page_and_link_managers, Administrators
5,097
edits
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती) |
No edit summary |
||
(11 intermediate revisions by 4 users not shown) | |||
Line 1:
{{DISPLAYTITLE: 05 - दिवादिगणे शत्रन्तप्रातिपदिकनिर्माणम्}}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि</big>
|-
|<big>'''2019 वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/184_bhvAdigaNe-divAdigaNe-ca-shatrantaprAtipadikanirmANam_2019-12-11.mp3 bhvAdigaNe-divAdigaNe-ca-shatrantaprAtipadikanirmANam_2019-12-11]</big>
|-
|<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/185_divAdigaNe-shatrantaprAtipadika-nirmANam---visheShadhAtavaH_2019-12-17.mp3 divAdigaNe-shatrantaprAtipadika-nirmANam---visheShadhAtavaH_2019-12-17] </big>
|-
|<big>'''2014 वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/21_bhvAdigaNe-visheShadhAtUnAM__divAdInAM_shatranta-prAtipadika-nirmANam_2014-10-22.mp3 bhvAdigaNe-visheShadhAtUnAM_+_divAdInAM_shatranta-prAtipadika-nirmANam_2014-10-22]</big> <big>[दिवादिगणस्य विषयः 46:00 - end 1:01:41]</big>
|-
|२) <big>[https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/22_divAdigaNe_sAmAnya-shatranta-prAtipadika-nirmANam_2014-10-29.mp3 divAdigaNe_sAmAnya-shatranta-prAtipadika-nirmANam_2014-10-29]</big>
|-
|३) <big>[https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/23_divAdigaNe_visheSha-shatranta-prAtipadika-nirmANam_aniditaH-dhAtavaH_2014-11-05.mp3 divAdigaNe_visheSha-shatranta-prAtipadika-nirmANam_aniditaH-dhAtavaH_2014-11-05]</big>
|-
|४) <big>[https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/24_divAdigaNe_visheSha-shatranta-prAtipadika-nirmANam_samprasAriNaH-dhAtavaH_2014-11-12.mp3 divAdigaNe_visheSha-shatranta-prAtipadika-nirmANam_samprasAriNaH-dhAtavaH_2014-11-12]</big>
|-
|५) <big>[https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/25_divAdigaNe_visheSha-shatranta-prAtipadika-nirmANam_dIrgha-RukArAnta-dhAtavaH_2014-11-19.mp3 divAdigaNe_visheSha-shatranta-prAtipadika-nirmANam_dIrgha-RukArAnta-dhAtavaH_2014-11-19]</big>
|}
<big> </big><font size="4" face="Lohit Devanagari"><span lang="hi-IN"></span></font>
<big>शत्रन्तप्रातिपदिकस्य निर्माणार्थं द्वे सोपाने स्तः—</big>
<big>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्</big>
<big>२. शतृप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-शतृप्रत्यययोः मेलनम्</big>
<big>शतृ-प्रत्ययः शित् इति कारणतः '''तिङ्शित्सार्वधातुकम्''' (३.४.११३) इति सूत्रेण सार्वधातुकप्रत्ययः | शतृ-प्रत्ययः नित्यं कर्त्रर्थे च | दिवादिगणे, कर्त्रर्थे सार्वधातुकप्रत्यये परे धातुभ्यः श्यन् विकरणप्रत्ययः विहितः अस्ति | वस्तुतः प्रथमं '''कर्तरि शप्''' (३.१.६८) इत्यनेन शप् विहितः, तदा '''कर्तरि शप्''' इति सूत्रं प्रबाध्य '''दिवादिभ्यः श्यन्''' (३.१.६९) आगत्य कार्यं करोति | किमर्थम् ? अस्यां दशायां '''दिवादिभ्यः श्यन्''' स्वस्य कार्यं न करोति चेत् इदं सूत्रं निरवकाशं भविष्यति | '''कर्तरि शप्''' इत्यस्य अन्यत्रलब्धावकाशः अस्ति | अतः '''दिवादिभ्यः श्यन्''', '''कर्तरि शप्''' इत्यस्य अपवादभूतसूत्रम् | '''पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः''' इति परिभाषया यत् सूत्रं अपवादः अस्ति, तत् अपरस्य अपेक्षया बलवत् | अतः अत्र '''दिवादिभ्यः श्यन्''' इति सूत्रस्य कार्यं सिध्यति |</big>
<big>'''दिवादिभ्यः श्यन्''' (३.१.६९) = कर्त्रर्थे सार्वधातुकप्रत्ययः परे अस्ति चेत्, दिवादिगणे स्थितेभ्यः धातुभ्यः श्यन्-प्रत्ययः भवति | दिव् आदिर्येषां ते, दिवादयः बहुव्रीहिसमासः, तेभ्यः दिवादिभ्यः | दिवादिभ्यः पञ्चम्यन्तं, श्यन् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''कर्तरि शप्''' (३.१.६८) इत्यस्मात् '''कर्तरि''' इत्यस्य अनुवृत्तिः; '''सार्वधातुके यक्''' (३.१.६७) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२), '''धातोः''' (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''कर्तरि सार्वधातुके दिवादिभ्यः धातुभ्यः परश्च श्यन् प्रत्ययः''' |</big>
<big>'''कर्तरि शप्''' (३.१.६८) = कर्त्रर्थे सार्वधातुकप्रत्ययः परे अस्ति चेत्, तर्हि धातुतः शप्-प्रत्ययः भवति | अनुवृत्ति-सहित-सूत्रम्— '''कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः''' |</big>
<big>अयं श्यन् प्रत्ययः शित्, अतः अनेन गुण-कार्यं विहितं यत्र यत्र प्रसक्तम् | परन्तु श्यन् अपित्, अतः '''सार्वधातुकमपित्''' इति सूत्रेण ङिद्वत् | ङिद्वत् अतः '''क्क्ङिति च''' इति कारणतः यत्र यत्र गुण-कार्यं विहितम्, तत्र तत्र निषिद्धम् |</big>
<big>'''सार्वधातुकमपित्''' (१.२.४) = अपित् सार्वधातुकम् ङित् इव अस्ति | सार्वधातुकम् प्रथमान्तम्, अपित् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्मात् '''ङित्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— '''सार्वधातुकम् अपित् ङित्''' |</big>
<big>'''क्क्ङिति च''' (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः '''खरि च''' इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''इको गुणवृद्धी''' (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; '''न धातुलोप आर्धधातुके''' (१.१.४) इत्यस्मात् '''न''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— '''क्क्ङिति च इकः गुणवृद्धी न''' |</big>
<big>प्रश्नः उदेति यत् श्यन्-प्रत्ययस्य आगमनात् प्रागेव किमर्थं न गुणकार्यं भवतु ? यथा दिव्-धातुः + शतृ | शतृ तु शित् अतः अनेन किमर्थं न गुणः ? उत्तरम् अस्ति यत् शतृ अपि अपित् किल, अतः अत्रापि गुणकार्यं निषिद्धम् | (अन्यच्च, तिङ्-प्रसङ्गेऽपि यत्र प्रत्ययः पित्— यथा तिप्-प्रत्ययः— तत्रापि नार्हति गुणकार्यम् | श्यनः विधानं नित्यम्, तिपः गुणकार्यम् अनित्यम् इति कारणम् |)</big>
<big>तर्हि आहत्य दिवादिगणे शतृ-प्रत्यये परे श्यन् विहितः | श्यन् च ङिद्वत् | अस्य एकः परिणामः गुणनिषेधः | परन्तु प्रत्ययस्य ङित् ङिद्वत् च भवनेन केवलं गुणनिषेधः सिद्धः इति न; तस्य अनेके प्रभावाः सन्ति | तेषु त्रयः प्रमुखाः अधोलिखिताः |</big>
<big>यः कोऽपि प्रत्ययः कित् ङित् वा भवति, तं प्रत्ययं निमित्तीकृत्य पूर्वं स्थिते अङ्गे यथासङ्गं त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि—</big>
<big>१) अङ्गान्ते उपधायां च इकः गुणः निषिद्धः | दिवादौ पी + श्यन् + ते → पीयते | पुष् + श्यन् + ति → पुष्यति | पुष् + श्यन् + शतृ → पुष्यत् | '''क्क्ङिति च''' (१.१.५) |</big>
<big>२) अनिदित्-धातूनाम् उपधायां न्-लोपः | येषां धातूनाम् इत् (ह्रस्वः इकारः) इत्-संज्ञकः नास्ति, तेषां धातूनाम् उपधायां नकारः अस्ति चेत्, तस्य लोपो भवति | भ्रंश् + श्यन् + ति → भ्रश्यति | भ्रंश् + श्यन् + शतृ → भ्रश्यत् |</big>
<big>३) सम्प्रसारणिनां धातूनाम् सम्प्रसारणम् | यण्-स्थाने इक्-आदेशः (यण्-सन्धौ यथा भवति, तस्य विपरीतक्रमः), किति ङिति प्रत्यये परे | व्यध् + श्यन् + ति → विध्यति | व्यध् + श्यन् + शतृ → विध्यत् | '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (३.१.१३) |</big>
<big>अन्यानि कित्-ङित्-निमित्तकानि कार्याणि यथासङ्गं वक्ष्यन्ते |</big>
<big>आहत्य यथासामान्यं शतृ-प्रत्यये परे अस्माकं सोपानद्वयं प्रवर्तनीयम्—</big>
<big>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्</big>
<big>२. शतृप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-शतृप्रत्यययोः मेलनम्</big>
<big>दिवादिगणे उपर्युक्तानि श्यन्-निमित्तकानि कार्याणि प्रथमसोपाने भवन्ति यथास्थानम्; द्वितीयसोपाने अङ्गम् अदन्तम् अतः अङ्गकार्यं (गुणकार्यं) नास्ति; वर्णनिमित्तकं कार्यम् अस्ति यथासामान्यम्, '''अतो गुणे''' (६.१.९७) इत्यनेन |</big>
<big>एतत् सर्वं कथं भवति इति अग्रे पश्येम | प्रथमतया धातूनाम् आयोजनशैली एकवारं स्मारणीया | एकैकस्मिन् पाठे अनया शैल्या धातूनां चिन्तनं प्रवर्तिष्यते |</big>
<big><u>धातवः चतुर्दशविधाः</u></big>
<big>वयं जानीमः यत् पाणिनेः सूत्राणि आधारीकृत्य प्रातिपदिकानि तदन्तपदम् अनुसृत्य आयोजितानि—पुंसि अकारान्तशब्दाः, देव इव; इकारान्तशब्दाः, मुनि इव; उकारान्तशब्दाः, गुरु इव; ऋकारान्तशब्दाः, कर्तृ इव | स्त्रियां लता, नदी, मति, धेनु, मातृ; क्लीबे वन, मधु, वारि अपि तथा | नाम देवशब्दः बहूनां शब्दानां प्रतिनिधिः, अतः देवशब्दं जानीमश्चेत्, बहून् शब्दान् जानीमः एव | अपि च प्रक्रियादृष्ट्या, सिद्धान्तकौमुद्यां प्रातिपदिकानां कृते तादृशी व्यवस्था अस्ति एव | रामशब्दस्य व्युत्पत्तिः प्रदर्शिता; इयं च व्युत्पत्तिः सर्वेषाम् अकारान्त-पुंलिङ्गशब्दानां कृते प्रतिनिधिः | तथैव अग्रेऽपि सर्वेषां प्रातिपदिकानां कृते इति |</big>
<big>परन्तु यद्यपि धातूनां कृते अपि पाणिनीयसूत्राणि तथैव व्यवस्थापितानि, तथापि एतावता केनापि तादृशम् आयोजनं न कृतम् | न सिद्धान्तकौमुद्यां, न वा अन्यत्र | अधुनैव प्रथमवारम् ऐतिहासिकी पद्धतिः अक्रियत मात्रा दीक्षितपुष्पया | तया सर्वे द्विसहस्रं धातवः चतुर्दशसु भागेषु विभक्ताः | अजन्तधातवः अन्त्यक्रमेण आयोजिताः; हलन्तधातवः उपधा-क्रमेण विभक्ताः | किमर्थं तथा ? पाणिनेः सूत्राणि तथा सन्ति | अजन्तधातूनां कृते सूत्राणां कार्यम् अन्तिमस्वरम् अनुसृत्य भवति | अतः मात्रा एवमेव रीत्या अजन्तधातवः विभक्ताः—अकारान्ताः, आकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ॠकारान्ताः, एजन्ताः च | हलन्तधातूनां कृते पाणिनेः सूत्राणां कार्यं उपधाम् अनुसृत्य भवति | नाम अन्तिमवर्णात् प्राक् यः वर्णः, तम् अनुसृत्य इति | अतः तत्र हलन्तधातूनां कृते अदुपधाः, इदुपधाः, उदुपधाः, ऋदुपधाः, शेषधातवः चेति |</big>
<big>अधुना दिवादिगणे शत्रन्तप्रातिपदिकनिर्माणं कथं भवति इति वीक्षताम् |</big>
'''<big><u>दिवादिगणः</u> (140 धातवः)</big>'''
<big>'''A.''' <u>सामान्यधातवः</u> (115 धातवः)</big>
<big>एषां धातूनां कृते शत्रन्तप्रातिपदिकनिर्माण-समये किमपि कार्यं नास्ति | केवलं वर्णमेलनम् | इगन्तधातुः वा लघु-इगुपधधातुः वा चेत् '''सार्वधातुकमपित्''' (१.२.४), '''क्क्ङिति च''' (१.१.५) इत्याभ्यां गुणनिषेधः |</big>
<big><u>आकारान्तधातवः</u> (1 धातुः)</big>
<big>माङ् माने → मा → आत्मनेपदिधातुः → लटि मायते (आत्मनेपदिधातुः इत्यस्मात् शत्रन्तरूपं नास्ति)</big>
<big><u>ईकारान्तधातवः</u> (10 धातवः)</big>
<big>सर्वे आत्मनेपदिनः | गुणनिषेधत्वात् अत्रापि किमपि अङ्गकार्यं नास्ति | अपि च यकारस्य संयोजनेन सन्धिकार्यं नास्ति | अतः केवलं वर्णमेलनम्—</big>
<big>पी → पीयते</big>
<big>ई → ईयते</big>
<big>प्री → प्रीयते</big>
<big>री → रीयते</big>
<big>व्री → व्रीयते</big>
<big>डी → डीयते</big>
<big>दी → दीयते</big>
<big>धी → धीयते</big>
<big>मी → मीयते</big>
<big>ली → लीयते</big>
<big><u>ऊकारान्तधातवः</u> (2 धातवः)</big>
<big>द्वावपि आत्मनेपदिनौ | सू → सूयते | दू → दूयते |</big>
<big><u>अदुपधधातवः</u> (19 धातवः)</big>
<big>नश् + श्यन् → नश्य → नश्य + शतृ → नश्य + अत् → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → नश्यत्</big>
<big>शक् → शक्यत्, रध् → रध्यत्, तप् → तप्यत्, शप् → शप्यत्, नभ् → नभ्यत्, अस् → अस्यत्, जस् → जस्यत्, तस् → तस्यत्, दस् → दस्यत्, वस् → वस्यत्, मस् → मस्यत्, स्नस् → स्नस्यत्, नह् → नह्यत्</big>
<big><u>इदुपधधातवः</u> (17 धातवः)</big>
<big>स्निह् + श्यन् → स्निह्य → स्निह्य + शतृ → स्निह्य + अत् → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → स्निह्यत्</big>
<big>सिध् → सिध्यत्</big>
<big>क्षिप् → क्षिप्यत्</big>
<big>स्विद् → स्विद्यत्, क्लिद्, क्ष्विद्, डिप्, तिम्, स्तिम्, श्लिष्</big>
<big><u>उदुपधधातवः</u> (38 धातवः)</big>
<big>क्रुध् + श्यन् → क्रुध्य → क्रुध्य + शतृ → क्रुध्य + अत् → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → क्रुध्यत्</big>
<big>बुध् → बुध्यत्, युध् → युध्यत्, कुप्, पुष्, तुष्, शुच्, उच्, युज्, लुठ्</big>
<big><u>ऋदुपधधातवः</u> (13 धातवः)</big>
<big>नृत् + श्यन् → नृत्य → नृत्य + शतृ → नृत्य + अत् → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → नृत्यत्</big>
<big>तृप् → तृप्यत्, तृष् → तृष्यत्, ऋध् → ऋध्यत्, हृश् → हृश्यत्, गृध्, दृप्, भृश्, वृश्, कृश्</big>
<big><u>शेषधातवः</u> (15 धातवः)</big>
<big>पुष्प् + श्यन् → पुष्प्य → पुष्प्य + शतृ → पुष्प्य + अत् → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → पुष्प्यत्</big>
<big>व्रीड् → व्रीड्यत्, राध् → राध्यत्, स्तीम् → स्तीम्यत् | अवशिष्टाः सर्वे आत्मनेपदिनः |</big>
<big>'''B.''' <u>विशेषधातवः</u> (25 धातवः)</big>
<big>1. <u>अनिदित्-धातूनाम् उपधायां नकारलोपः</u> (2 धातू)</big>
<big>यस्य धातोः ह्रस्व-इकारस्य इत्-संज्ञा भवति, सः धातुः इदित् इति उच्यते | यः धातुः इदित् नास्ति, सः अनिदित् इत्युच्यते | अनिदितां धातूनाम् उपधायाः नकारस्य लोपः भवति किति ङिति प्रत्यये परे | दिवादिगणे तादृशौ द्वौ धातू स्तः, रञ्ज् भ्रंश् च | तयोः शन्त्रन्तप्रातिपादिकनिर्माणम् अनया रीत्या क्रियते—</big>
<big>धातुपाठे अनुस्वारः वर्गीयव्यञ्जनानां पञ्चमसदस्याः च इमे सर्वे मूले दन्त्यनकारः एव इति बोध्यम् | तदा सन्धिकार्येण यथासङ्गम् अनुस्वारः अन्यानि वर्गीयव्यञ्जनानि च स्थाने आगच्छन्ति |</big>
<big>अतः दिवादिगणे रञ्ज्-धातोः मूलरूपम् अस्ति रन्ज्; भ्रंश्-धातोः मूलरूपम् अस्ति भ्रन्श् |</big>
<big>रन्ज् → '''नश्चापदान्तस्य झलि''' इत्यनेन झलि परे अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः → रंज् → '''अनुस्वारस्य ययि परसवर्णः''' इत्यनेन ययि परे अनुस्वारस्य स्थाने परसवर्णादेशः → रञ्ज् | अतः धातुः अस्ति रञ्ज्, परन्तु उपधायां नकारः अस्ति इति बोध्यम् |</big>
<big>रञ्ज् + श्यन् → '''अनिदितां हल उपधाया क्ङिति''' इत्यनेन ङिति प्रत्यये परे उपधायां स्थितस्य नकारस्य लोपः → रज् + य → रज्य → रज्य + शतृ → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → रज्यत्</big>
<big>भ्रन्श् → '''नश्चापदान्तस्य झलि''' इत्यनेन झलि परे अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः → भ्रंश् | शकारः ययि नास्ति, अतः परसवर्णादेशः न भवति | तर्हि धातुः भ्रंश्, परन्तु उपधायां नकारः अस्ति इति बोध्यम् |</big>
<big>भ्रंश् + श्यन् → '''अनिदितां हल उपधाया क्ङिति''' इत्यनेन ङिति प्रत्यये परे उपधायां स्थितस्य नकारस्य लोपः → भ्रश् + य → भ्रश्य → भ्रश्य + शतृ → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → भ्रश्यत्</big>
<big>'''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्-संज्ञा नास्ति, तेषां उपधायां नकारः अस्ति चेत्, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत् इत् अस्ति येषाम् ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम् अनिदिताम् | क् च ङ् च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन् क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात् '''न''', '''लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''अनिदितां हलः अङ्गस्य उपधायाः न लोपः क्ङिति''' |</big>
<big>अनुस्वारादेशः— '''नश्चापदान्तस्य झलि'''</big>
<big>'''नश्चापदान्तस्य झलि''' (८.३.२४) = झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | '''मोऽनुस्वारः''' इत्यस्मात् '''मः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्—'''झलि अपदान्तस्य मः नः च अनुस्वारः''' इति | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः |</big>
<big>परसवर्णादेशः— '''अनुस्वारस्य ययि परसवर्णः'''</big>
<big>'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) = ययि अनुस्वारस्य स्थाने परसवर्णादेशो भवति | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रमेवम्— '''अनुस्वारस्य ययि परसवर्णः संहितायाम्''' इति |</big>
<big>'''परसवर्णः''' इत्युक्ते अनुस्वारात् परः यः वर्णः, तस्य सवर्णः | सवर्णः नाम अनुस्वारात् परे यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते | अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु | परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः ? '''स्थानेऽन्तरतमः''' (१.१.५०) सूचयति यत् यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्टो भवतु | वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव | अतः '''स्थानेऽन्तरतमः''' इत्यस्य साहाय्येन '''अनुस्वारस्य ययि परसवर्णः''' इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशो भवति | यथा—अंग → अङ्ग, मंच → मञ्च, मंता → मन्ता</big>
<big>धेयम्— '''यय्'''-प्रत्याहारः वक्ति यत् श्, ष्, स्, ह् एषु अन्यतमः परे अस्ति चेत्, अनुस्वारस्य परसवर्णादेशो नैव भवति | यथा—रंस्यते = रंस्यते, नंस्यति = नंस्यति, संगंस्यते = संगंस्यते |</big>
<big>'''स्थानेऽन्तरतमः''' (१.१.५०) = प्रसङ्गे (स्थानम्, अर्थं, गुणं, प्रमाणं वा अनुसृत्य) तुल्यतम आदेशो भवतु | यत्र यत्र स्थानेन निर्णेतुं शक्येत तत्र तत्र स्थानमेव निर्णयस्य आधारः | स्थाने सप्तम्यम्तम्, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम् | इदं सूत्रं परिभाषा-सूत्रम् | यत्र (१) आदेशः अपेक्षितः, अपि च (२) अनेकेषां वर्णानां ग्रहणम् अस्ति, अपि च (३) तेषु कः वर्णः गृहीतः स्यात् इत्यर्थं कोऽपि नियमः नास्ति, तस्यां दशायां यत् सूत्रम् आगत्य नियमति तत् परिभाषा-सूत्रम् इत्युच्यते | अत्र '''प्रसङ्गे''' तुल्यतम आदेश इति उक्तम् | "प्रसङ्ग" इत्युक्ते यत्र प्राप्तिरस्ति | तुल्यता, समानता, सादृश्यम् इत्यस्य आधारेण आदेशस्य विधानं चेत्, तर्हि स्थानम्, अर्थं, गुणं, प्रमाणं वा अनुसृत्य तुल्यता परिशील्यताम् | सर्वप्रथमं स्थानं; स्थानं नोपलभ्यते चेत्, अर्थः; अर्थः नोपलभ्यते चेत्, गुणः; गुणः नोपलभ्यते चेत् प्रमाणम् इति निर्णयस्य आधारः |</big>
<big><u>इदितां धातूनां न्-लोपो न भवति</u></big>
<big>यथा वदिँ इति इदित् धातुः | '''इदितो नुम् धातोः''' (७.१.५८) इत्यनेन नुमागमः, वन्द् इति धातुः | अस्य न्-लोपः न भवति |</big>
<big>वदिँ → वद् → वन्द् → वंद् → वन्द्</big>
<big>वदिँ → वद् '''उपदेशेऽजनुनासिक इत्'''</big>
<big>वद् → वन्द् ''' इदितो नुम् धातोः'''</big>
<big>वन्द् → वंद् ''' नश्चापदान्तस्य झलि'''</big>
<big>वंद् → वन्द् ''' अनुस्वारस्य ययि परसवर्णः'''</big>
<big>लाछिँ → लाछ् → लान्छ् → लांछ् → लाञ्छ्</big>
<big>कपिँ → कप् → कन्प् → कंप् → कम्प्</big>
<big>लबिँ → लब् → लन्ब् → लंब् → लम्ब्</big>
<big>'''इदितो नुम् धातोः''' (७.१.५८) = इदितः धातोः नुम् आगमो भवति | इदित् इत्युक्ते इत् इत् यस्य सः | तत्र प्रथमः इत् नाम ह्रस्वः इकारः | द्वितीयः इत् नाम इत्-संज्ञा | ह्रस्व इकारस्य इत्-संज्ञा यस्य, सः धातुः इदित् | इत् इत् यस्य स इदित्, तस्य इदितः, बहुव्रीहिः | इदितः षष्ठ्यन्तं, नुम् प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''इदितो धातोः नुम्''' |</big>
<big>प्रश्नः उदेति-- यदि वदिँ-धातौ नकारादेशः भवति एव, तर्हि किमर्थं वन्द् मूलधातुः न स्यात् ? तथैव यदि लबि मकारः आयाति एव, तर्हि किमर्थं लम्ब् इत्येव मूलधातुः न स्यात् ? उत्तरम् अस्ति यत् तत्र कतिचन कार्याणि सन्ति | यथा '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इत्यनेन यः धातुः इदित् नास्ति, तस्य धातोः उपधायां स्थितस्य नकारस्य लोपः स्यात् किति ङिति परे | परन्तु इदित् चेत् अस्माभिः यः नकारः आनीतः, तस्य नकारस्य लोपः कस्यामपि दशायां न भवति | साक्षात् आरम्भतः नकारः अस्ति चेत्, तस्य लोपः किति ङिति च भवति | यथा बन्ध-धातौ नकारः उपस्थितः मूलधातौ, अतः किति ङिति परे नकारलोपः | ल्युटि "बन्धनं" (नकारः उपस्थितः यतोहि ल्युट् प्रत्ययः कित् अपि नास्ति, ङित् अपि नास्ति); परन्तु क्तान्तरूपं "बद्ध" (नकारलोपः यतोहि क्त प्रत्ययः कित् अस्ति) | लबि धातोः '''इदितो नुम् धातोः''' इत्यनेन नुम् आगमः → लम्ब् | अस्य नकारस्य लोपः किति ङिति न भवति— यथा क्तान्तरूपं लम्बितः |</big>
<big>2. <u>सम्प्रसारणिनः धातवः</u> (1 धातुः)</big>
<big>सम्प्रसारण-संज्ञा भवति यत्र यणः स्थाने इक्-आदेशः भवति | धातौ एतादृशं कार्यं भवति चेत्, सः धातुः सम्प्रसारणी | दिवादिगणे एकः सम्प्रसारणी धातुः अस्ति— व्यध् | अधस्तनेन सूत्रेण ('''ग्रहि ज्या''' इत्यनेन) किति ङिति प्रत्यये परे, सम्प्रसारणं भवति— नाम यणः स्थाने इक् |</big>
<big>सम्प्रसारणम्—</big>
<big>य् → इ</big>
<big>व् → उ</big>
<big>र् → ऋ</big>
<big>ल् → ऌ</big>
<big>व्यध्-धातौ तादृशौ द्वौ वर्णौ स्तः— वकारः यकारश्च | अत्र '''न सम्प्रसारणे सम्प्रसारणम्''' इति सूत्रेण परस्य एव सम्प्ररासणं भवति, न तु पूर्वस्य | अतः व्यध्-धातौ यकारस्य सम्प्रसारणम् |</big>
<big>व्यध् + श्यन् → '''न सम्प्रसारणे सम्प्रसारणम्''' इति सूत्रेण सम्प्रसारणे परे पूर्वं स्थितस्य वकारस्य सम्प्रसारणं न भवति → '''ग्रहि ज्या''' इति सूत्रेण सम्प्रसारण-आदेशः → व्-इ-अ-ध् + य → '''सम्प्रसारणाच्च''' इति सूत्रेण सम्प्रसारण-संज्ञक-वर्णात् परे अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः → विध् + य → विध्य + शतृ → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → विध्यत्</big>
<big>'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) = ग्रह्, ज्या, वय्*, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तम्, ङिति सप्तम्यन्तम्, च अव्ययम्, त्रिपदमिदं सूत्रम् | '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यस्मात् '''किति''' इत्यस्य अनुवृत्तिः; '''ष्यङः सम्प्रसारणम्''' '''पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात् '''सम्प्रसारणम्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्— '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च''' '''सम्प्रसारणम्''' |</big>
<big> क्त प्रत्यये परे (किति इत्यस्य उदाहरणम्)</big>
<big>ग्रह् (क्र्यादौ) → गृह्णाति गृहीतः</big>
<big>ज्या (क्र्यादौ) → जिनाति [वृद्धः, जीर्णः भवति] जीनः</big>
<big>वेञ्* (भ्वादौ) → वयति/ते [to weave, braid, sew] उतः</big>
<big>व्यध् (दिवादौ) → विध्यति [छिनत्ति] विद्धः</big>
<big>वश् (अदादौ) → वष्टि [इच्छति] उशितः</big>
<big>व्यच् (तुदादौ) → विचति [वञ्चयति] विचितः</big>
<big>व्रश्च् (तुदादौ) → वृश्चति [कर्तयति] वृक्णः</big>
<big>प्रच्छ् (तुदादौ) → पृच्छति पृष्टः</big>
<big>भ्रस्ज् (तुदादौ) → भृज्जति [to fry, parch, roast] भृष्टः</big>
<big>*धेयं यत् अस्मिन् सूत्रे 'वयि' तु धातुः नास्ति अपि तु धात्वादेशः | मूलधातुः अस्ति वेञ् | वेञ्-धातोः स्थाने लिट्-लकारे एव 'वय्' इति धात्वादेशो भवति | तस्य च धात्वादेशस्य लिट्-लकारे किति प्रत्यये परे सम्प्रसारणं भवति; '''ग्रहि ज्या वयि''' इति सूत्रे 'वयि' इत्यस्य कार्यं केवलं लिट्-लकारे | लिट्-लकारं विहाय अस्य कार्यं अन्यत्र कुत्रापि न भवति |</big>
<big>'''इग्यणः सम्प्रसारणम्''' (१.१.४५) = यणः स्थाने यः इक्-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक् प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम् प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— '''यणः इक् सम्प्रसारणम्''' |</big>
<big>'''सम्प्रसारणाच्च''' (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् परे अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात् पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''इको यणचि''' (६.१.७७) इत्यस्मात् '''अचि''', '''अमि पूर्वः''' (६.१.१०७) इत्यस्मात् '''पूर्वः''' इत्यनयोः अनुवृत्तिः भवतः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम्''' |</big>
<big>'''न सम्प्रसारणे सम्प्रसारणम्''' (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति | न अव्ययपदं, सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— '''न सम्प्रसारणे सम्प्रसारणम्''' |</big>
<big>3. <u>ॠकारान्ताः धातवः</u> (2 धातू)</big>
<big>दिवादिगणे जॄष्, झॄष् इमौ द्वौ धातू ॠकारान्तौ | '''हलन्त्यम्''', '''तस्य लोपः''' इत्याभ्यां जॄ, झॄ |</big>
<big>जॄ + श्यन् → जॄ + य → '''ॠत इद् धातोः''' इत्यनेन ॠदन्तस्य धातोः ह्रस्व-इकारादेशः → जि + य → '''उरण् रपरः''' (१.१.५१) इत्यनेन ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः → जिर् + य → य हलादिः अतः '''हलि च''' (८.२.७७) इत्यनेन हलि परे रेफान्तस्य धातोः उपधायां स्थितः इक्-वर्णः दीर्घः → जीर् + य → जीर्य → जीर्य + शतृ → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → जीर्यत्</big>
<big>जॄष् + श्यन् अनुबन्धलोपे</big>
<big>जॄ + य '''ॠत इद् धातोः''' (७.१.१००)</big>
<big>जिर् + य ''' उरण् रपरः''' (१.१.५१)</big>
<big>जिर् + य ''' हलि च''' (८.२.७७)</big>
<big>जीर् + य वर्णमेलने</big>
<big>जीर्य + शतृ ''' अतो गुणे''' (६.१.९७)</big>
<big>जीर्यत्</big>
<big>झॄ + श्यन् → '''ॠत इद् धातोः''' → झि + य → '''उरण् रपरः''' → झिर् + य → '''हलि च''' → झीर् + य → झीर्य → झीर्य + शतृ → '''अतो गुणे''' → झीर्यत्</big>
<big>'''ॠत इद् धातोः''' (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति (किति ङिति प्रत्यये परे) | कित्-ङित् भिन्नप्रत्ययः परे चेत्, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन '''ॠतः''' इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम् | ॠतः षष्ठ्यन्तम्, इत् प्रथमान्तम्, धातोः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ॠतः धातोः अङ्गस्य इत्''' |</big>
<big>'''षष्ठी स्थानेयोगा''' (१.१.४९) = षष्ठीविभक्तेः अन्यार्थाभावे 'स्थाने' इत्यर्थो भवति | स्थानेन योगो यस्याः, बहुव्रीहिः | परिभाषासूत्रम् |</big>
<big>'''अलोऽन्त्यस्य''' (१.१.५२) = षष्ठीविभक्ति-द्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः, सः आदेशः अन्त्यस्य अल्-वर्णस्य स्थाने भवति | अलः षष्ठ्यन्तम्, अन्त्यस्य षष्ठ्यन्तम्, द्विपदमिदं सूत्रम् |</big>
<big>'''षष्ठी स्थानेयोगा''' (१.१.४९) इत्यस्मात् '''षष्ठी''', '''स्थाने''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''षष्ठ्या अन्त्यस्य अलः स्थाने''' (विद्यमानः आदेशः) | परिभाषासूत्रम् |</big>
<big>'''येन विधिस्तदन्तस्य''' (१.१.७२) = विशेषणं तदन्तस्य अपि भवति, स्वस्यापि भवति | सोऽन्ते यस्य स तदन्तः, तस्य तदन्तस्य बहुव्रीहिः | विधीयते इति विधिः | येन तृतीयान्तम्, विधिः प्रथमान्तम्, तदन्तस्य षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | '''स्वं रूपं शब्दस्याऽशब्दसंज्ञा''' (१.१.६८) इत्यस्मात् '''स्वम्''', '''रूपम्''' इत्यनयोः अनुवृत्तिः | विभक्तिपरिणामः इत्यनेन षष्ठ्यन्ते भवतः, '''स्वस्य रूपस्य''' | अनुवृत्ति-सहितसूत्रम्— '''येन विधिः तदन्तस्य स्वस्य रूपस्य''' (च)| परिभाषासूत्रम् |</big>
<big>'''उरण् रपरः''' (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति | ऋकारेण त्रिंशत्-प्रकारकः ऋकारः भवति इति बोध्यम् | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्, अण् प्रथमान्तम्, रपरः प्रथमान्तम्, त्रिपदमिदं सूत्रम् | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात् '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''उः स्थाने अण् रपरः''' |</big>
<big>'''हलि च''' (८.२.७७) = हलि परे रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति | हलि सप्तम्यन्तम्, च अव्ययपदम्, द्विपदमिदं सूत्रम् | '''सिप धातो रुर्वा''' (८.२.७४) इत्यस्मात् '''धातोः''' अनुवृत्तिः; '''र्वोरुपधाया दीर्घ इकः''' (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः '''र्वोः''' इत्यनेन येषाम् धातूनाम् अन्ते रेफः वकारश्च, तेषामपि ग्रहणम् | अनुवृत्ति-सहितसूत्रम्— '''हलि च र्वोः धातोः उपधायाः इकः दीर्घः''' |</big>
<big>4. <u>वकारान्तानां इकः दीर्घत्वम्</u> (4 धातवः)</big>
<big>'''हलि च''' (८.२.७७) इत्यनेन यः धातुः वकारान्तः, तस्य उपधायां स्थितः इक्-वर्णः दीर्घो भवति हलि परे | श्यन् इति विकरणप्रत्ययः हलादिः (यकारादिः) च अपित् च, अतः सूत्रस्य प्रसक्तिरस्ति | यदि श्यन् पित् अभविष्यत्, तर्हि '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः अभविष्यत् | गुणकार्याभावे, '''हलि च''' आगत्य कार्यं करोति |</big>
<big>दिवादिगणे चत्वारः धातवः सन्ति— दिवुँ (दिव्), षिवुँ (सिव्), स्त्रिवुँ (स्त्रिव्), ष्ठिवुँ (ष्ठिव्) |</big>
<big>दिव् + श्यन् → '''हलि च''' इत्यनेन वकारान्त-धातोः उपधायां स्थितः इक्-वर्णः दीर्घः → दीव् + य → दीव्य → दीव्य + शतृ → दीव्य + अत् → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → दीव्यत्</big>
<big>सिव् + श्यन् → '''हलि च,''' इक्-वर्णः दीर्घः → सिव् + य → सीव्य → सीव्य + शतृ → '''अतो गुणे''', पररूपादेशः → सीव्यत्</big>
<big>स्रिव् + श्यन् → '''हलि च,''' इक्-वर्णः दीर्घः → स्त्रीव् + य → स्रीव्य → स्रीव्य + शतृ → '''अतो गुणे''', पररूपादेशः → स्रीव्यत्</big>
<big>ष्ठिव् + श्यन् → '''हलि च,''' इक्-वर्णः दीर्घः → ष्ठीव् + य → ष्ठीव्य → ष्ठीव्य + शतृ → '''अतो गुणे''', पररूपादेशः → ष्ठीव्यत्</big>
<big>5. <u>गुणः</u> (1 धातुः)</big>
<big>'''मिदेर्गुणः''' (७.३.८२) = मिद्-धातोः गुणः भवति शिति प्रत्यये परे |</big>
<big>श्यन् शित् अस्ति, अतः यद्यपि अपित्वात् '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणो न, तथापि '''मिदेर्गुणः''' (७.३.८२) इत्यनेन गुणः भवति |</big>
<big>ञिमिदाँ → '''आदिर्ञिटुडवः''' (१.३.५), '''उपदेशेऽजनुनासिक इत्''' (१.३.२), '''तस्य लोपः''' (१.३.९) इत्येभिः अनुबन्धलोपे मिद् इति धातुः |</big>
<big>मिद् + श्यन् → '''मिदेर्गुणः''' (७.३.८२) इत्यनेन शिति परे गुणः → मेद् + य → मेद्य → मेद्य + शतृ → '''अतो गुणे''', पररूपादेशः → मेद्यत्</big>
<big>6. <u>धात्वादेशः</u> (1 धातुः)</big>
<big>'''ज्ञाजनोर्जा''' (७.३.७९) = ज्ञा (क्र्यादिगणे), जन् (दिवादिगणे) चेत्यनयोः जा-आदेशो भवति शिति प्रत्यये परे |</big>
<big>जन्-धातुः आत्मनेपदी अतः शतृ न अपि तु शानच्; अत्र बोधार्थं प्रदर्श्यते—</big>
<big>जनीँ → अनुबन्धलोपे जन् → जन् + श्यन् → '''ज्ञाजनोर्जा''' इत्यनेन शिति परे जा-आदेशः → जा + य → जाय + शानच् → जायमानः, लटि जायते |</big>
<big>7. <u>ओकारान्तानाम् ओकारलोपः</u> (4 धातवः)</big>
<big>'''ओतः श्यनि''' इत्यनेन श्यनि परे धात्वङ्गान्तस्य ओकारस्य लोपो भवति | चत्वारः धातवः सन्ति— शो, दो, छो, षो |</big>
<big>शो + श्यन् → '''ओतः श्यनि''' इत्यनेन श्यनि परे धात्वङ्गान्तस्य ओकारस्य लोपः → श् + य → श्य → श्य + शतृ → '''अतो गुणे''', पररूपादेशः → श्यत् (लटि श्यति)</big>
<big>दो + श्यन् → '''ओतः श्यनि''' इत्यनेन श्यनि परे धात्वङ्गान्तस्य ओकारस्य लोपः → द् + य → द्य → द्य + शतृ → '''अतो गुणे''', पररूपादेशः → द्यत् (लटि द्यति)</big>
<big>छो + श्यन् → '''ओतः श्यनि''' इत्यनेन श्यनि परे धात्वङ्गान्तस्य ओकारस्य लोपः → छ् + य → छ्य → छ्य + शतृ → '''अतो गुणे''', पररूपादेशः → छ्यत् (लटि छ्यति)</big>
<big>षो → '''धात्वादेः षः सः''' (६.१.६४) इत्यनेन मूलधातोः आदौ षकारस्य स्थाने सकारादेशः → सो + श्यन् → '''ओतः श्यनि''' इत्यनेन श्यनि परे धात्वङ्गान्तस्य ओकारस्य लोपः → स् + य → स्य → स्य + शतृ → '''अतो गुणे''', पररूपादेशः → स्यत् (लटि स्यति)</big>
<big>'''ओतः श्यनि''' ( ७.३.७१) = श्यनि परे धात्वङ्गस्य ओकारस्य लोपो भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इति परिभाषा-सूत्रस्य साहाय्येन धात्वन्ते एव ओकारस्य लोपः | ओतः षष्ठ्यन्तम्, श्यनि सप्तम्यन्तम्, द्विपदमिदं सूत्रम् | '''घोर्लोपो लेटि वा''' (७.३.७०) इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''श्यनि अङ्गस्य ओतः लोपः''' |</big>
<big>8. <u>शमादि अन्तर्गणः</u> (8 धातवः)</big>
<big>'''शमामष्टानां दीर्घः श्यनि''' (७.३.७४) = दिवादिगणे कश्चन अन्तर्गणः अस्ति शमादिगणः नाम्ना, यस्मिन् अष्ट धातवः सन्ति | श्यनि परे एषां धातूनाम् उपधायां स्थितः अकारः दीर्घो भवति |</big>
<big>शमुँ → शम् → शम् + श्यन् → '''शमामष्टानां दीर्घः श्यनि''' इत्यनेन दीर्घत्वम् → शाम् + य → शाम्य → शाम्य + शतृ → '''अतो गुणे''', पररूपादेशः → शाम्यत् (लटि शाम्यति)</big>
<big>तमुँ → तम् → तम् + श्यन् → '''शमामष्टानां दीर्घः श्यनि''' इत्यनेन दीर्घत्वम् → ताम् + य → ताम्य → ताम्य + शतृ → '''अतो गुणे''', पररूपादेशः → ताम्यत्</big>
<big>दमुँ → दम् → दम् + श्यन् → '''शमामष्टानां दीर्घः श्यनि''' इत्यनेन दीर्घत्वम् → दाम् + य → दाम्य → दाम्य + शतृ → '''अतो गुणे''', पररूपादेशः → दाम्यत्</big>
<big>श्रमुँ → श्रम् → श्रम् + श्यन् → '''शमामष्टानां दीर्घः श्यनि''' इत्यनेन दीर्घत्वम् → श्राम् + य → श्राम्य → श्राम्य + शतृ → '''अतो गुणे''', पररूपादेशः → श्राम्यत्</big>
<big>भ्रमुँ → भ्रम् → भ्रम् + श्यन् → '''शमामष्टानां दीर्घः श्यनि''' इत्यनेन दीर्घत्वम् → भ्राम् + य → भ्राम्य → भ्राम्य + शतृ → '''अतो गुणे''', पररूपादेशः → भ्राम्यत्</big>
<big>क्षमूँ → क्षम् → क्षम् + श्यन् → '''शमामष्टानां दीर्घः श्यनि''' इत्यनेन दीर्घत्वम् → क्षाम् + य → क्षाम्य → क्षाम्य + शतृ → '''अतो गुणे''', पररूपादेशः → क्षाम्यत्</big>
<big>क्लमुँ → क्लम् → क्लम् + श्यन् → '''शमामष्टानां दीर्घः श्यनि''' इत्यनेन दीर्घत्वम् → क्लाम् + य → क्लाम्य → क्लाम्य + शतृ → '''अतो गुणे''', पररूपादेशः → क्लाम्यत्</big>
<big>मदीँ → मद् → मद् + श्यन् → '''शमामष्टानां दीर्घः श्यनि''' इत्यनेन दीर्घत्वम् → माद् + य → माद्य → माद्य + शतृ → '''अतो गुणे''', पररूपादेशः → माद्यत्</big>
<big>9. <u>विकरणप्रत्यय-विकल्पः</u></big>
<big>'''वा भ्राशभ्लशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः''' (३.१.७९) = भ्राश्, भ्लाश्, भ्रमु, क्रम्, क्लम्, त्रस्, त्रुट्, लष्, एभ्यः शप्-श्यन्, एतौ प्रत्ययौ वा भवतः |</big>
<big>त्रसीँ → त्रस् → त्रसति, त्रस्यति वा |</big>
<big>शतृ-प्रत्यये परे—</big>
<big>त्रस् + शप् → त्रस → त्रस + शतृ → '''अतो गुणे''', पररूपादेशः → त्रसत्</big>
<big>त्रस् + श्यन् → त्रस्य → त्रस्य + शतृ → '''अतो गुणे''', पररूपादेशः → त्रस्यत्</big>
<big>इति दिवादिगणे शत्रन्तप्रातिपदिकनिर्माणं परिसमाप्तम् |</big>
<big>Swarup – Nov 2014</big>
<big>---------------------------------</big>
[https://static.miraheze.org/samskritavyakaranamwiki/d/db/%E0%A5%A6%E0%A5%AB_-_%E0%A4%A6%E0%A4%BF%E0%A4%B5%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%B6%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%A6%E0%A4%BF%E0%A4%95%E0%A4%A8%E0%A4%BF%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D_.pdf ०५ - दिवादिगणे शत्रन्तप्रातिपदिकनिर्माणम्.pdf] (85k) Swarup Bhai, Dec 18, 2019, 1:35 AM v.1
|