तदादि-तदन्त-ग्रहणाम्‌ - परिभाषा २३

From Samskrita Vyakaranam
< 05 - सार्वधातुकप्रकरणम्‌ (अदन्तम्‌ अङ्गम्‌)‎ | 08---tudAdigaNaH05---sArvadhAtukaprakaraNam-adantam-aGgam/08---tudAdigaNaH/tadAdi-tadanta-grahaNaM-paribhAShA-23
Jump to navigation Jump to search

ध्वनिमुद्रणम्‌ -

१) tadAdi-tadanta-grahaNaM_paribhAShA-#23_2017-02-08

अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इति सूत्रे अनुवृत्ति-सहितसूत्रम्‌— य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानां इयङुवङौ अचि | तत्र 'श्नुधातुभ्रुवाम्' इति भागः 'अङ्गानाम्‌' इत्यस्य विशेषणाम्‌ | अनेन श्नु इति भागः अङ्गस्य इत्यस्य विशेषणम्‌ | अत्र उच्यते यत्‌ प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन 'यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌' इत्यर्थः | न तु यत्‌ अङ्गं 'श्नु', तस्मात्‌ इति |


अत्र प्रश्नः उदेति, यतोहि श्नु इति भागः अङ्गस्य इत्यस्य विशेषणम्‌, अतः येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः किमर्थं न स्यात्‌ ? अत्र प्रत्ययग्रहणे तदन्ता ग्राह्याः इति परिभाषायाः का आवश्यकता ?

उच्यते | अत्र येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः यः वर्तते, स एव तदन्तविधिः प्रत्ययग्रहणे इति परिभाषायाम्‌ अनुवर्तते | तर्हि पुनः प्रश्नः— एवं रीत्या द्विवारं कथनस्य का आवश्यकता ?



वस्तुतस्तु द्विवारम्‌ इति नास्ति; अत्र 'श्नु' च 'अङ्ग' च अनयोः सम्बन्धपूरणार्थम्‌ इयं परिभाषा अपेक्षते | सम्पूर्णपरिभाषा एवं— प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्‌ (परिभाषा #२३) | अस्यां च परिभाषायां द्वयोः सूत्रयोः 'योगविभागः' कृतः | अस्य कथनस्य आशयः एवं— चिन्तयतु द्वे सूत्रे स्तः | प्रत्येकं सूत्रं भागद्वये विभज्य, प्रत्येकस्मात्‌ कंश्चन अंशं स्वीकृत्य, अनयोः द्वयोः अंशयोः योगं कृत्वा नूतना परिभाषा यदा निर्मीयते, तदा अयं योगविभागः इत्युच्यते |



अत्र यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌ (१.४.१३) इति सूत्रे 'अङ्गम्' इति भागं निष्कास्य 'यस्मात्प्रत्ययविधिस्तदादि प्रत्यये' इति भागः स्वीक्रियते | पुनः येन विधिस्तदन्तस्य (१.१.७२) इति सूत्रे 'तदन्तस्य' इति भागः स्वीक्रियते | द्वयोः अंशयोः ('यस्मात्प्रत्ययविधिस्तदादि प्रत्यये', 'तदन्तस्य' इत्यनयोः) संयोजनेन परिभाषा निर्मिता; अयं च 'योगविभागः' |



तदानीं किं भवति, यस्मात्‌ प्रत्ययः विधीयते, 'तदादि' इति उपतिष्ठते 'प्रत्यये गृह्यमाणे' | अर्थात्‌ यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌ (१.४.१३) इति सूत्रम्‌ अस्माभिः पूर्वमेव पठितं, तेन या अङ्ग-संज्ञा विधीयते सा च अस्य सूत्रस्य एकं प्रयोजनम्‌, एकः अर्थः | अपरः अर्थः जन्यते यदा 'अङ्गम्‌' इति भागः पृथक्क्रियते | तदानीं सूत्रं भवति 'यस्मात्प्रत्ययविधिस्तदादि प्रत्यये' इति | सूत्रस्य प्रथमे अर्थे, अङ्ग-संज्ञा विधीयमाने अर्थे, 'प्रत्यये' इत्यनेन 'प्रत्यये परे' इत्यर्थः; अधुना 'प्रत्यये गृह्यमाणे' इत्यर्थः | अस्मिन्‌ नूतने अर्थे 'यस्मात्प्रत्ययविधिस्तदादि प्रत्यये', 'तदन्तस्य' इत्यनयोः संयोजनेन नवीना सम्मिलिता, समाहृता ['assembled'] परिभाषा | तदादिविधिः एकस्मात्‌ सूत्रात्‌ आनीयते; तदन्तविधिः अन्यस्मात्‌ आनीयते | मिलित्वा परिभाषा इत्युच्यते |


'यस्मात्प्रत्ययविधिस्तदादि प्रत्यये' इत्यनेन तदादिविधिः | अङ्गसंज्ञा-विधायकसूत्रात्‌ 'यस्मात्प्रत्ययविधिस्तदादि प्रत्यये' इति भागं पृथक्कृत्य, अर्थं विपरणमय्य, 'प्रत्यये' इत्यस्य सप्तमीविभक्तिम्‌ आश्रित्य 'प्रत्यये गृह्यमाणे सति' इत्यर्थम्‌ उक्त्वा, ततः परं 'तदादि' इति अंशः साध्यते |


अपि च व्याकरणशास्त्रे तदन्तविधिः यत्र यत्र आश्रीयते, यत्र यत्र उपयुज्यते, तत्र सर्वत्रापि येन विधिस्तदन्तस्य (१.१.७२) इति सूत्रबोधित-तदन्तविधिरेव सः | अतः प्रत्ययग्रहण-परिभाषायां विद्यमान-तदन्तविधिरपि येन विधिस्तदन्तस्य (१.१.७२) इति सूत्रबोधित-तदन्तविधिरेव | अतः सः परिभाषायां विद्यमान-तदन्तविधिः अन्यः न, अपि तु येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य एव |


अस्य च सर्वस्य श्रवणेन स्वाभाविकप्रश्नः उदेति, "किन्तु अस्माकम्‌ 'अचि श्नुधातु...' इति स्थितौ तु तदादि इति प्रसङ्गो नास्ति किल ? अत्र 'श्नु + अङ्गम्‌' इत्यनेन श्नुप्रत्ययान्तम्‌ अङ्गम्‌ इत्येव अर्थः साधनीयः" |


अस्य प्रश्नस्य च उत्तरदानावसरे अस्माकं सर्वचर्चायाः मूलबीजम्‌ | यतोहि अत्रापि तदादि इति अपेक्षितम्‌ एव | नो चेत्‌ श्नुप्रत्ययः अन्ते अस्ति, प्रत्ययग्रहणे केवलं तदन्तस्य ग्रहणं स्वीकुर्मः चेत्‌, 'देवदत्तः फलं प्राप्नुवन्‌ पठति' इति वाक्ये, 'देवदत्तः फलं प्राप्नु' इति समुदाये प्रत्ययः अन्ते अस्ति | 'देवदत्तः फलं प्राप्नु' इति श्नुप्रत्ययान्त-पर्यन्त-भागे श्नु-प्रत्ययः अन्ते अस्ति इति कृत्वा 'देवदत्तः फलं प्राप्नु' इत्येव अङ्गम्‌ | यतोहि 'देवदत्तः फलं प्राप्नु' इत्यपि श्नु-प्रत्ययान्तम्‌ | तस्य अङ्गसंज्ञा-वारणार्थं 'यस्मात्‌ विहितः' इत्युक्ते 'देवदत्तः फलं प्राप्‌' इति समुदायात्‌ न अपि तु आप्‌-धातुतः एव श्नुप्रत्ययः विहितः | 'तदादि' इत्यस्य ग्रहणेन 'आप्नु' इत्यस्य एव अङ्गत्वं न तु 'देवदत्तः फलं प्राप्नु' इत्यस्य | तदादिविधेः प्रयोजनम्‌ इदम्‌ |


आप्‌-धातोरेव अयं श्नु-प्रत्ययः विहितः | अपि च सुबन्तस्य 'प्राप्नुवन्‌' इति यथा, तिङन्तस्य 'प्राप्नुवन्ति' इत्यस्यापि तथैव | देवदत्ताः फलानि प्राप्नुवन्ति | आहत्य प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्‌ इत्यनेन यस्मात्‌ प्रत्ययः विहितः तस्मादेव प्रत्ययान्तस्य ग्रहणम्‌ | एवं च आप्‌-धातोः श्नु-प्रत्ययः कृतश्चेत्‌ 'आप्नु' इत्येव गृह्यते, तस्य एव उकारस्य स्थाने उवङ्‌-आदेशः विधीयते, न तु 'देवदत्तः फलं प्राप्नु' इत्यस्य | यतोहि 'यस्मात्‌ श्नु-प्रत्ययः विहितः' इत्यस्य कथनेन 'आप्‌' इत्यस्मात्‌ विहितः; 'यस्मात्‌ विहितः तदादिः' अतः आप्‌ इत्यस्मात्‌ आरभ्य इति भागः गृह्यते 'श्नुधातुभ्रुवाम् अङ्गानाम्‌' इत्यनेन, श्नु अङ्गस्य इत्यनेन | न तु देवदत्तः इत्यस्मात्‌ आरभ्य | अतः आप्‌ इत्येतदाद्यवयवक, श्नु-प्रत्ययान्तावयवक-समुदायः ग्राह्यः, इति अर्थः | नाम आप्नु इति समुदाये आप्‌ इति आद्यवयवः, नु इति अन्तावयवः, आप्नु इति समुदायः; आप्‌ इत्येतदाद्यवयवक, नु इत्येतदन्तावयवक-समुदायः | तस्य च अजादि-प्रत्यये परे उवङ्‌-आदेशः |


आहत्य 'प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्‌' इति परिभाषा यत्र यत्र प्रवर्तते, तत्र सर्वत्रापि तदादिविधिः अपेक्षते | अधुना यत्र यत्र येन विधिस्तदन्तस्य (१.१.७२) प्रवर्तते, तत्र सर्वत्र 'प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्‌' इति परिभाषा अपि प्रवर्तते इति नास्ति | केवलं यत्र प्रत्ययविधिः भवति, तत्र | तत्र सर्वत्र तदादिविधिः अपेक्षते | किन्तु येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य यः तदन्तविधिः, सः सर्वदा प्रत्ययविधौ एव इति नास्ति; प्रत्ययभिन्ने अपि भवति बहुत्र | यत्र केवलं वर्णस्य अथवा वर्णसमुदायस्य वार्ता न तु प्रत्ययस्य, तत्र तदादिविधिः न अपेक्षते |


Swarup – February 2017

tadAdi-tadanta-grahaNaM paribhAShA 23.pdf (37k) Swarup Bhai, Feb 8, 2017, 10:40 PM




–––––––––––––––––––––––––––


धेयम्‌ -- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [click here] and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.