06A---sArvadhAtukaprakaraNaM-kRutsu/04--bhvAdigaNe-shatrantaprAtipadikanirmANam: Difference between revisions

m
Protected "04 - भ्वादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)
 
m (Protected "04 - भ्वादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(9 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE: 04 - भ्वादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌}}
<please replace this with content from corresponding Google Sites page>
{| class="wikitable mw-collapsible mw-collapsed"
!<big>'''ध्वनिमुद्रणानि'''</big>
|-
|<big>'''2019 वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/184_bhvAdigaNe-divAdigaNe-ca-shatrantaprAtipadikanirmANam_2019-12-11.mp3 bhvAdigaNe-divAdigaNe-ca-shatrantaprAtipadikanirmANam_2019-12-11]</big>
|-
|<big>'''2014 वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/20_bhvAdigaNe--shatranta-prAtipadika-nirmANam_2014-10-15.mp3 bhvAdigaNe--shatranta-prAtipadika-nirmANam_2014-10]</big><big>[https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/20_bhvAdigaNe--shatranta-prAtipadika-nirmANam_2014-10-15.mp3 -15]</big>
|-
|<big>२) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/21_bhvAdigaNe-visheShadhAtUnAM__divAdInAM_shatranta-prAtipadika-nirmANam_2014-10-22.mp3 bhvAdigaNe-visheShadhAtUnAM_+_divAdInAM_shatranta-prAtipadika-nirmANam_2014-10-22]</big>
|}
 
 
 
<big><u>शत्रन्तप्रातिपदिकस्य निर्माण-प्रक्रिया</u></big>
 
 
<big>शत्रन्तप्रातिपदिकस्य निर्माणार्थं द्वे सोपाने स्तः—</big>
 
<big>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌</big>
 
<big>२. शतृप्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-शतृप्रत्यययोः मेलनम्‌</big>
 
 
<big>मनसि धेयम्‌— सर्वत्र शतृ-प्रत्ययस्य प्रभावेन एव प्रथमसोपानं (शपः विधानम्‌) भवति | अतः वस्तुतः क्रमः एवम्‌ अस्ति—</big>
 
<big>वद्‌ + लट्‌ → शतृ-विवक्षायाम्‌ → वद्‌ + शतृ → '''तिङ्‌शित्सार्वधातुकम्‌''', '''कर्तरि शप्‌''' → वद्‌ + शप्‌ + शतृ‍ | नाम आरम्भतः एव शतृ-प्रत्ययः उपस्थितः; परन्तु द्वितीयसोपाने एव शतृप्रत्यय-निमित्तकम्‌ अङ्गकार्यम्‌, अतः अग्रे गत्वा सौकर्यार्थं तत्रैव शतृ-प्रत्ययः प्रदर्श्यते |</big>
 
 
<big>प्रथमे धातुगणसमूहे (भ्वादौ, दिवादौ, तुदादौ, चुरादौ) धातु-विकरणप्रत्यययोः मेलनेन यत्‌ अङ्गं निष्पन्नं तत्‌ सदा अदन्तम्‌, अतः शतृप्रत्ययं निमित्तीकृत्य किमपि कार्यं नास्ति | अस्य धातुगणसमूहस्य शन्त्रन्तरूपाणि प्रथमम्‌ अवलोकनीयानि | तदा द्वितीयधातुगणसमूहस्य वीक्षामहे, यत्र शतृप्रत्ययं निमित्तीकृत्य अङ्गकार्यम्‌ अर्हम्‌ |</big>
 
 
<big>'''<u>भ्वादिगणः</u>''' (997 धातवः)</big>
 
<big>1. <u>सामान्यधातवः</u></big>
 
<big>a. येषु धातुषु शपं निमित्तीकृत्य किमपि अङ्गकार्यं नास्ति— केवलं संयोजनम्‌ (754 धातवः)</big>
 
 
<big>- इमे सर्वे धातवः न इगन्ताः न वा इगुपधाः अतः किमपि गुणगार्यं नास्ति |</big>
 
<big>- एषु धातुषु अदुपधधातवः (वद्‌ इव) 237 सन्ति |</big>
 
 
<big>वद्‌ + शप्‌ → वद → वद + शतृ → वद + अत्‌ → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → वदत्‌</big>
 
<big>मील्‌ + शप्‌ → मील → मील + शतृ → मील + अत्‌ → '''अतो गुणे''' → मीलत्‌</big>
 
<big>मूष्‌ + शप्‌ → मूष → मूष + शतृ → मूष + अत्‌ → '''अतो गुणे''' → मूषत्‌</big>
 
<big>ओख्‌ + शप्‌ → ओख → ओख + शतृ → ओख + अत्‌ → '''अतो गुणे''' → ओखत्‌</big>
 
<big>अगि → '''इदितो नुम्‌ धातोः''' (७.१.५८) → अन्ग्‌ → अङ्ग् → अङ्ग् + शप्‌ → अङ्ग + शतृ → अङ्ग + अत्‌ → '''अतो गुणे''' → अङ्गत्‌</big>
 
<big>कुञ्च्‌ + शप्‌ → कुञ्च → कुञ्च + शतृ → कुञ्च + अत्‌ → '''अतो गुणे''' → कुञ्चत्‌</big>
 
<big>अर्च्‌ + शप्‌ → अर्च → अर्च + शतृ → अर्च + अत्‌ → '''अतो गुणे''' → अर्चत्‌</big>
 
<big>मेध्‌ + शप्‌ → मेध → मेध + शतृ → मेध + अत्‌ → '''अतो गुणे''' → मेधत्‌</big>
 
<big>वेल्ल्‌ + शप्‌ → वेल्ल → वेल्ल + शतृ → वेल्ल + अत्‌ → '''अतो गुणे''' → वेल्लत्‌</big>
 
<big>धाव्‌ + शप्‌ → धाव → धाव + शतृ → धाव + अत्‌ → '''अतो गुणे''' → धावत्‌</big>
 
 
<big>b. इगन्तधातवः (39 धातवः)</big>
 
<big>इक् इति प्रत्याहारः | इ, ई, उ, ऊ, ऋ, ॠ येषां धातूनाम्‌ अन्ते, ते इगन्तधातवः | भ्वादिगणीय-इगन्तधातूनां कृते कार्यं सर्वत्र समानम्‌ |</big>
 
 
<big>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌</big>
 
 
<big>सर्वेषाम्‌ इगन्तधातूनां गुणकार्यम्‌—</big>
 
<big>जि + शप्‌ → '''सार्वधातुकार्धधातुकयोः''' → जे + अ</big>
 
<big>भू + शप्‌ → '''सार्वधातुकार्धधातुकयोः''' → भो + अ</big>
 
<big>हृ + शप्‌ → '''सार्वधातुकार्धधातुकयोः''' → हर्‌ + अ</big>
 
 
<big>धात्वन्ते इ, ई, उ, ऊ चेत्‌, तदा यान्तवान्तसन्धिः—</big>
 
<big>जे + अ → '''एचोऽयवायावः''' इत्यनेन अय्‌-आदेशः → ज्‌ + अय्‌ + अ → जय</big>
 
<big>भो + अ → '''एचोऽयवायावः''' इत्यनेन अव्‌-आदेशः → भ्‌ + अव्‌ + अ → भव</big>
 
<big>ऋकारान्तः चेत्‌, केवलं वर्णमेलनम्—</big>
 
<big>हर्‌ + अ → हर</big>
 
 
<big>'''सार्वधातुकार्धधातुकयोः''' (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्‌, एकपदमिदं सूत्रम्‌ | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इकः''' स्थानी भवति यत्र स्थानी नोक्तम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन ''''इकः अङ्गस्य'''<nowiki/>' इत्युक्ते न केवलम्‌ इक्‌ इति अङ्गं, किन्तु तादृशम्‌ अङ्गं यस्य अन्ते इक्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्‌— '''इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः''' |</big>
 
 
<big>'''एचोऽयवायावः''' (६.१.७७) = एचः (ए, ओ, ऐ, औ इत्येषां) स्थाने क्रमेण अय्‌, अव्‌, आय्‌, आव्‌ इत्यादेशाः भवन्ति अचि परे | क्रमेण इत्युक्तं '''यथासंख्यमनुदेशः समानाम्‌''' (१.३.१०) इति परिभाषा सूत्रस्य साहाय्येन | अय्‌ च, अव्‌ च, आय्‌ च, आव्‌ च, तेषाम्‌ इतरेतरद्वन्द्वः, अयवायावः | एचः षष्ठ्यन्तम्‌, अयवायावः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''इको यणचि''' (६.१.७६) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः; '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''एचः अयवायावः अचि संहितायाम्'''‌ |</big>
 
 
<big>२. शतृप्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-शतृप्रत्यययोः मेलनम्‌</big>
 
 
<big>भ्वादिगणे अङ्गं सदा अदन्तम्‌, अतः अङ्गकार्यं नास्ति | केवलम्‌ '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः |</big>
 
 
<big>जि + शप्‌ → जय → जय + शतृ‌ → जय + अत्‌ → '''अतो गुणे''' → जयत्‌</big>
 
<big>नी + शप्‌ → नय → नय + शतृ‌ → नय + अत्‌ → '''अतो गुणे''' → नयत्‌</big>
 
<big>द्रु + शप्‌ → द्रव → द्रव + शतृ‌ → द्रव + अत्‌ → '''अतो गुणे''' → द्रवत्‌</big>
 
<big>भू + शप्‌ → भव → भव + शतृ‌ → भव + अत्‌ → '''अतो गुणे''' → भवत्‌</big>
 
<big>हृ + शप्‌ → हर → हर + शतृ‌ → हर + अत्‌ → '''अतो गुणे''' → हरत्‌</big>
 
 
<big>c. एजन्तधातवः (31 धातवः)</big>
 
<big>एते धातवः इगन्ताः न सन्ति अतः गुणस्य प्रसङ्गः न भवति | केवलं '''एचोऽयवायावः''' इत्यनेन यान्तवान्तसन्धिः |</big>
 
 
<big>धे + शप्‌ → धे + अ → '''एचोऽयवायावः''' → ध्‌ + अय्‌ + अ → धय → धय + अत्‌ → धयत्‌</big>
 
<big>गै + शप्‌ → गै + अ → '''एचोऽयवायावः''' → ग्‌ + आय्‌ + अ → गाय → गाय + अत्‌ → गायत्‌</big>
 
<big>धौ‌ + शप्‌ → धौ + अ → '''एचोऽयवायावः''' → ध्‌ + आव्‌ + अ → धाव → धाव + अत्‌ → धावत्‌</big>
 
 
<big>d. लघु-इगुपधधातवः (127 धातवः)</big>
 
<big>उपधा नाम अन्तिमवर्णात्‌ प्राक्‌ यः वर्णः, सः | यस्य धातोः उपधायां लघु इक्‌ (इ, उ, ऋ) अस्ति, सः लघु-इगुपधधातुः | भ्वादिगणीय-इगुपधधातूनां कृते कार्यं सर्वत्र समानम्‌ |</big>
 
 
<big>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌</big>
 
 
<big>चित्‌ + शप्‌ → '''पुगन्तलघूपधस्य च''' → चेत्‌ + अ → चेत</big>
 
<big>घुष्‌ + शप्‌ → '''पुगन्तलघूपधस्य च''' → घोष्‌ + अ → घोष</big>
 
<big>वृष्‌ + शप्‌ → '''पुगन्तलघूपधस्य च''' → वर्ष्‌ + अ → वर्ष</big>
 
 
<big>२. शतृप्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-शतृप्रत्यययोः मेलनम्‌</big>
 
 
<big>भ्वादिगणे अङ्गं सदा अदन्तम्‌, अतः अङ्गकार्यं नास्ति | केवलं '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः |</big>
 
 
<big>चित्‌ + शप्‌ → चेत → चेत + शतृ‌ → चेत + अत्‌ → '''अतो गुणे''' → चेतत्‌</big>
 
<big>घुष्‌ + शप्‌ → घोष → चेत + शतृ‌ → घोष + अत्‌ → '''अतो गुणे''' → घोषत्‌</big>
 
<big>वृष्‌ + शप्‌ → वर्ष → वर्ष + शतृ‌ → वर्ष + अत्‌ → '''अतो गुणे''' → वर्षत्‌</big>
 
 
<big>'''पुगन्तलघूपधस्य च''' (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक्‌ अन्ते यस्य तत्‌ पुगन्तम्‌, लघ्वी उपधा यस्य तत्‌ लघूपधम्‌ | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्‌, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः; '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इकः''' स्थानी भवति यत्र स्थानी नोक्तम्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |</big>
 
 
<big>2. विशेषधातवः (46 धातवः)</big>
 
 
<big>भ्वादिगणे केचन धातवः सन्ति येषां विकारः भवति शिति प्रत्यये परे | ते अधः सूचिताः | अयं विकारः धात्वादेशः इत्युच्यते |</big>
 
 
<big>a. गम्‌, यम्‌ धात्वोः छकारादेशः</big>
 
 
<big>'''इषुगमियमां छः''' (७.३.७७) = इष्‌, गम्‌, यम्‌ एषां छकारादेशः भवति शिति परे | '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन छ्‌-आदेशः अन्तिमवर्णस्य स्थाने न तु पूर्णधातोः स्थाने | इषुश्च गमिश्च यम्‌ च तेषामितरेतरद्वन्द्वः इषुगमियमः, तेषाम्‌ इषुगमियमाम्‌ | इषुगमियमां षष्ठ्यन्तं, छः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) इत्यस्मात्‌ '''शिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इषुगमियमाम्‌ अङ्गस्य छः शिति''' |</big>
 
 
<big>गम्‌ → गच्छ्‌ → गच्छति | यम्‌ → यच्छ्‌ → यच्छति | केवलं शिति परे इति धेयम्‌ | अतः गच्छति परन्तु गमिष्यति, यच्छति परन्तु यमिष्यति इति | इष्‌-धातुः (इच्छति) तुदादिगणे वर्तते अतः तस्य सूचना अत्र न दीयते |</big>
 
 
<big>गम्‌ + शप्‌ → '''इषुगमियमां छः''', '''अलोन्त्यस्य''' इत्याभ्यं म्‌-स्थाने छ्‌ → गछ्‌ + अ → '''छे च''' (६.१.७३) इत्यनेन छकारे परे संहितायां विषये ह्रस्वस्य स्वरस्य तुक्‌-आगमो भवति | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन गकारोत्तरवर्ती-अकारस्य अनन्तरं (न तु पूर्वम्‌) | गछ्‌ + अ → गत्‌छ्‌ + अ → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन सकारस्य तवर्गीयस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | गछ्‌ → गत्‌छ्‌ → गच्छ्‌ + अ → गच्छ |</big>
 
 
<big>गच्छ्‌ + शप्‌ → गच्छ → गच्छ + अत्‌ → '''अतो गुणे''' → गच्छत्‌</big>
 
<big>यच्छ्‌ + शप्‌ → यच्छ → यच्छ + अत्‌ → '''अतो गुणे''' → यच्छत्‌</big>
 
 
<big>b. पा-आदिधातूनां धात्वादेशः</big>
 
 
<big>'''पा'''-'''घ्रा'''-'''ध्मा'''-'''स्था'''-'''म्ना'''-'''दाण्‌'''-'''दृशि'''-'''अर्ति'''-'''सर्ति'''-'''शद'''-'''सदां, पिब'''-'''जिघ्र'''-'''धम'''-'''तिष्ठ'''-'''मन'''-'''यच्छ'''-'''पश्य'''-'''ऋच्छ'''-'''धौ'''-'''शीय'''-'''सीदाः''' (७.३.७८) = पा घ्रा ध्मा इत्यादीनां स्थाने पिब, जिघ्र, धम एते आदेशाः भवन्ति शिति परे | केवलं शिति परे इति धेयम्‌ | अतः पिबति परन्तु पास्यति इति | पाश्च घ्राश्च ध्माश्च ... सद्‌ च तेषामितरेतरद्वन्द्वः पा-घ्रा-ध्मा-स्था-म्ना-दाण्‌-दृशि-अर्ति-सर्ति-शद-सदः, तेषां पा-घ्रा-ध्मा-स्था-स्ना-दाण्‌-दृशि-अर्ति-सर्ति-शद-सदाम्‌ | पिबश्च जिघ्रश्च धमश्च … सीदश्च तेषामितरेतरद्वन्द्वः पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः | पा-घ्रा-ध्मा-स्था-म्ना-दाण्‌-दृशि-अर्ति-सर्ति-शद-सदाम्‌ षष्ठ्यन्तं, पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) इत्यस्मात्‌ '''शिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''पा'''-'''घ्रा'''-'''ध्मा'''-'''स्था'''-'''म्ना'''-'''दाण्‌'''-'''दृशि'''-'''अर्ति'''-'''सर्ति'''-'''शद'''-'''सदां अङ्गस्य''' '''पिब'''-'''जिघ्र'''-'''धम'''-'''तिष्ठ'''-'''मन'''-'''यच्छ'''-'''पश्य'''-'''ऋच्छ'''-'''धौ'''-'''शीय'''-'''सीदाः शिति''' |</big>
 
 
<big>पा + शप्‌ → पिब + अ → '''अतो गुणे''' → पिब → पिब + अत्‌ → '''अतो गुणे''' → पिबत्‌</big>
 
<big>घ्रा + शप्‌ → जिघ्र + अ → '''अतो गुणे''' → जिघ्र → जिघ्र + अत्‌ → '''अतो गुणे''' → जिघ्रत्‌</big>
 
<big>ध्मा + शप्‌ → धम + अ → '''अतो गुणे''' → धम → धम + अत्‌ → '''अतो गुणे''' → धमत्‌</big>
 
<big>स्था + शप्‌ → तिष्ठ + अ → '''अतो गुणे''' → तिष्ठ → तिष्ठ + अत्‌ → '''अतो गुणे''' → तिष्ठत्‌</big>
 
<big>म्ना + शप्‌ → मन + अ → '''अतो गुणे''' → मन → मन + अत्‌ → '''अतो गुणे''' → मनत्‌</big>
 
<big>दाण्‌ + शप्‌ → यच्छ + अ → '''अतो गुणे''' → यच्छ → यच्छ + अत्‌ → '''अतो गुणे''' → यच्छत्‌</big>
 
<big>दृश्‌ + शप्‌ → पश्य + अ → '''अतो गुणे''' → पश्य → पश्य + अत्‌ → '''अतो गुणे''' → पश्यत्‌</big>
 
<big>ऋ + शप्‌ → ऋच्छ + अ → '''अतो गुणे''' → ऋच्छ → ऋच्छ + अत्‌ → '''अतो गुणे''' → ऋच्छत्‌</big>
 
<big>सृ + शप्‌ → धौ + अ → धाव → धाव + अत्‌ → '''अतो गुणे''' → धावत्‌</big>
 
<big>शद्‌ + शप्‌ → शीय + अ → '''अतो गुणे''' → शीय → शीय + शानच्‌ → शीय + आन → '''आने मुक्‌''' (७.२.८२) इत्यनेन आने परे अदन्ताङ्गस्य मुक्‌-आगमः → शीय + मान → शीयमान |</big>
 
<big>सद्‌ + शप्‌ → सीद + अ → '''अतो गुणे''' → सीद → सीद + अत्‌ → '''अतो गुणे''' → सीदत्‌</big>
 
 
<big>धेयं यत्‌ सृ-धातोः स्थाने धौ-आदेशः भवति तदा यदा 'to run' इत्यर्थे अस्ति, न तु 'to go, to flow' इत्यर्थे |</big>
 
 
<big>c. दंश्‌, सञ्ज्‌, स्वञ्ज्‌, रञ्ज्‌ इत्येषां न-लोपः—</big>
 
 
<big>'''दंशसञ्जस्वञ्जां शपि''' (६.४.२५) = दंश्‌, सञ्ज्‌, स्वञ्ज्‌, एतेषां नकारस्य लोपः भवति शपि परे |</big>
 
<big>उदा--</big>
 
<big>दंश्‌ + शप्‌ → दश → दश + अत्‌ → '''अतो गुणे''' → दशत्‌</big>
 
<big>सञ्ज्‌ + शप्‌ → सज → सज + अत्‌ → '''अतो गुणे''' → सजत्‌</big>
 
<big>स्वञ्ज्‌ आत्मनेपदिधातुः अतः तस्य शानच्‌ भवति |</big>
 
 
<big>'''रञ्जेश्च''' (६.४.२६) = रञ्ज्‌-धातोः अपि नकारस्य लोपः भवति शपि परे |</big>
 
<big>रञ्ज्‌ + शप्‌ → रज → रज + अत्‌ → '''अतो गुणे''' → रजत्‌</big>
 
 
<big>भ्वादिगणे केषाञ्चित्‌ धातूनां विकरणप्रत्यय-विकल्पः— कुत्रचित्‌ विकल्पेन श (तुदादिः), कुत्रचित्‌ विकल्पेन श्नु (स्वादिः), कुत्रचित्‌ विकल्पेन उ (तनादिः), कुत्रचित्‌ द्वित्वं (सनन्तः इव), कुत्रचित्‌ अय (चुरादिः इव), कुत्रचित्‌ विकल्पेन श्यन् (दिवादिः) | सूत्राणि दीक्षितपुष्पायाः धातुपाठपुस्तके pp. १५ -१८ |</big>
 
 
<big>इति भ्वादिगणे समग्रं शत्रन्तप्रातिपदिकचिन्तनं समाप्तम्‌ |</big>
 
 
<big>Swarup – Oct 2014</big>
 
<big>---------------------------------</big>
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/e/e9/%E0%A5%A6%E0%A5%AA_-_%E0%A4%AD%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%B6%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%A6%E0%A4%BF%E0%A4%95%E0%A4%A8%E0%A4%BF%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D_.pdf ०४ - भ्वादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌.pdf (59k)]</big>