छात्रे 'इदं किमर्थम्' इति पृष्टवत्यौ | मया यदा इमं प्रश्नं मातरः पृष्टाः, तदा ताभिः विचिन्त्य उक्ताः यत्—</big>
<big>वस्तुतः धातुपाठे अनेके दोषाः |</big>
Line 806 ⟶ 849:
<big>अनेन सूत्रेण यदा भ्वादिगणे एव क्लमु-धातोः विकल्पेन श्यन् इति तु उक्तमेव, तदा दिवादिगणे तस्य धातोः पठनस्य न काऽपि आवश्यकता, न भवेदेव | भ्वादिगणे एव भवतु; दिवादिगणस्य '''शमामष्टानां दीर्घः श्यनि''' (७.३.७४) इति अन्तर्गणविधायकसूत्रात् अयं धातुः निष्कासनीयः | ''''शमां सप्तानां दीर्घः श्यनि'''<nowiki/>' इति भवतु | भ्वादिगणे एव '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) इत्यनेन एव 'क्लामति', 'क्लाम्यति' द्वयोरपि दैर्घ्यं भवतु |</big>
<big>'''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) = ष्ठिव्, क्लम्, चम् एषां धातुरूपि-अङ्गानाम् अचः दीर्घत्वं शिति प्रत्यये परे |</big>
Line 818 ⟶ 859:
<big>ततः अग्रे मातृभिः उक्तं, 'किन्तु मम पुस्तकम् अधुनैव मुद्रितम् | किमर्थम् इदं पूर्वमेव त्वया नोक्तम् ?' यदा मया पुनः उक्तं यत् अयं प्रश्नः द्वाभ्यां छात्राभ्यां पृष्टः, तदा ताः उक्तवत्यः, ते द्वे छात्रे अतीव बुद्धिमत्यौ !</big>
<big>इति दिवादिगणे समग्रं तिङ्-सम्बद्धं सार्वधातुकप्रकरण-चिन्तनं समाप्तम् |</big>
[https://static.miraheze.org/samskritavyakaranamwiki/
|