06A---sArvadhAtukaprakaraNaM-kRutsu/05---divAdigaNe-shatrantaprAtipadikanirmANam: Difference between revisions

Incorporated reviewer comments
No edit summary
(Incorporated reviewer comments)
Line 37:
 
<big>'''कर्तरि शप्‌''' (३.१.६८) = कर्त्रर्थे सार्वधातुकप्रत्ययः परे अस्ति चेत्‌, तर्हि धातुतः शप्‌-प्रत्ययः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''कर्तरि सार्वधातुके धातोः परश्च शप्‌ प्रत्ययः''' |</big>
 
 
<big>अयं श्यन्‌ प्रत्ययः शित्‌, अतः अनेन गुण-कार्यं विहितं यत्र यत्र प्रसक्तम्‌ | परन्तु श्यन्‌ अपित्‌, अतः '''सार्वधातुकमपित्‌''' इति सूत्रेण ङिद्वत्‌ | ङिद्वत्‌ अतः '''क्क्ङिति च''' इति कारणतः यत्र यत्र गुण-कार्यं विहितम्‌, तत्र तत्र निषिद्धम्‌ |</big>
 
 
 
Line 54 ⟶ 56:
 
<big>यः कोऽपि प्रत्ययः कित्‌ ङित्‌ वा भवति, तं प्रत्ययं निमित्तीकृत्य पूर्वं स्थिते अङ्गे यथासङ्गं त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि—</big>
 
 
<big>१) अङ्गान्ते उपधायां च इकः गुणः निषिद्धः | दिवादौ पी + श्यन्‌ + ते → पीयते | पुष्‌ + श्यन्‌ + ति → पुष्यति | पुष्‌ + श्यन्‌ + शतृ → पुष्यत्‌ | '''क्क्ङिति च''' (१.१.५) |</big>
Line 67 ⟶ 68:
 
<big>आहत्य यथासामान्यं शतृ-प्रत्यये परे अस्माकं सोपानद्वयं प्रवर्तनीयम्‌—</big>
 
 
<big>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌</big>
Line 253:
 
<big>वंद्‌ → वन्द्‌ '''    अनुस्वारस्य ययि परसवर्णः'''</big>
 
 
<big>लाछिँ → लाछ्‌ → लान्छ्‌ → लांछ्‌ → लाञ्छ्‌</big>
Line 262 ⟶ 263:
 
<big>'''इदितो नुम्‌ धातोः''' (७.१.५८) = इदितः धातोः नुम्‌ आगमो भवति | इदित्‌ इत्युक्ते इत्‌ इत्‌ यस्य सः | तत्र प्रथमः इत्‌ नाम ह्रस्वः इकारः | द्वितीयः इत्‌ नाम इत्‌-संज्ञा | ह्रस्व इकारस्य इत्‌-संज्ञा यस्य, सः धातुः इदित्‌ | इत्‌ इत्‌ यस्य स इदित्‌, तस्य इदितः, बहुव्रीहिः | इदितः षष्ठ्यन्तं, नुम्‌ प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''इदितो धातोः नुम्‌''' |</big>
 
 
<big>प्रश्नः उदेति-- यदि वदिँ-धातौ नकारादेशः भवति एव, तर्हि किमर्थं वन्द्‌ मूलधातुः न स्यात्‌ ? तथैव यदि लबि मकारः आयाति एव, तर्हि किमर्थं लम्ब्‌ इत्येव मूलधातुः न स्यात्‌ ? उत्तरम्‌ अस्ति यत्‌ तत्र कतिचन कार्याणि सन्ति | यथा '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) इत्यनेन यः धातुः इदित्‌ नास्ति, तस्य धातोः उपधायां स्थितस्य नकारस्य लोपः स्यात्‌ किति ङिति परे | परन्तु इदित्‌ चेत्‌ अस्माभिः यः नकारः आनीतः, तस्य नकारस्य लोपः कस्यामपि दशायां न भवति | साक्षात्‌ आरम्भतः नकारः अस्ति चेत्‌, तस्य लोपः किति ङिति च भवति | यथा बन्ध-धातौ नकारः उपस्थितः मूलधातौ, अतः किति ङिति परे नकारलोपः | ल्युटि "बन्धनं" (नकारः उपस्थितः यतोहि ल्युट्‌ प्रत्ययः कित्‌ अपि नास्ति, ङित्‌ अपि नास्ति); परन्तु क्तान्तरूपं "बद्ध" (नकारलोपः यतोहि क्त प्रत्ययः कित्‌ अस्ति) | लबि धातोः '''इदितो नुम्‌ धातोः''' इत्यनेन नुम्‌ आगमः → लम्ब्‌ | अस्य नकारस्य लोपः किति ङिति न भवति— यथा क्तान्तरूपं लम्बितः |</big>
 
 
 
Line 296 ⟶ 299:
<big>ग्रह्‌ (क्र्यादौ) → गृह्णाति                                                                       गृहीतः</big>
 
<big>ज्या (क्र्यादौ) → जिनाति [वृद्धः, जीर्णः भवति]                                            जीनः</big>
 
<big>वेञ्‌* (भ्वादौ) → वयति/ते [to weave, braid, sew]                                  उतः</big>
 
<big>व्यध्‌ (दिवादौ) → विध्यति [छिनत्ति]                                                        विद्धः</big>
Line 308 ⟶ 311:
<big>व्रश्च्‌ (तुदादौ) → वृश्चति [कर्तयति]                                                           वृक्णः</big>
 
<big>प्रच्छ्‌ (तुदादौ) → पृच्छति                                                                    पृष्टः</big>
 
<big>भ्रस्ज्‌ (तुदादौ) → भृज्जति [to fry, parch, roast]                                       भृष्टः</big>
 
 
Line 433 ⟶ 436:
 
<big>'''ओतः श्यनि''' ( ७.३.७१) = श्यनि परे धात्वङ्गस्य ओकारस्य लोपो भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इति परिभाषा-सूत्रस्य साहाय्येन धात्वन्ते एव ओकारस्य लोपः | ओतः षष्ठ्यन्तम्‌, श्यनि सप्तम्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''घोर्लोपो लेटि वा''' (७.३.७०) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''श्यनि अङ्गस्य ओतः लोपः''' |</big>
 
 
<big>8. <u>शमादि अन्तर्गणः</u> (8 धातवः)</big>
 
 
 
Line 479 ⟶ 484:
<big>---------------------------------</big>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
 
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.</big>
 
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].</big>
 
 
teachers
279

edits